संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ५२५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५२५ Translation - भाषांतर श्रीनारायण उवाच-एकदा चागमन्नाम्ना ख्यातस्त्वश्वशिरानृपः ।लोमशस्याश्रमे क्षेत्रे चाश्वपट्टसरोवरे ॥१॥कपिलस्तु महातेजा दर्शनार्थं समाययौ ।अश्वशिराः कपिलं तमृषिं पप्रच्छ संशयम् ॥२॥मोक्षः स्यात् कर्मणा किं वा ज्ञानेन निर्णयं वद ।शृणु लक्ष्मि! कपिलर्षिर्यमाह निर्णयं शुभम् ॥३॥प्रवदामि गृहस्थानां कर्मिणां हितकाम्यया ।यत्किंचित् कर्म वै देही करोति साध्वसाधु वा ॥४॥सर्वं नारायणे न्यस्य कुर्वन्नपि न लिप्यते ।शृणु संयमनो विप्र आत्रेयवंशजोऽभवत् ॥५॥तपस्यभिरतः प्रातः स्नातुं भागीरथीं नदीम् ।धर्मारण्ये गतस्तत्र हरिणानां गणं स्थितम् ॥६॥लुब्धो निष्ठुरको नाम व्याधो धनुःसमन्वितः ।जिघांसुराययौ तीरे सज्यं कृत्वा ससायकम् ॥७॥धनुर्दृष्ट्वा तु विप्रः स व्याधं तं मृगयारतम् ।वारयामास मा भद्र! जीवघातमिमं कुरु ॥८॥श्रुत्वा प्रहस्य व्याधस्तं प्रोवाच मुनिसत्तमम् ।नाऽहं हिंसामि वै जीवान् नाऽहं करोमि सर्वथा ॥९॥परमात्मा त्वयं भूतैः क्रीडति स्वीयमायया ।माया तस्य जनिः पुष्टिर्निधनं चेति वै क्रमात् ॥१०॥भवन्त्येव हि जीवानां तत्र नैमित्तिका वयम् ।अहंभावः सदा ब्रह्मन्न विधेयो मुमुक्षुभिः ॥११॥प्राणयात्रामात्ररतं करोति चेन्न लिप्यते ।अहंकारस्तत्र यस्य स साधुत्वं न गच्छति ॥१२॥अहंकारं परित्यज्य गृह्णाम्येकं मृगं द्विज ।इत्याकर्ण्य स विप्रेन्द्रो निषिषेध च लुब्धकम् ॥१३॥हिंसनं सर्वथा पापं मा कुर्वेवं कदाचन ।सन्ति फलानि मूलानि पत्राणि च जलानि च ॥१४॥सस्यानि शाकपत्राणि निर्वाहं तैः समाचर ।अहिंसने सुयात्रा चेन्निर्वहेत् हिंसि मा वृथा ॥१५॥अहंकारो न कर्तव्य इति ते वाचि वर्तते ।नात्मनि किन्तु वै स्वार्थे भवान् मृगादनो यतः ॥१६॥उपदेशं प्रकुर्वन्ति सर्वेऽभिमानवर्जने ।न त्यजन्ति चाभिमानं वाङ्मनसोः पृथक्-पृथक् ॥१७॥वदन्ति चान्यत् प्रकुर्वन्ति चान्यत्प्रमूष्य चान्यान् विहरन्ति चान्यत् ।स्वार्थप्रवीणाश्च निजार्थमाप्यदूरी भवन्त्येव परान् विनाश्य ॥१८॥व्याधः प्राह ऋषे नाहं कपटी स्वार्थसाधकः ।परीक्षां मे कुरु त्वत्र प्रत्यक्षं ते भवेन्ननु ॥१९॥कुरु लोष्ठमयं जालं तस्याऽधो वह्निमावह ।अतीव तत्र शुष्को ज्वालयतां काष्ठसञ्चयः ॥२०॥तथाकृते तु विप्रेण प्रध्मातश्चानलो ह्यति ।गवाक्षैर्निर्गता ज्वालाः सहस्राणि च जालके ॥२१॥लोहजालं तदा रक्तं यदा वह्निरिवाऽऽबभौ ।तदा व्याधो योगसिद्धिं समालम्ब्य निजां तनुम् ॥२२॥वह्निरूपां तु कृतवान् सूर्यवद्दाहसंचयाम् ।वह्निर्यस्य पुरस्तत्र निस्तेजस्को बभूव ह ॥२३॥निषसाद समुत्थाय जाले तत्र स लुब्धकः ।वह्निर्वै वह्निना नैव दह्यते च यथा तथा ॥२४॥लुब्धको नैव दग्धो हि काष्ठजन्येन वह्निना ।संयमनो ब्राह्मणश्च तथाऽन्ये विस्मयं गताः ॥२५॥प्राहुः कस्त्वं वद चास्मान् सः प्राहाऽहं हुताशनः ।स्वयं चास्मि न मे हिंसा पच्यन्ते मयि देहिनः ॥२६॥अहं बुद्धिं विहायैव करोमि स्वस्वभाववत् ।अहंकारो मम नष्टस्तपसा ज्ञानयोजिना ॥२७॥अहंकारे विनष्टे च कर्मभिर्नहि लिप्यते ।अहंकारो मूलमस्ति स्तम्बो ममत्वमुच्यते ॥२८॥शाखा रागस्तथा द्वेषो ग्रघ्रो लोभश्च मोहनम् ।पत्राणि तत्र कर्माणि रसश्चास्वादनं सदा ॥२९॥पुष्पं प्रवर्तनाख्यं च फलं मिष्टं सुखं तथा ।अमिष्टं तु भवेद् दुःखं भुञ्जते देहिनः सदा ॥३०॥वह्नेर्मूले क्षिप वारि ज्वाला निर्यान्ति यत्स्थलात् ।इत्युक्तो ब्राह्मणस्तत्र तोयपूर्णं घटं द्रुतम् ॥३१॥चिक्षेप सहसा वह्निः प्रशशाम यदा तले ।ज्वालाः सर्वा विनष्टाश्च मूलनाशात् समन्ततः ॥३२॥लुब्धकस्त्वाह तं विप्रं प्रत्यक्षं वै निदर्शनम् ।मूलनाशे समस्तस्य वृक्षस्य नाशनं भवेत् ॥३३॥अभिमानं प्रमूलं चेन्नष्टं कर्मकृतां यदि ।पापेनापि च पुण्येन लिप्यते न कदाचन ॥३४॥एतस्मिन् ज्वलितो वह्निर्बहुशाखश्च सत्तम ।मूलनाशेऽभवन्नष्टस्तथाऽहं कर्मवान् सदा ॥३५॥आत्मा देहं समाश्रित्य पिण्डधर्मं समाश्रितः ।क्षुधया तृषया व्याप्तः खादन् पिबन् प्रवृत्तिमान् ॥३६॥कुर्वन् सर्वं वर्जयित्वाऽभिमानं लेपकारणम् ।अन्तरात्मनि संयुक्तः कुर्वाणो नाऽवसीदति ॥३७॥अथाऽऽह लुब्धको विप्रं स्पृश लोष्ठं द्विजोत्तम ।लोष्ठं चोष्णं दाहकारि ज्ञातं त्यक्तं द्विजेन तु ॥३८॥ततः पस्पर्श स व्याधस्तस्य दाहो न चाऽभवत् ।लुब्धकस्तं तदा प्राह संस्काराश्चाभिमानजाः ॥३९॥यथा लोष्ठे वह्निजन्याः संस्कारा दाहका इव ।यावद्भवन्ति पुरुषास्तावद् दह्यन्ति सर्वथा ॥४०॥तथाऽभिमानसंस्कारा यावद्भवन्ति देहिषु ।तावत् पुण्येन पापेन लिप्यन्ते नात्र संशयः ॥४१॥अभिमानं च संस्कारास्त्याज्यास्तपस्यया तथा ।कृष्णनारायणभक्त्या योगेन ध्यानवृत्तिभिः ॥४२॥सर्वसमर्पणभक्त्या लिप्यते नहि कर्मभिः ।एवमुक्ते तु वै विप्रे व्याधस्योपरि चाम्बरात् ॥४३॥पपात पुष्पवृष्टिश्च विप्रस्योपरि वै मनाक् ।ततो व्याधो हरिणं तं जघानैकं तदापि च ॥४४॥विप्रः प्राह मृगात्मा च कुत्र याति प्रदर्शय ।व्याधः संकल्पयामास विमानं स्वर्गलोकजम् ॥४५॥तावद् दिव्यविमानानि कामगानि महान्ति च ।बहुरत्नानि मुख्यानि ददर्श ब्राह्मणोत्तमः ॥४६॥तेषु निष्ठुरकं लुब्धं सर्वेषु समवस्थितम् ।ददर्श ब्राह्मणस्तत्र कामरूपिणमुत्तमम् ॥४७॥अद्वैतभावनासिद्धं योगाद्बहुशरीरकम् ।मृगं दिव्यस्वरूपं च देवात्मकं विलोक्य च ॥४८॥दृष्ट्वा विप्रो मुदा युक्तः संयमनो बभूव ह ।अन्ये चाप्यभवँस्तत्र देहाऽहंकारवर्जिताः ॥४९॥एवं ज्ञातं भवेत् कर्म कुर्वतोऽपि स्वजातिकम् ।निर्बन्धं तत् पापपुण्यविलेपेन विवर्जितम् ॥५०॥तादृशं नैव चात्मानं करोति बन्धनं क्वचित् ।यथा नारायणो देवो निर्लेपो वस्तुमात्रकम् ॥५१॥कुर्वन् गृह्णन् कारयँश्च ग्राहयन् लेपवर्जितः ।प्रत्युत स्वपदं प्राप्तं निर्गुणं प्रकरोति तत् ॥५२॥तथाऽऽत्मा मायया हीनो न करोति न लिप्यते ।प्राप्तं भुक्तं जडं वस्तु करोति दिव्यमेव तत् ॥५३॥निर्लिप्तं बन्धनहीनं मुक्तिस्थं तत् करोति वै ।ज्ञात्वा संयमनो विप्रः प्रययौ निजमाश्रमम् ॥५४॥कपिलश्चाऽश्वशिरसं नृपं प्राह तथा पुनः ।तस्मात् त्वमपि राजेन्द्र देवं नारायणं प्रभुम् ॥५५॥आत्मन्येव स्वदेहे तु पश्य त्वाराधयन्प्रभुम् ।निर्लिप्तो भविता शीघ्रं यथा व्याधोऽभवत्पुरा ॥५६॥कपिलस्य वचः श्रुत्वा स राजाऽश्वशिराः शुभः ।मेने च कर्मिणां मुक्तिं कृष्णार्पितेन कर्मणा ॥५७॥अथ तत्राऽगमत् तावज्जैगीषव्यो महामुनिः ।पञ्चाशत्कल्पकायुश्च लोमशस्याऽऽश्रमे शुभे ॥५८॥ऋषयस्ते तदा चक्रुः स्वागतं च परस्परम् ।चक्रुः स्वर्गादिलोकानां संभाषां क्षेमकारिणीम् ॥५९॥अश्वशिरा प्रणम्यैव कपिलं संस्थितेषु च ।सर्वेषु ऋषिषु मध्ये संपप्रच्छ प्रणम्य तम् ॥६०॥कथमाराधये देवं हरिं नारायणं परम् ।कपिलः प्राह वै राजन् नारायणा ह्यनन्तकाः ॥६१॥भवन्ति श्रीकृष्णनारायणोपासनयाऽत्र वै ।क एषः प्रोच्यते राजंस्त्वया नारायणो गुरुः ॥६२॥आवां नारायणौ द्वौ तु त्वत्प्रत्यक्षगतौ नृप ।अश्वशिरास्तदाकर्ण्य समुवाच द्विजौ च तौ ॥६३॥जैगीषव्यः कपिलश्च श्रुतौ मया पुरा शुभौ ।भवन्तौ ब्राह्मणौ सिद्धौ तपसा दग्धकिल्बिषौ ॥६४॥कथं नारायणावावामिति मे वदथो वचः ।शंखचक्रगदापद्मधनुःस्वस्तिककेतुभिः ॥६५॥युक्तः पीताम्बरो लक्ष्मीपतिर्गरुडवाहनः ।नारायणः परब्रह्म कस्तस्य सदृशो भुवि ॥६६॥इतिराज्ञो वचः श्रुत्वा तौ विप्रौ सिद्धयोगिनौ ।जहसतुः पश्य नारायणं चेति जजल्पतुः ॥६७॥एवमुक्त्वा स कपिलः स्वयं विष्णुर्बभूव ह ।जैगीषव्यश्च गरुडस्तत्क्षणं समजायत ॥६८॥राजा त्वाश्चर्यमापन्नो दृष्ट्वा सगरुडं हरिम् ।नत्वाऽऽह शाम्यतां विप्रौ नेमं पृच्छामि न्रायणम् ॥६९॥किन्तु ब्रह्मा यतो जातो नाभिपंकजमध्यगः ।तमेनं ब्रह्मपितरं न्रायणं संवदाम्यहम् ॥७०॥श्रुत्वा च कपिलस्तत्र पद्मनाभो बभूव ह ।जैगीषव्योऽभवद् ब्रह्मा नाभिपद्मोपरि स्थितः ॥७१॥ब्रह्मणस्तु ललाटाद्वै रुद्रोऽभूद् रक्तनेत्रकः ।राजा तवा विचार्यैव पुनः प्राह च तौ द्विजौ ॥७२॥नेक्ष्यो भवति सर्वात्मा सर्वव्यापी नरायणः ।भवद्भ्यां दर्शिता माया योगिभ्यां योगसिद्धिजा ॥७३॥नारायणस्तु भगवान् नेक्ष्यः सर्वात्मकः प्रभुः ।ततस्तत्र कपिलेन जैगीषव्येन वै तदा ॥७४॥सर्वात्मकानि रूपाणि दर्शितानि निजात्मनोः ।मत्कुणा मशका यूका भ्रमरा भोगिनः खगाः ॥७५॥अश्वा गावो द्विपाः सिंहा व्याघ्रा गोमायवो मृगाः ।अन्येऽपि पशवः कीटा ग्राम्या आरण्यकास्तथा ॥७६॥पशवो मानवा वृक्षा वल्लिकाद्याश्च सर्वशः ।तद्दृष्ट्वा भूतसंघातं स राजा विस्मयं गतः ॥७७॥विवेद जैगीषव्यस्य माहात्म्यं कपिलस्य च ।पप्रच्छ तावृषी भक्त्या किमिदं द्विजसत्तमौ ॥७८॥तौ द्विजाबूचतुर्भूप त्वया पृष्ठं च किं स्मर ।कथमाराधये देवं हरिं नारायणं परम् ॥७९॥आराधनाय प्रत्यक्षो हरिर्वै ते प्रदर्शितः ।कपिलोऽहं च प्रत्यक्षो भवाम्यत्र नरायणः ॥८०॥भज मां यदि ते श्रद्धा प्रत्यक्षं प्राप्तमेव ह ।सर्वज्ञस्य गुणाः सर्वे मयि सन्ति तदंशतः ॥८१॥तस्माल्लब्धा मया सर्वे भक्त्या तव प्रदर्शितः ।स तु नारायणो देवः सर्वज्ञः कामरूपवान् ॥८२॥पद्मनाभादपि दूरं महाविष्णोः परेऽस्ति च ।गोलोकाच्चापि वैकुण्ठात्परे चाक्षरधामनि ॥८३॥अनादिश्रीकृष्णनारायणो मुक्तेषु राजते ।सौम्यः क्वापि स्वेच्छयाऽत्र प्राप्यते मानवैः किल ॥८४॥लोमशोऽयं प्राप्तवाँस्तं कृष्णनरायणं परम् ।अत्राऽश्वपट्टसरसः क्षेत्रे श्रीकृष्णवल्लभम् ॥८५॥सर्वेषामवताराणामवतारिणमच्युतम् ।आवां तस्य दर्शनार्थमागतौ स्वः शुभाश्रमे ॥८६॥स वै सर्वशरीरस्थः परमात्मा जगत्पतिः ।स्वदेहे वर्तते चापि दृश्यते निजभक्तितः ॥८७॥अतोऽर्थं दर्शितं रूपं श्रीकृष्णन्नारायणस्य च ।आवयोस्तव राजेन्द्र प्रतीतिः स्याद्यथा तव ॥८८॥एवं सर्वगतो देवस्तव देहेऽपि वर्तते ।सर्वप्रजासु भृत्येषु मन्त्रिष्वपि स्थितः स हि ॥८९॥पशवः कीटसंघाद्याः सर्वे विष्णुमया नृप ।भावनां तु दृढां कुर्याद् यद्वै सर्वमयो हरिः ॥९०॥नान्यत् तत्सदृशं भूतं सर्वभूतेष्ववस्थितः ।तमान्तरस्थं वै देवमितिभावेन सेवताम् ॥९१॥एष ते दर्शितश्चाराधनामार्गोऽतिमोक्षदः ।परिपूर्णेन भावेनाऽर्चय कृष्णनरायणम् ॥९२॥पूजोपहारैर्धूपाद्यैर्नैवेद्यारार्त्रिकादिभिः ।ध्यानेन दासभक्त्या च सुप्राप्यः स परेश्वरः ॥९३॥योऽसौ नारायणो देवः परमात्मा सनातनः ।तत्तद्रूपेण बहुधा वर्तते कार्यकृत् प्रभुः ॥९४॥मत्स्यः कूर्मो वराहश्च नरसिंहश्च वामनः ।रामो रामश्च कृष्णश्च बुद्धः कल्की तथाऽपरे ॥९५॥इत्येताः कथितास्तस्य मूर्तयः कपिलादयः ।साधवश्चापि सिद्धाश्च साध्व्यः सत्यश्च योगिनः ॥९६॥दर्शनं प्राप्तुमिच्छूनां सोपानानि भवन्ति वै ।यत्तस्य परम रूपं तन्न पश्यन्ति देवताः ॥९७॥अस्मदादिस्वरूपेण पूरयत्येव भावनाम् ।तस्माद् व्याप्तमिदं सर्वं जगन्नारायणेन हि ॥९८॥भज तं च प्रिये यथाभिमते स्थितमच्युतम् ।बृहस्पतिः पुरा रैभ्यं ब्रह्मपुत्रं जगाद ह ॥९९॥वसुसंज्ञं तु राजानं चाक्षुषे त्वान्तरे मनोः ।रैभ्य शृणु वसो राजन् समाकर्णय चादरात् ॥१००॥यत्किञ्चित् कुरुते कर्म पुरुषः साध्वसाधु वा ।सर्वं नारायणे न्यस्य कुर्वन्नपि न लिप्यते ॥१०१॥स च नारायणः श्रीमान् सर्वप्राणिष्ववस्थितः ।भज तं श्रीकृष्णनारायणं चान्तरगं प्रभुम् ॥१०२॥ततस्तौ श्रीकृष्णनारायणं संभेजतुः सदा ।मुक्तिं यातौ परे धाम्नि दास्यात्मिकां च शाश्वतीम् ॥१०३॥इत्येतत् कथितं सर्वं कपिलस्य वचोऽर्थदम् ।राजा चाश्वशिराः पुत्रं ज्येष्ठं स्थूलशिराह्वयम् ॥१०४॥अभिषिच्य निजे राज्ये नत्वा गुरून् पुनः पुनः ।नैमिषाख्यं वनं दूरं ययौ तत्र हरिं प्रभुम् ॥१०५॥तपसाऽऽराधयामास प्रत्यक्षोऽभूद्धरिः स्वयम् ।विमानेन निजं भक्तं निनायाऽक्षरधाम सः ॥१०६॥इत्येतत् कथितं सर्वमश्वशिरःप्रमोक्षणम् ।कर्मणा चार्पितेनेशेश्वरे ज्ञानान्वितेन वै ॥१०७॥इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने कपिलेन अश्वशिरसे राज्ञे ज्ञानदाने संयमनद्विजनिष्ठुरकव्याधनिदर्शनेन कर्मणा सर्वसमर्पणात्मकेन मोक्षः प्रदर्शितः, कपिलस्य जैगीषव्यस्य चाऽनेकविभूतिरूपत्वं चेत्यादिनिरूपणनामा पञ्चविंशत्यधिकपञ्चशततमोऽध्यायः ॥५२५॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP