संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ५३४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५३४ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्म्येकदा शंभुरासीनोऽभूद् वरान्तिकम् ।कैलासे ध्यानमग्नस्तु कृष्णनारायणं स्मरन् ॥१॥कुंकुमवापिकाक्षेत्रं प्रभासं तीर्थमुत्तमम् ।व्याघ्रारण्यं महारम्यं सिंहारण्यं च रैवतम् ॥२॥अश्वपट्टसरस्तीर्थं भद्रां शत्रुंजितां नदीम् ।लोमशं वैष्णवं भक्तं विष्णुं गोपालकृष्णकम् ॥३॥देवीं च कम्भरालक्ष्मीं स्मरन् ध्याने ह्यभूत् स्थिरः ।तस्योत्संगे समागत्य तप्तकांचनसप्रभा ॥४॥श्रीदेवी पार्वती योगसिद्धिदा मोक्षदायिनी ।निषसाद मुखं शंभोर्विलोक्य सस्मिताऽभवत् ॥५'॥उवाच देवी मधुरं प्रेमपूरितलोचना ।कं ध्यायसेऽहर्निशं त्वं नाऽतो विरमसे क्वचित् ॥६॥एवमुक्त्वाऽतिभावेन संजाताऽस्राऽऽविलेक्षणा ।शंभुर्ध्यान परित्यज्य प्राह भक्तां महेश्वरीम् ॥७॥कथं ह्यस्राविलनेत्रा प्रेम्णा शुचाऽथवा प्रिये ।वद सर्वमभीष्टं ते करवाणि सदा प्रिये ॥८॥त्वं मे हृदयं देवेशि तथाऽहं हृदयं च ते ।अहं तवास्मि सर्वस्वं त्वं च सर्वस्वमेव मे ॥९॥श्रुत्वा वै पार्वती देवी बभूव स्वस्थमानसा ।पुनः पप्रच्छ कान्तं तद्ध्यानमग्नस्य कारणम् ॥१०॥किमिदं ध्यायसि नाथ वद मे शाश्वतं यदि ।सनातनं स्वरूपं चेल्लोकमोक्षप्रदं तथा ॥११॥शंभुः प्राह सति! नास्य ध्यानस्थस्य हरेर्मया ।कृष्णनारायणस्यात्र पारं गन्तुं हि शक्यते ॥१२॥स सदाऽऽलोक्यते ध्याने चिन्त्यते स रमेश्वरः ।पूज्यते कमलाकान्तोऽर्च्यते श्रीमाणिकीपतिः ॥१३॥सेव्यते स प्रभाकान्तो लक्ष्मीपतिर्नरायणः ।पार्वतीश्वर एवाऽयं यो मया ध्यायते सति ॥१४॥अहमस्मात्समुत्पन्नो नाऽत्म्यहं तु पृथक् ततः ।तं ध्यायामि त्वनादिश्रीकृष्णनारायणं सति ॥१५॥तिस्रः कोट्योऽर्धकोटिश्च तीर्थानि यत्र वै हरौ ।सदा तिष्ठन्ति सर्वेशि तं स्मरामि श्रियः पतिम् ॥१६॥त्वां स्मरामि हरेः पार्श्वस्थितां लक्ष्मीस्वरूपिणीम् ।आत्मानं श्रीकृष्णनारायणात्मकं स्मराम्यहम् ॥१७॥लोमशस्याश्रमो यत्र यद्भूमौ रैवताचलः ।प्रभासं मम तीर्थं च यत्र देशे सुराष्ट्रके ॥१८॥यत्र शत्रुंजिता, भद्रा, यत्र कुंकुमवापिका ।अश्वपट्टसरो यत्र तत्र गोपालनन्दनम् ॥१९॥अनादिश्रीकृष्णनारायणं स्थितं स्मराम्यहम् ।असद्भावान्विताः क्षेत्रं नैव जानन्ति शाश्वतम् ॥२०॥सद्भावभाविता देवि जानन्त्येतत् सनातनम् ।कृष्णनारायणस्यैतत् प्राकट्यस्य स्थलं शुभम् ॥२१॥क्षेत्रस्याऽस्याऽभिधानानि कल्पे कल्पे पृथक्पृथक् ।जायन्ते युगभेदेन जना जानन्ति नैव तत् ॥२२॥पूर्वं नाम्ना मणिक्षेत्रमभूत् सुराष्ट्रमण्डलम् ।पाद्मक्षेत्रं ततश्चाऽभून्नाम्ना ख्यातं तदेव तु ॥२३॥वैष्णवं क्षेत्रमेवैतन्नाम्ना जातं ततः परम् ।ततो वै लोमशक्षेत्रं नाम्नाऽभूत् ख्यातमेव तत् ॥२४॥ततः पत्नीव्रतक्षेत्रं नाम्ना जातं प्रसिद्धिमत् ।तत इन्द्रद्युम्ननामक्षेत्रं तत्समजायत ॥२५॥ततो वै नारसिंहाख्यं क्षेत्रं तत्समजायत ।ततो व्याघ्रारण्यनामक्षेत्रं वै समजायत ॥२६॥ततो रुक्मांगदक्षेत्रं नाम्ना ख्यातमजायत ।कुंकुमवापिकाक्षेत्रं ततः ख्यातमजायत ॥२७॥अश्वपट्टसरस्तीर्थं ततो नाम्ना ह्यजायत ।ततः प्राभासिकं क्षेत्रं नाम्ना प्रोक्तं भविष्यति ॥२८॥ततः सोमेश्वरं क्षेत्रं ततः कंकाभिधं पुनः ।ततः सोमपदं क्षेत्रं नाम्ना ख्यातं भविष्यति ॥२९॥ततः क्षेत्रं गिरिनारं कालान्तरे भविष्यति ।कल्पे मध्ये सुराष्ट्रं च मम योगानुसारतः ॥३०॥ऋषेर्योगात्तथा कृष्णनारायणस्य योगतः ।तव योगात्तथा काले पृथङ्नामानि सर्वथा ॥३१॥भविष्यन्ति सति तानि जानाम्यहं हि योगतः ।तादृशं पुण्यकृत्क्षेत्रं मोक्षदं सर्वदेहिनाम् ॥३२॥अनादिश्रीकृष्णनारायणवासात्मकं सदा ।यत्र वै वामतो विष्णुर्यत्र कृष्णनरायणः ॥३३॥तलस्वामी तथा यत्र गोपीनाथोऽपि यत्र च ।यत्र सिद्धेश्वरश्चाहं यत्र भद्रेश्वरस्तथा ॥३४॥सोमेश्वरस्तथा चास्मि यत्र त्वं भद्रिका सति ।यत्र मध्यभुवि त्वस्ति लक्ष्मीनारायणः प्रभुः ॥३५॥राजधान्यां यत्र साध्व्यो बह्व्यो वै कृष्णयोषितः ।यत्राऽऽनर्तोद्भवं राज्यं यत्र गोपालकृष्णजः ॥३६॥अनादिश्रीकृष्णनारायणः साक्षाद् वसत्यपि ।तादृशं तद्विशालं च क्षेत्रं वै शतयोजनम् ॥३७॥प्रायः समुद्रतो व्याप्तं त्रिपार्श्वे प्राग्भुवाऽन्वितम् ।दर्शनादपि लोकानां पापतापनिवारकम् ॥३८॥यत्र सतां च साध्वीनां योगिनीनां कुलानि च ।महतां सात्त्वतानां च भुवां रक्षणकारिणाम् ॥३९॥ज्ञानिनां च तपस्यायां रतानां ब्रह्मचारिणाम् ।कुलानि लोककल्याणकारिणां प्रवसन्त्यपि ॥४०॥नारीणां साधुभक्तानां साधुनाथार्थदेहिनाम् ।सर्वस्वार्पणभक्तानां स्वामिनारायणसेविनाम् ॥४१॥यत्र विष्णोः कलांशाश्च प्रजायन्ते विभूतयः ।तत्क्षेत्रं चासनं देवि पुरातनं हि मेऽस्ति यत् ॥४२॥तत् स्मरामि महत्क्षेत्रं शान्तिं यामि पुरातनीम् ।त्वां स्मरामि यदा देवि बहिश्चायामि वै क्षणात् ॥४३॥एवं मे वल्लभं क्षेत्रं कल्पान्ते कार्ष्णवाल्लभम् ।नाम्ना ख्यातं पार्वतं च तव योगाद्भविष्यति ॥४४॥तस्मिन् क्षेत्रे महादेवि ह्येकान्तेऽब्धितटे सदा ।निवसामि मया गुप्तं कृतं स्थानं ममार्थवत् ॥४५॥युगे युगे तु तीर्थानि जायन्ते च वियन्ति च ।अशास्त्रवाचकानां तु क्षेत्रसंगोपनं वरम् ॥४६॥पापा निन्दन्ति माहात्म्यमज्ञात्वा भूतले हरिम् ।अनादिश्रीकृष्णनारायणं सुराष्ट्रजं प्रभुम् ॥४७॥इदं तीर्थमिदं तीर्थं भ्रमन्ति ज्ञानहीनकाः ।गृहतीर्थं न जानन्ति मीनशूलधनुर्ध्वजैः ॥४८॥वज्रस्वस्तिकचक्रैश्च नारायणं हि गोचरम् ।राधिकापार्वतीलक्ष्मीमाणिकीसुप्रभापतिम् ॥४९॥सर्वेषां खलु तत्त्वानां स्वामिनं वल्लभं पतिम् ।अहं देवि भजाम्येनं श्रीकृष्णं पुरुषोत्तमम् ॥५०॥परे धाम्नि स्थितं चाश्वपट्टसरस्तटस्थितम् ।लोमशस्याश्रमे कान्तं कोटिगोपीपतिं प्रभुम् ॥५१॥यस्य वासः सदा तत्र कल्पे कल्पान्तरेऽपि च ।ततोऽहं नित्यदा देवि तं स्मरामि पुरातनम् ॥५२॥अन्येषु तीर्थवर्येषु मे मनो न स्थिरायते ।कुंकुमवापिकातीर्थे सर्वात्मना स्थिरायते ॥५३॥ततो नित्यं सहजेन स्मर्यते मनसा हि तत् ।यावत्स्मरामि तत्क्षेत्रं तावत् कृष्णनारायणः ॥५४॥प्रहसन् मां प्रति त्वेति यथा मित्रं पुरातनम् ।अनेकैर्दिव्यभावैश्च लीलाभिः स मनोहरः ॥५५॥कल्पान्तरानुरूपाभिः रमयत्येव मां प्रिये! ।यथा मे मानसं तस्मिन् ग्रथितं न वियुज्यते ॥५६॥तथाऽनादिकृष्णनारायणो मां स्वे प्रकर्षति ।नैव मुञ्चति भियं मां निरोधयति मां निजे ॥५७॥एतादृशं परं क्षेत्रं स्मर कान्ते महेश्वरि ।अनादिश्रीकृष्णनारायणं स्मर मम प्रिये ॥५८॥इत्युक्ता पार्वती देवी ब्रह्मानन्दपरिप्लुता ।क्षेत्रस्य श्रवणादेव बभूव ब्रह्मतन्मयी ॥५९॥तावत्तस्याः कृष्णनारायणः स्वहृदयेऽस्फुरत् ।दिव्यरूपधरो बालः कोटिकन्दर्पसुन्दरः ॥६०॥प्राह मातर्मम क्षेत्रं कथं नायासि वै क्वचित् ।इत्युक्त्वा पार्वतीं नत्वा तेजोमण्डलमध्यगः ॥६१॥कोटिकान्ताकान्तसेवितः साक्षाद् दर्शनं ददौ ।युवाऽक्षराख्यलोकस्य मुक्तैर्जुष्टस्ततः परम् ॥६२॥गोलोकस्थो द्विभुजश्च गोपीगोपगणार्चितः ।वैकुण्ठस्थश्चतुर्बाहुः रमाश्रीकमलार्चितः ॥६३॥कैलासस्थो नागसूत्रो हिमोज्ज्वलो दृढो युवा ।जटाजूटशिराश्चोरौ सती यस्यास्ति सोऽभवत् ॥६४॥एवं दत्वा दर्शनं स्वं पुनश्चान्तरधीयत ।सती तु पार्वती देवी महदाश्चर्यमास्थिता ॥६५॥जजागार समाधेः सा प्राह श्रीशंकरं पतिम् ।दृष्टं क्षेत्रं मया कान्त दृष्टः कृष्णनरायणः ॥६६॥इदानीं कृतकृत्याऽहं जाता दृष्ट्वाऽच्युतं पतिम् ।यश्च संवर्तते धाम्नि परेऽक्षरात् पुमुत्तमः ॥६७॥स एव श्रीकृष्णनारायणोऽश्वपट्टतीर्थके ।गोलोके चापि वैकुण्ठे कैलासेऽपि स एव सः ॥६८॥पतिर्मे वर्तसे चैवं मया हृदि विलोकितम् ।वद क्षेत्रं विशालं मे श्रवानन्दः प्रजायते ॥६९॥कुंकुमवापिकाक्षेत्रं सर्वतीर्थोत्तमोत्तमम् ।अद्य ज्ञातं मया शंभो! माहात्म्यं कथयस्व मे ॥७०॥जपं दत्तं हुतं चेष्टं तपस्तप्तं कृतं च यत् ।कुंकुमवापिकाक्षेत्रे क्व कस्मिंश्चाऽक्षयं भवेत् ॥७१॥क्षेत्रस्य वर्तुलं सीम क्षेत्रसारं च मे वद ।तव हस्ताऽऽमलकवद् दृश्यं भवति सर्वथा ॥७२॥शंकरः प्राह देवेशि सौराष्ट्रं तु प्रियं मम ।कुंकुमवापिकाक्षेत्रं कृष्णस्य मम च प्रियम् ॥७३॥प्रभासाद् रैवताद्रेश्च शत्रुंजितानदीमतः ।चमत्कारपुराच्चापि तत्क्षेत्रं सुप्रियं मम ॥७४॥यत्र सन्निहितो नित्यमच्युतो भगवान् स्वयम् ।यत्र वै लोमशो ब्रह्मा यत्राऽहं निवसामि च ॥७५॥शतयोजनविस्तीर्णं क्षेत्रं सौराष्ट्रमण्डलम् ।मणिजन्यं तु तद्दिव्यं मोक्षदं प्राणिनां सदा ॥७६॥पश्चिमे रैवतं पीठं पूर्वे शनुंजिदाह्वयम् ।उत्तरे च चमत्कारं दक्षिणे सोमनाथकम् ॥७७॥अन्तःपीठं त्वश्वपट्टसरः कुंकुमवापिका ।यत्र भद्रा हिरण्या च स्वर्णरेखा ह्युजस्वती ॥७८॥हरिण्युन्मत्तगंगा च शत्रुंजिता सरस्वती ।नागनदी गोमती च कृष्णा दिव्या हरेःप्रियाः ॥७९॥आपगा भवतारिण्यः सौराष्ट्रे सन्ति सर्वदा ।न्यंकुमती वज्रिणी च माहेश्वरी महासती ॥८०।सिंहारण्यस्थितान्येव सन्ति तीर्थानि तान्यपि ।सौराष्ट्रे यानि तीर्थानि कृष्णनारायणेच्छया ॥८१।८वापी कूपतडागानि पल्लवानि ह्रदादयः ।सरांसि चापगाश्चापि देवानामालयास्तथा ॥८२।सतां निवासा ग्रामाश्च मेध्याः पापहरा हि ते ।सौराष्ट्रे मध्यदेशे श्रीकृष्णनारायणो हरिः ॥८३।उत्तरे श्रीवासुदेवो गोलोकाधिपतिः प्रभुः ।पश्चिमे वामनो देवो दक्षिणे सोमनाथकः ॥८४।पूर्वे श्रीगोपिकानाथो वर्तन्ते भवतारकाः ।मध्यभागे वसेद् यस्तु यदि नैष्कृतिको नरः ॥८५॥यदि पापो यदि शठो मुच्यते सर्वपातकात् ।मध्यभागे सदा देवि! त्वया सह वसाम्यहम् ॥८६॥तत्र ब्रह्मादयः सन्ति नारायणपुरोगमाः ।योगिनः साधवस्तत्रोपासते लोमशं मुनिम् ॥८७॥यत्किंचिदशुभं कर्म कृतं मानवबुद्धिना ।तत्सर्वं विलयं यायात्कृष्णनारायणाश्रयात् ॥८८॥गोपालेश्वरनामाऽहं मध्ये तिष्ठामि तत्र वै ।असंख्यत्वात्तु कल्पानां जना जानन्ति नैव माम् ॥८९॥स्नेहाच्च तव भक्त्या च मया तेऽत्र निवेदितम् ।अहं वै वैष्णवो भूत्वा मध्ये वसामि सर्वदा ॥९०॥यज्ञदानजपैर्होमैः स्वाध्यायैः पितृतर्पणैः ।चान्द्रायणैश्चोपवासैस्तीर्थादिगमनैस्तथा ॥९१॥यत्पदं लभ्यते देवि ततः श्रेष्ठं पदं हरेः ।अक्षराख्यं महद्धाम प्राप्यते मध्यसंश्रयात् ॥९२॥तिर्यग्योनिगता ये च पशुपक्षिमृगादयः ।कृमिकीटपतंगाद्या जलस्थलनिवासिनः ॥९३॥स्थावरा जंगमाश्चान्ये बाला वृद्धा नराः स्त्रियः ।चाण्डालाः पुष्कसाश्चापि कुत्सिता विमतास्तथा ॥९४॥वियोनिजा देहिनश्च मुच्यन्ते मध्यवासतः ।लोमशो नारसिंहश्च सनकाद्याश्चिरायुषः ॥९५॥मार्कण्डेयः पञ्चशिखो वोढुरासुरिरित्यपि ।दत्तात्रेयो हनुमाँश्च गणेशो व्यास इत्यपि ॥९६॥जाम्बवान् कपिलश्चान्ये यत्र क्षेत्रे वसन्ति च ।तेषां प्रतापतो जीवा मुच्यन्ते मध्यवासतः ॥९७॥दशार्बुदसहस्राणि कोटित्रितयमित्यपि ।सौराष्ट्रे ऋषयो नित्यं तिष्ठन्त्यदृश्यरूपिणः ॥९८॥मेरोः शक्या गुणा वक्तुं समुद्राणां च बिन्दवः ।कृष्णनारायणस्यात्र दिव्यक्षेत्रस्य वै सति! ॥९९॥शक्या नैव गुणा वक्तुं वर्षकोटिशतैरपि ।इत्याह शंकरो देवीं ततश्च विरराम ह ॥१००॥एवं लक्ष्मि! तव पत्युः कृष्णनारायणस्य मे ।क्षेत्रं पुण्यं परं श्रुत्वा सस्मार पार्वती हरिम् ॥१०१॥ध्याने स्थिता च सा नित्यं प्राप्तः स्मरति भावतः ।अनादिश्रीकृष्णनारायणक्षेत्रं सुमुक्तिदम् ॥१०२॥श्रवणात्पठनाच्चाऽस्य स्मरणाद्वन्दनादपि ।भुक्तिमुक्तिप्रदं क्षेत्रं जीवानां सम्पदां प्रदम् ॥१०३॥इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सौराष्ट्रे कुंकुमवापीतीर्थक्षेत्रमहिम्नः पार्वतीं प्रति शंकरकृतं वर्णनमितिनिरूपणनामा चतुस्त्रिंशदधिकपञ्चशततमोऽध्यायः ॥५३४॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP