संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ५२६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५२६ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! वसोः पूर्ववृत्तान्तं चाऽभवद्यथा ।कथयामि चमत्कारं रैभ्यस्यापि ततः परम् ॥१॥वसुरासीन्महाभक्तः काश्मीरनृपतिः स्वयम् ।अनादिश्रीकृष्णनारायणस्य शरणागतः ॥२॥'ओं नमः श्रीकृष्णनारायणस्य स्वामिने नमः' ।इतिमन्त्रं प्रजग्राह वार्धक्ये तु नरायणात् ॥३॥बादरीं स समायाति प्रतिसंवत्सरं नृपः ।नारायणस्य सेवार्थं दर्शनार्थं च भावतः ॥४॥कण्ठे च तुलसीमालां सदा रक्षति शोभनाम् ।करेऽपि जपनार्थं सर्वदा रक्षति मालिकाम् ॥५॥जानन् क्षणस्थितिं स्वस्य संसारस्यापि तादृशीम् ।संसारे निर्मिताः सर्वे संघाताः शोकभीप्रदाः ॥६॥वायुश्च भूमिराकाशो जलं तेजश्च पंकजम् ।शरीरं पञ्चभूतैश्च निर्मितं सर्वदेहिनाम् ॥७॥मिथ्याभ्रमः कृत्रिमश्च स्वप्नवन्माययाऽन्वितः ।को वा कस्य सुतस्तत्र का स्त्री कस्य पतिस्तथा ॥८॥कर्मभिर्निर्मितं सर्वं कर्मबन्धनजं त्विदम् ।सुख दुःखं भयं शोकं देहयोगे प्रगच्छति ॥९॥मानुषे च पशौ देवे द्रुषु कीटेषु जन्तुषु ।पक्षिष्वपि तृणे चापि जन्म याति स्वकर्मभिः ॥१०॥पुनः पुनर्भ्रमत्येव यावत्कर्मलयो न वै ।सत्यं त्रेता द्वापरश्च कलिश्चेति चतुर्युगम् ॥११॥निमेषस्य चतुर्भागस्त्रुटिः स्यात् तद्द्वयं लवः ।लवद्वयं यवः प्रोक्तः काष्ठा तद्दशपंचभिः ॥१२॥त्रिंशत्काष्ठाः कलाः प्रोक्ता क्षणस्त्रिंशत्कलो मतः ।क्षणैः षष्ट्या पलं प्रोक्तं षष्ट्या तेषां च नाडिका ॥१३॥नाडीद्वयं मुहूर्तं त्रिंशन्मुहूर्तं दिवानिशम् ।मासस्त्रिंशदहोरात्रैर्द्वौ मासौ तु ऋतुर्मतः ॥१४॥ऋतुत्रयं स्यादयनमयने द्वे तु वत्सरम् ।अनेनैव तु मानेन मानवानां कृतेऽत्र वै ॥१५॥लक्षैः सप्तदशाख्यैश्च सौराब्दैश्च तथा परैः ।अष्टाविंशतिसाहस्रैर्निश्चितं वै कृतं युगम् ॥१६॥अष्टशताधिक्ययुक्तचतुःसाहस्रसंख्यकाः ।षष्ट्यधिकत्रिशतकैर्गुणितास्ते कृते मताः ॥१७॥तत्र वै जायते शुक्लवर्णो हि भगवान् स्वयम् ।लोकाः पापविनिर्मुक्ताः क्षान्ता दान्ता जितेन्द्रियाः ॥१८॥दीर्घायुषस्तपोमग्नः कामक्रोधादिवर्जिताः ।न पुत्रसंभवो मृत्युर्वीक्ष्यते जनकैः क्वचित् ॥१९॥ततस्त्रेतायुगं स्याच्च लक्षैर्द्वादशभिस्तथा ।षण्णवतिसाहस्रैः सौराब्दैर्निश्चितं सुरैः ॥२०॥षट्शताधिक्ययुक्तत्रिसाहस्रसंख्यकाः खलु ।षष्ट्यधिकत्रिशतकैर्गुणितास्ते त्रिके युगे ॥२१॥पापेनैकेन पादेन रौद्रं धर्मं तदा विशेत् ।ततो रक्तत्वमभ्येति श्रीमत्कृष्णनरायणः ॥२२॥पापांशेन मिथो लोकः संस्पर्द्धी जायते तदा ।स्वर्गार्थं दानयज्ञाश्च कुर्वन्ति यानि वै दिवम् ॥२३॥केचित्स्वल्पायुषस्तत्र जायन्ते स्पर्धयाऽपि च ।जनके विद्यमाने तु पुत्राणां मरणं न वै ॥२४॥कामक्रोधादयस्तत्र भवन्ति न भवन्ति च ।एकवारं तदा कृष्या वापितं क्षेत्रमुत्तमम् ॥२५॥सप्तवारान् प्रगृह्णन्ति वैश्याः कृष्णपरायणाः ।सर्वा घटस्तवा गावो महिष्यश्च चतुर्गुणाः ॥२६॥शापानुग्रहकृत्येषु समर्था मानवास्तदा ।न चौरो जो रू. श्च सर्वे धर्मरता जनाः ॥२७॥ततस्तृतीययुगको द्वापरो विद्यते क्रमात् ।द्वौ पादौ तत्र पापस्य द्वौ च धर्मस्य संस्थितौ ॥२८॥तच्चाऽष्टलक्षमानेन सौराब्दानां प्रकीर्तितम् ।चतुःषष्टिभिरन्यैश्च सहस्रैश्च युगं तदा ॥२९॥चतुःशताऽऽधिकद्विसाहस्रप्रसंख्यकाः खलु ।षष्ट्यधिकत्रिशतकैर्गुणितास्ते द्विके युगे ॥३०॥कामः क्रोधो मदो लोभो दम्भो मत्सर एव च ।षडेते तत्र जायन्ते ईर्ष्या चापि तु सप्तमी ॥३१॥अथ तैरन्विताः सर्वे विरुद्धा वै परस्परम् ।केऽपि शान्ताश्च दान्ताश्च जितेन्द्रिया भवन्ति हि ॥३२॥ततः कलियुगं प्रोक्तं सर्वदोषाश्रयं तदा ।एकपादो वृषो यत्र पापं पादैस्त्रिभिः स्थितम् ॥३३॥श्वेतः सत्ये रक्तवर्णंस्त्रेतायां भगवानपि ।नीलश्च द्वापरे कृष्णोऽलिवद् वै जायते कलौ ॥३४॥प्रमाणं तु कलेर्दिष्टं लक्षाश्चत्वार एव च ।द्वात्रिंशच्च सहस्राणि सौराब्दानि भवन्ति हि ॥३५॥द्विशताधिकैकसाहस्रात्मप्रसंख्यकाः खलु ।षष्ट्यधिकत्रिशतकैर्गुणितास्ते कलौ मताः ॥३६॥एकद्वित्रीणि चत्वारि सहस्राणि दश क्रमात् ।कलिद्वीतत्रीतसत्ययुगाऽब्दानि भवन्ति हि ॥३७॥मानवानि द्विचतुःषडष्टशतान्यनुक्रमात् ।भवन्त्यब्दानि साहस्रे द्वे, मिलित्वा तु तान्यथ ॥३८॥द्वादशाब्दसहस्राणि मानवानां चतुर्युगम् ।बोध्यं सौराणि त्रिचत्वारिंशल्लक्षाणि चाप्यथ ॥३९॥विंशतिसाहस्रसंख्याधिकान्येव चतुर्युगम् ।युगक्षयकृतश्चायुःक्षयः सृष्टौ मतोऽपि हि ॥४०॥यस्य चास्ति गृहे वित्तं तथा नार्यो मनोरमाः ।तैर्नरैस्तु समं मैत्रीं कलौ कुर्वन्ति मानवाः ॥४१॥स्वार्थमात्रपराः पुत्रा भूषास्वार्थपराः प्रियाः ।स्नुषा वेत्ति च वित्तेन यदि श्वश्रूः क्षयं व्रजेत् ॥४२॥मम स्याद् गृहमैश्वर्ये सर्वे वाञ्छन्ति तत्तथा ।अल्पोदकास्तदा मेघा अल्पसस्या च मेदिनी ॥४३॥धूर्ता विडम्बकाः सन्तो गुरवश्च कलौ युगे ।अल्पक्षीरास्तदा गावः क्षीरे सर्पिर्न विद्यते ॥४४॥सर्वभक्षास्तदा विप्रा नृपा निष्करुणास्तदा ।चौर्यकार्यपराः सर्वे पृथिवी गतयौवना॥ ॥४५॥अतिक्रान्तशुभाः कालाः पर्युपस्थितदारुणाः ।वर्षे चतुष्टये कन्या गर्भवती भविष्यति ॥४६॥पञ्चदशन्यूनवर्षे मृत्युरेव भविष्यति ।भविष्यन्ति कलौ चान्ते जना वितस्तिमात्रकाः ॥४७॥दशवर्षायुषश्चान्ते गृहं बिलं भुवोऽन्तरे ।प्रावरणं तदा वै स्याद् गुप्तवस्त्रं हि केवलम् ॥४८॥एकवर्णा भविष्यन्ति वर्णाः सर्वे मिथोऽन्विताः ।म्लेच्छीभूता दुराचारा धर्मकर्मविवर्जिताः ॥४९॥चतुर्युगानां सप्ततिं त्वेकाधिकां मनुस्तथा ।महेन्द्रश्च प्रभुंक्ते वै दीर्घमायुः पुनः पुनः ॥५०॥मनोः समं महेन्द्रेण परमायुः प्रकीर्तितम् ।चतुर्दशेन्द्रविच्छित्तौ ब्रह्मणो दिनमुच्यते ॥५१॥एवं परिमिता रात्रिर्दिवारात्रं हि कल्पकः ।ब्रह्मणस्तु वर्षशतं परमायुर्विनिर्मितम् ॥५२॥सौरसावनचन्द्रर्क्षैर्मानैरेभिश्चतुर्विधैः ।कालो निर्याति सर्वेषां भूतानां क्षितिमण्डले ॥५३॥पञ्चषष्ट्यधिकैश्चापि दिनानां च शतैस्त्रिभिः ।भवेन्मानववर्षं तत् पञ्चोनैस्तैश्च सावनम् ॥५४॥चान्द्रमेकादशोनं तु त्रिंशद्धीनं तु ऋक्षजम् ।शीतातपौ तथा वृष्टिर्मानवाब्देन जायते ॥५५॥अग्निष्टोमादयो यज्ञा विवाहा उत्सवादयः ।सावनेन भवन्त्येव सर्ववर्णेषु वै क्षितौ ॥५६॥कुसीदाद्या व्यवहारा उत्पन्नानि च यान्यपि ।अधिमासप्रयुक्तेन चान्द्रेणैव भवन्ति हि ॥५७॥नक्षत्रेण तु मानेन भिद्यन्ते चाभितारकाः ।एवं देवा मानवाश्च दैत्यास्त्वन्ये सदा क्षितौ ॥५८॥प्रवर्तन्ते च जायन्ते म्रियन्ते चेदृशं जगत् ।तत्र मायाबन्धनेनावृतः पारं न याति वै ॥५९॥तस्मान्मया सदा कृष्णनारायणः पुमुत्तमः ।भजनीयः पूजनीयो ध्यातव्यश्च निरन्तरम् ॥६०॥कालो भक्षयति सर्वान् क्षणे वर्षे युगे तथा ।मां शिखायां दत्तहस्तः कालो ग्रसितुमिच्छति ॥६१॥इत्येवं बोधयुक्तः स राजा भक्तिपरायणः ।वसुर्धर्मानुमत्या च स्वराज्यं प्रत्यपालयत् ॥६२॥अयजद् बहुभिर्यज्ञैर्महद्भिर्भूरिदक्षिणैः ।कर्मार्पणेन देवेशं कृष्णनारायणं हरिम् ॥६३॥तोषयामास बहुभिर्दास्यभावैश्च वर्तयन् ।ततः कालेन महता वसुर्वैराग्ययोगतः ॥६४॥निवृत्तराज्यभोगेच्छाद्वन्द्वस्याऽन्तमुपेयिवान् ।निजपुत्रं विवस्वन्तं श्रेष्ठं भ्रातृशतस्य च ॥६५॥अभिषिच्य निजे राज्ये पुष्करं समुपाययौ ।यत्र श्रीपुण्डरीकाक्षन्नारायणः संविराजते ॥६६॥वसुः काश्मीरभूपः स तपोभिरुग्रसाधितैः ।भक्त्या स्मरन् हरिं तत्र दिव्यदेहं ददर्श तम् ॥६७॥कृष्णनारायणं देवं सर्वान्तर्यामिणं प्रभुम् ।तुष्टाव तं नमस्तेऽस्तु पुण्डरीकाक्ष! ते नमः ॥६८॥विश्वमूर्ते सर्वतेजोनिवास कृष्ण ते नमः ।शरण्यं रक्षकं विष्णुं जिष्णुं व्योमनिवासिनम् ॥६९॥गोपालकृष्णबालं त्वां नमस्ये चक्रपाणिनम् ।नान्यत् किञ्चित्प्रपश्यामि व्यतिरिक्तं त्वयाऽच्युत ॥७०॥एवं तु वदतस्तस्य मूर्तिमान् पुरुषः किल ।निर्गत्य देहान्नीलाभो घनचण्डो भयंकरः ॥७१॥रक्ताक्षो ह्रस्वकायश्चोवाच राजन् करोमि किम् ।वसुः पप्रच्छ तं पापरूपं कोऽसि वदाऽत्र मे ॥७२॥पापरूपः स वै प्राह तव पापं भवाम्यहम् ।न चास्मि केवलं पापं पापप्रेतोऽस्मि तेऽनघ ॥७३॥शृणु पूर्वं कलौ राजँस्त्वं राजा दक्षिणापथे ।जनस्थाने कदाचित्त्वं मृगयार्थमुपागतः ॥७४॥तत्र त्वया तु दण्डेन मृगवेषधरो मुनिः ।प्रस्रवणे गिरौ सन्ताडितो मृतः स सत्वरम् ॥७५॥हरिणं तं हतं मत्वा यावद् ग्रहीतुमिच्छसि ।तावन्मृगवपुर्विप्रो वीक्षितो हि नरस्त्वया ॥७६॥त्वं चातिभयमापन्नो हत्यया मानवस्य वै ।हत्याऽहं तु महाघोरा प्रेतब्राह्मणनाशजा ॥७७॥अहं ब्रह्मग्रहो राजन् शरीरे न्यवसं तव ।अद्याऽवधिं पीडयितुं खादितुं तव वर्ष्म च ॥७८॥राज्यभोगा मया दृष्टा भुक्ता देहे च ते नृप ।रक्तं पीतं खादितं च मांसं ते नूतनं सदा ॥७९॥त्वं च राज्यप्रभावेण कृशो नैव विलोक्यसे ।बहुभोजनपानादिस्मृद्धिमत्त्वान्नृपोत्तम ॥८०॥अथ त्वया तत्पापस्य प्रायश्चित्तं विचिन्तितम् ।श्रीहरेर्द्वादशी शुद्धा त्वया राजन्नुपोषिता ॥८१॥व्रतान्यन्यानि च नारायणो मे प्रीयतामिति ।कृतानि च तथा दानं गवां दत्तं पुनः पुनः ॥८२॥ततस्त्वं दक्षिणापथे स्वगृहे कुक्षिशूलतः ।रुग्णो मृतस्तव पत्नी नाम्ना नारायणी सती ॥८३॥ददौ जलं तवाऽऽस्ये च श्रीविष्णोश्चरणामृतम् ।किन्तु त्वया तदा पत्नी स्मृता ध्याता मृतिक्षणे ॥८४॥तेन त्वं कल्पमेकं च जातो विष्णुपुरे पुनः ।कुमारो वासनायुक्तो मोक्षाद्वै वञ्चितो यतः ॥८४१॥अहं तत्र त्वया सार्धं तव देहस्थ एव तु ।संस्थितः कल्पपर्यन्तं सद्भोगान् बुभुजे त्वयि ॥८६॥तत्र कल्पे त्वया स्वर्गं बहुधा भुक्तमेव च ।स्वर्गस्य च त्वयि राजन् स्थितोऽहं स्वेन तेजसा ॥८७॥पुना राजस्वरूपे च स्थितोऽहं बहुवत्सरान् ।ततोऽहःकल्पनिवृत्तौ रात्रिकल्पे गतेऽपि च ॥८८॥इदानीमादिसृष्टौ च सत्ये युगे नराधिप ।संभूतस्त्वं महाराज! राज्ञः सुमनसो गृहे ॥८९॥काश्मीरदेशाधिपतेरहं त्वङ्गरुहेषु ते ।निवासाम्यद्यपर्यन्तं भुञ्जानो नूतनं नवम् ॥९०॥यज्ञैरिष्ट त्वेयाऽनेकैर्बहुभिश्चाप्तदक्षिणैः ।न चाऽहं तैरपहतो विष्णुस्मरणवर्जितैः ॥९१॥इदानीं च विशालायां त्वया भक्तिः कृता हरेः ।स्तोत्रं प्रह्वणभावेन कृतं सर्वात्मनाऽत्र च ॥९२॥भक्तेस्तव प्रभावेण पुण्डरीकाक्षशार्ङ्गिणः ।सर्वात्मनाऽर्पणेनापि प्रसादितो हरिः स्वयम् ॥९३॥किंकरान् प्रेषयामास विष्णुर्नारायणः प्रभुः ।पश्य त्वेतान् महाव्योम्नि विमानेष्वभ्यवस्थितान् ॥९४॥तदेतैर्विष्णुपुरुषैर्मूशलैः प्रहतोऽस्म्यहम् ।क्षयं यातश्च्युतश्चास्मि रोमकूपेभ्य एव ते ॥९५॥तव भक्तिप्रभावेण विहायाऽङ्गरुहाण्यहम् ।एकीभूतः पुनर्जातो व्याधरूपी तवान्तिके ॥९६॥अहं भगवतः स्तोत्रं श्रुत्वा भक्त्या च ते नृप ।विष्णुपार्षददण्डस्य स्पर्शेनाऽपि महाऽघतः ॥९७॥मुक्तोऽस्मि प्रेतभावाच्च धर्मबुद्धिश्च मेऽस्ति च ।ततो राजन्निजमित्रं त्वदाश्रितं निराश्रयम् ॥९८॥भक्तं मां देहि सुखदं वरदानं कृपां कुरु ।एवं श्रुत्वा वसुर्व्याधायापि ददौ वरं शुभम् ॥९९॥शृणु व्याध! त्वया स्मारितोऽस्मि जन्मान्तरं मम ।ततस्त्वं मद्वरेणातो धर्मव्याधो भविष्यसि ॥१००॥एवमुक्त्वा तु भूपः स विमानवरमास्थितः ।परेण श्रीकृष्णनारायणेनाऽक्षरधाम वै ॥१०१॥ययौ पार्षदयुक्तः स पार्षदोऽभूद्धरेस्ततः ।अथाऽयं धर्मकर्मा च धर्मव्याधो बभूव ह ॥१०२॥इत्येतत् कथितं लक्ष्मि! वसोश्चरितमुत्तमम् ।यः पठेच्छृणुयाच्चास्य तीर्थस्नानफलं भवेत् ॥१०३॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने काश्मीरनृपस्य वसोः प्राग्जन्म मृगरूप ब्रह्महत्याया भक्तिबलेन निःसृताया धर्मव्याधजन्मता, वसोस्ततो मुक्तिश्चेत्यादिनिरूपणनामा षड्विशत्यधिकपञ्चशततमोऽध्यायः ॥५२६॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP