संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ५२३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५२३ Translation - भाषांतर श्रीनारायण उवाच-एकाग्रमानसी भूत्वा कृत्वाऽऽत्मनि परेश्वरम् ।कथ्यमानां परां विद्यां लोमशोक्तां तु भूभृते ॥१॥आकर्णय बहिर्वृत्तिं त्यक्त्वाऽन्या मोक्षकारिणीम् ।यामाश्रित्यर्षयः सर्वे निषेदुर्ब्रह्मणोऽन्तिके ॥२॥लोमशः प्राह राजानम् ओमित्यात्मानमान्तरम् ।स्मृत्वा ध्यात्वा यथोक्तं च कथयामि निबोध मे ॥३॥'ओं नमः परब्रह्मणे भ्राजदभ्राजद्वर्ष्मणे ।ब्रह्मसवित्रेऽक्षरब्रह्मादिवास्याय त्रिक्रणे ॥४॥दिव्ये ब्रह्मपुरे यो ह दिव्यमूर्तिः प्रतिष्ठितः ।अमूर्तमूर्तेष्वन्तर्यामी मूर्तश्च परं हि तत् ॥५॥विप्रासो विद्युरत्रपुरुषमद्वरूपमतिज्ञम् ।कमनास्यं कप्याक्षं युगग्रहगं पुरुषोत्तमम् ॥६॥पराणखस्वरुणि्म्नीभिर्भ्राजते परि य उत् यः ।हृद्रुहदक्षभ्रांकनं यमेतेऽत्र सन्तो बिदुः ॥७॥ब्रह्मगवा विविदुरेतमीश्वरीन्दुभप्रभालम् ।तिलसुमनोनासं नृरूपं विभान्तमापूर्णम् ॥८॥हिरण्यकेशमकुण्ठदृश्यं यत्तेऽन्तराऽभितः ।किशोरप्रतिमं सच्चिदानन्दमयोगं प्रेयुः ॥९॥ब्रह्मपात्राणि ह वै समुपासत श्रेयःखणेयम् ।षोडशकलं पत्कजाऽऽन्तराभं परस्य पूष्णः ॥१०॥कला भवन्तेऽष्टास्त्र्यूल्लेखास्वस्तिकादिका दक्षे ।व्योमार्धेन्दुशफराद्या दक्षेतरेऽस्य चरणे ॥११॥एको ह्येषः सर्वयन्ता सुरूपोरूपं रूपं रूप्यमाणोऽधिशेते ।सहस्रधा चाप्यथ नान्तधा सन्समानरूपो रूप्यतेऽक्षय्यलोके ॥१२॥सर्वे जीवा ईश्वराश्चाथ मुक्तागुणातीतं चाऽक्षरं ब्रह्ममूलम् ।यस्याऽऽनन्दं लब्ध्वाऽऽनन्दीभवन्तिह्येषः सहजाऽऽनन्दभूमिः परात्मा ॥१३॥सर्वे जीवा ईश्वराश्चाथ मुक्तागुणातीतं चाक्षरं ब्रह्ममूलम् ।यस्यैश्वर्यं लब्ध्वा ईशा भवन्तिह्येषः सहजैश्वर्यभूमिः परात्मा ॥१४॥सर्वे जीवा ईश्वराश्चाथ मुक्तागुणातीतं चाक्षरं ब्रह्ममूलम् ।यस्य वित्तिं लब्ध्वा विदो भवन्तिह्येषः सहजवित्तिभूमिः परात्मा ॥१५॥सर्वे जीवा ईश्वराश्चाथ मुक्तागुणातीतं चाक्षरं ब्रह्ममूलम् ।यस्या सत्तां लब्ध्वा सन्तो भवन्तिह्येषः सहजसत्यभूमिः परात्मा ॥१६॥सर्वे जीवा ईश्वराश्चाथ मुक्तागुणातीतं चाक्षरं ब्रह्ममूलम् ।यस्य तृप्तिं लब्ध्वा तृप्ता भवन्तिह्येषः सहजतृप्तिभूमिः परात्मा ॥१७॥अरं दासो न मीह्ळुषे कराण्यहं देवाय भूर्णयेऽनागाः ।अचेतयदचित्तो देवो अर्यो गृत्सं राये कवितरो जुनाति ॥१८॥वेशोभग्यस्य शान्तातेः कणे धूमारमन्ना ईशनानि कत् तम् ।स्तवामनेनसं गृभं तरुषेमएनः प्रयुञ्ज्य त्सरूपणीशनीभिः ॥१९॥पराञ्चि तत् खानि परात्मरूपाण्य-भिन्नतत्त्वान्यपि भक्तिचारात् ।पृथग्भिधेयानि हरन्ति तज्ज्ञारसैकशक्तीन्यपृथग्भूतं हि तत् ॥२०॥श्रोत्रस्य श्रोत्रं मनसो मनस्तत्वाचो ह वाक् चक्षुषस्तद्धि चक्षुः ।त्वचस्त्वमित्येव तदीयशक्तयोमुक्तस्य खानामुत ब्रह्मणस्तत् ॥२१॥ज्ञानस्वरूपोऽथ मनःस्वरूपोज्ञानस्य वित्तिर्मन एव तस्य ।तदेव धीर्ह्रीश्च तदेव कामोमेधा तथेच्छा धिषणा कृतश्च ॥२२॥पुमंकपूर्णेऽपि रतिर्न गुप्ताप्राकाम्यसेव्येऽपि न रूपतः स्त्रीः ।ग्राह्येऽपि तस्मिन्न हतिः खवित्ते-र्वियोगयोगेऽपि न तत्त्वव्याहतिः ॥२३॥अमातृजत्वान्नहि कोषषट्कम्अनन्नकोषान्नहि चित्यचित्यतिः ।प्राणः स्वशक्तिस्तदप्राणकस्यकाशोऽपि निरावरणात्मभावः ॥२४॥अनन्नग्रासान्नहि मेहनादिकंततो न गुर्वादि कुतो हि निद्रा ।नित्यप्रसन्नस्य कुतोऽप्रसन्नताप्रेष्ट्यैकभावान्न परेष्टधीनता ॥२५॥हिरण्यकेशाश्च हिरण्यवन्नखाःसुकुन्ददन्ता नहि योगभागिनः ।चिदैकरूपा रमणीयस्यात्मकाःसदैकमानाः प्रविभान्ति तस्य ॥२६॥अगोऽपि गन्ता मनसो जवीयोऽ-विप्रांस एनं नाप्नुवन् प्रागुपास्तेः ।विप्रेष्टकोऽन्यानत्येति जवीयःतिष्ठन्नचिति चिति चापि ईशः ॥२७॥तदभ्याशे न भयं किंचनाऽस्तिन तत्राऽन्यत् किंचनाऽपूर्वमस्ति ।उभौ तीर्त्वा जीवमायेशभावौधूम्रातिगो मोदते तत्सयुजः ॥२८॥श्रवणायाऽपि बहुभिर्यो न लभ्यःशृण्वन्तोऽपि बहवो यं न विद्युः ।नियाम्यज्ञं तमीड्यं विदित्वानिचाय्य तां शान्तिमत्यन्तमेति ॥२९॥तं दुर्दर्शं गूढमनुप्रविष्टंगुहाहितं गह्वरेष्ठं पुराणम् ।अध्यात्मयोगाधिगमेन देवंमत्वा धीरः पुण्यपापे जहाति ॥३०॥अणोरणीयान्महतो महीयान्लघोर्लघीयाँश्च गुरोर्गरीयान् ।तमक्रियः पश्यति धूतपापोहरेः प्रसादात् प्रपूरितसत्वः ॥३१॥न सः परात्मा प्रवचनेन लभ्योन मेधया न बहुना श्रुतेन ।यमेवैष वृणुते तेन लभ्य-स्तस्य परात्मा विवृणुते तनुं स्वाम् ॥३२॥अशुक्लमकृष्णमराजसं तत्नियामकं नित्यमनन्तपारम् ।अनादिनं ब्रह्मपरं ध्रुवं हरिंनिचाय्य तं मृत्युमुखात्प्रमुच्यते ॥३३॥स ब्रह्मसत् मुक्तसदीशसद्वसु-रव्यक्तसज्जीवसदेव कार्यसत् ।तथापि न लिप्यते ह्यन्तरात्माअलेप्यशक्तिः प्रतिरूपकोऽसौ ॥३४॥वश्यद्वितीयः सर्वभूतान्तरात्माबीजं प्रधानं बहुरूपं व्याकरोति ।तमान्तरं ये परिपश्यन्तिमुक्ता-स्तेषां शान्तिः शाश्वती नेतरेषाम् ॥३५॥नित्यो नित्यानां चेतनश्चेतनाना-मेको बहूनां यो विदधाति कल्पान् ।तमान्तरस्थं ये परिपश्यन्ति मुक्ता-स्तेषां शान्तिः शाश्वती नेतरेषाम् ॥३६॥न भाति सविता तदग्रे न कौमुदीशोन सौदामिन्यो भान्ति कुतोऽनलोऽयम् ।तमेव भान्तमनु भाति सर्वं तदन्त-स्तस्य भासा सर्वमिदं प्रविभाति तत् सत्। ॥३७॥अश्वत्थलोके भयादस्य सूर्य-स्तपत्यग्निर्वहति चाऽप्यनिलः ।ईशा अप्यण्डं परिकुर्वन्ति यद्भया-त्तं कृष्णनारायणं यान्ति तद्विदः ॥३८॥तमच्छायं शुभ्रं स्नेहमूर्तिंशीलभ्राजत् नित्यविज्ञानधर्मम् ।स्वेष्टं देवं वेदयते यस्तु विद्वान्स तत्प्रसादात् तद्वत् सार्वज्ञ्यमेति ॥३९॥तमद्रेश्यमग्राह्यमगोत्रमवर्ण-मचक्षुःश्रोत्रं तमपाणिपादम् ।नित्यं विभुं सर्वगतं सुसूक्ष्मंतमव्यथं कार्ययोनिं परिपश्यन्ति मुक्ताः ॥४०॥यथोर्णनाभिः सृजते गृह्णते चयथा क्षितावोषधयो भवन्ति ।यथा सतो नरात् केशलोमानि संभवन्तितथा परेशात् संभवतीह विश्वम् ॥४१॥परं ब्रह्मैवेदममृतं पुरस्तात्।परंब्रह्म पश्चाद् दक्षिणे चोत्तरे च ।अधश्चोर्ध्वं व्यापकं ब्रह्मकृत्यापरं ब्रह्मव्याप्तमिदं विश्वं समस्तम् ॥४२॥न चक्षुषा गृह्यते नापि वाचानान्यैर्देवैस्तपसा कर्मणा वा ।ज्ञानप्रसादेन विशुद्धसत्त्व-स्ततस्तु तं पश्यति ध्यायमानः ॥४३॥बृहच्च तद्दिव्यमचिन्त्यरूपंसूक्ष्माच्च तत्सूक्ष्मतरं विभाति ।दूरात् सुदूरे तदिहान्तिके चपश्यत्स्विहैव निहितं गुहायाम् ॥४४॥सत्येन लभ्यस्तपसा सः परात्मामाहात्म्यज्ञानेन ब्रह्मचर्येण नित्यम् ।स्वस्य स्वरूपे दिव्यरूपो हि शुभ्रोयं पश्यन्ति यतयः क्षीणदोषाः ॥४५॥यदा द्रष्टा पश्यति स्वर्णवर्णंविधातारं पुरुषं ब्रह्मपारम् ।तदा वेत्ता शुक्लकृष्णे विहायनिरविद्यः कृष्णसाम्यं प्रयाति ॥४६॥समापदेहे देही नित्यं निमग्नोमायाग्राह्यो मुह्यति शोकमेति ।यदा स्वान्यं पश्यति सर्वव्याप्तंतदा चात्मा जायते शोकहीनः ॥४७॥द्वौ तौ सुमित्रे चैकवृक्षं श्रयेते-ऽन्योन्यं कार्ये प्रोत्साहनप्रदे स्तः ।अधीरैको ग्रध्नया चात्ति मिष्टंधीरश्चान्यः तं सुतृप्तो ददाति ॥४८॥यथाऽऽपगा वार्धिभावं प्रयान्तिभिन्नख्यातिप्रतिमाने विसृज्य ।तथा ज्ञाताऽऽख्याप्रतिमाविधुरोऽ-क्षरात्परं दिव्यपूरुषमेति ॥४९॥परब्रह्म वेद यो ब्रह्म स स्या-न्न चाऽऽवर्त्ते भ्रमते कर्मकृष्टः ।औष्ण्यं त्यक्त्वोद्वेजनं वै जहातिहृद्ब्ग्रन्थिभिस्त्यज्यते चामृताय ॥५०॥यश्चात्र नित्यं प्रतिबोधमाप्त-श्चाऽस्मिन्देहे हृद्गुहाया विराजन् ।तदन्तःस्थः सृष्टिकृत् सर्वहर्ताव्यतिरेकी वर्तते दिव्यलोके ॥५१॥विदन्ति सन्तोऽथ विद्मो वयंतमवेदने स्यात्पतनं महत्कृतम् ।तस्यैव विज्ञा अमृताः सम्बभूवु-रन्ये तु दुःखं चाविद्यकं ययुर्वै ॥५२॥एवं विद्यान्महिमानं परात्मनोनास्यास्ति वृद्धिः कर्मभिर्वा क्षतिश्च ।तस्यैव भूयाः पदवित् धामगन्तातमालम्ब्य लिप्यते नाऽघकर्मभिः ॥५३॥सर्वं यस्य चाक्षरे ब्रह्मणि यत्सर्वं तस्य मुक्तवृन्देऽनुषक्तम् ।तद्वै सर्वमीश्वरेषु प्रविष्टं तदेवाऽ-स्मिन् जीवभूते तथाऽन्ये ॥५४॥यदक्षरे तद् भवत्येव केवलेतथा ह वै शबले वै निरञ्जने ।हिरण्मये महद्विष्ण्वाख्येऽथ विष्णौरुद्रेऽथापि वर्तमाने विराजे ॥५५॥प्रकृत्यादावष्टकावृत्तिकासुतलेष्वत्र द्विसप्तकेषु विराजते ।अत्र भूमौ राजते कृष्णनारायणःस्वामी तं विदित्वाऽमृतं व्रज ॥५६॥तस्माद्धि सूक्ष्मचिदचिद्विशिष्टात्स्थूलं हि चिदचिद्विशिष्टं प्रजायते ।उपादानोपादेययोरभेदात्सर्वं तत्त्वं परब्रह्मैकमेव ॥५७॥परात्मनस्तस्य पूर्णावतारिणःकाचिच्छक्तिर्व्यूहसंज्ञामुपैति ।क्रमान्न्यूना सैव विभवावतारापूर्णांशमुख्याऽऽवेशगौणादिरूपा ॥५८॥तत्तद्योगात्तत्स्वरूपस्य लब्धि-स्तस्मिन् लीनालीनभावं ह्युपैति ।परात्मनश्चोपासनया परेशंपरां मुक्तिमाप्नुवन्तीति तत् सत् ॥५९॥मुक्ताधारं परब्रह्मव्याप्यचेतनमक्षरम् ।सर्वाधारं परब्रह्मशरीरं धाम यत्र सः ॥६०॥तदेवाऽस्त्यक्षरं ब्रह्मधाम तेजोमयं हरेः ।यावद्वेदतपोब्रह्मचर्यचीर्णं हि तत्पदम् ॥६१॥अशरीरं शरीरं च मूर्तं चाऽमूर्तमित्यपि ।शुद्धं नित्यं च मायादिप्रकाशकं हरेस्तनु ॥६२॥सच्चिदानन्दवासात्म जन्ममृत्युजरातिगम् ।कृष्णनारायणस्वामिश्रितं सद्वर्तते परम् ॥६३॥यदर्चिमत्परब्रह्मतेजोऽभिन्नं सनातनम् ।रजसश्च परे पारे तत्राऽध्यक्षं हरिं भज ॥६४॥हिरण्मयात्परात्कोशादपि चोर्ध्वं च निष्कलम् ।शुभ्रं ज्योतिर्ज्योतिषां च तत्राध्यक्षं हरिं भज ॥६५॥यद्गोलोमाकृतिप्रत्यंगान्यभिन्नात्मशक्तयः ।न वै भागो न वै त्यागो रसैक्यं च परेशवत् ॥६६॥सार्वज्ञ्यं शेषसापेक्षं तत्रस्थं श्रीहरिं भज ।परब्रह्मगतं तेजोमयं तत्र हरिं भज ॥६७॥मुक्ता ह्यनादिनो नित्या वसन्ति यत्र शाश्वते ।तत्रस्थं श्रीहरिं राजन् कृष्णनारायणं भज ॥६८॥एवमक्षरधामस्थं परधामस्थितं परम् ।भजित्वा साम्यभावाप्ता बहवस्तं सदा भज ॥६९॥यः सेतुः सर्वधर्माणामक्षरं ब्रह्म यस्य भूः ।तत्रस्थं श्रीकृष्णनारायणं ज्ञात्वा सदा भज ॥७०॥यः स्यादस्याऽनवज्ञानी भक्तिदास्यविवर्जितः ।अशुद्धः स न तं यायात् संसारागमवेष्टितः ॥७१॥अपरोक्षानुभववाँस्तस्य नारायणस्य यः ।स च तद्धाम चाप्नोति ततो भूयो न जायते ॥७२॥भक्तिर्बलं भवेद् यस्य ज्ञानं पुष्टिप्रदं तथा ।गुरुसेवारथारूढः प्राप्नोति श्रीहरेः पदम् ॥७३॥जीवेभ्यस्तु परा ईशा ईशेभ्यः परमक्षरम् ।अक्षरात्परमं कान्तं ज्ञात्वा तद्धाम चाप्नुयात् ॥७४॥हृदयग्रन्थिभेदान्तं सर्वं स्यादनुशासनम् ।कृष्णनारायणग्रन्थिं लब्ध्वा गच्छ परं पदम् ॥७५॥परे त्वयि मयि चान्ये योऽस्ति तं भज सादरम् ।मृत्युपाशान् स चाप्नोति यस्तं भेदेन पश्यति ॥७६॥हृदा चान्तश्चक्षुषा तं ज्ञात्वा नानाविवर्जितम् ।नानाभावकृतं मृत्युं हत्वा याहि परं पदम् ॥७७॥'ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः' ।जप मन्त्रं सदा राजन् स त्वां पारं करिष्यति ॥७८॥विस्रंसमानदेहस्य बन्धनं नावशिष्यते ।अबन्धनस्य मुक्तस्य ते किमत्राऽवशिष्यते ॥७९॥ऊर्ध्वमूलोऽर्वाक्प्रशाख एषोऽश्वत्थो महान् तरुः ।तं विहायाऽक्षरं ब्रह्म पश्यामृतं हरिं व्रज ॥८०॥यद्भयात् सर्वतेजांसि प्रकाशन्ते विधानवत् ।ईशा ईशत्वमापन्ना यस्मात्तं श्रीहरिं भज ॥८१॥हृत्स्थान् कामान् परिहाय कृष्णं चात्र समश्नुहि ।अमृतं परमानन्दं भुंक्ष्व कृष्णनरायणात् ॥८२॥सत्यं तपो ब्रह्मचर्यं दास्यं येषु प्रतिष्ठितम् ।तेषां चास्ति ब्रह्मलोको येषु जैह्म्यं न नाऽनृतम् ॥८३॥द्वे विद्ये सर्वथा राजन् परा वेद्या तथाऽपरा ।परया त्वाप्यते कृष्णनारायणोऽक्षरे पदे ॥८४॥तदन्याश्चापराः सर्वा याभिर्ब्रह्म न चाप्यते ।ये वै परात्मनः प्रेष्ठां वाचं सद् व्याहरन्ति ते ॥८५॥पुण्ये ब्रह्मपदे यान्ति दास्यं श्रीपरमात्मनः ।परब्रह्म विजानाति सेवते भजते च यः ॥८६॥जाग्रति चान्तरे स्वप्ने त्र्यवस्थोत्तरवैभवे ।सोऽश्नुते सर्वकामांश्च ब्रह्मणा सह मिश्रितान् ॥८७॥अन्नं प्राणं मनो ज्ञानं चानन्दं तमवेहि च ।आत्मानं चान्तरात्मानं कृष्णनारायणं भज ॥८८॥कंभरापुत्रसेवाभिः केनानन्देन पूर्यते ।गोपालबालसेवाभिर्गोभिः संभ्रियते नृप ॥८९॥वाणी मनश्च विषयं करोत्येव न यं प्रभुम् ।आनन्दं तं हरेर्याहि कुतश्चन भयं न ते ॥९०॥ज्ञानाद् यज्ञाः प्रजायन्ते कर्माण्यपि भवन्ति च ।सम्पद्यते सुरतृप्तिः श्रीमत्कृष्णे समर्पिते ॥९१॥परब्रह्म च यो वेद यस्ततो न प्रमाद्यति ।मायापाप्मानमुत्सृज्य ब्रह्मभोगान् समश्नुते ॥९२॥सन्तं कृष्णं प्रवदन्तं सन्तं ध्यायन्तमेव च ।सेवमानं तथा सन्तं सत्पदं स हि कर्षति ॥९३॥स हि सृष्ट्वा तदेवाऽनुप्राविशत्सः परात्परः ।सत्यं यथानृतं तेन सत्यमित्येव बुद्ध्यते ॥९४॥असद् व्याकृतभावं च सुकृतं तेन बुद्ध्यते ।सोऽक्षरात्पुरुषद्वारा नैकाण्डान्युदपादयत् ॥९५॥तस्य परात्मनो योगात् तेषु सत्यं च सुकृतम् ।अक्षरे च यथा तद्वज्ज्ञात्वा मोक्षमवाप्नुयात् ॥९६॥सदेव राजन् भगवानभूत्पुराततः समस्तं सत्स्वरूपं विकासितम् ।रसात्मकोऽयं सर्वरसप्रदातालब्ध्वा रसं तस्याऽऽनन्दीभवन्ति ॥९७॥अस्याऽऽनन्देन वै लोका भवन्ति चाभयं गताः ।मनो वाचो न वै यान्ति यत्र तं भज केशवम् ॥९८॥तस्माज्जायन्त इमानि जीवन्त्यपि ततः प्रभोः ।तत्रैवेमे पलीयन्ते शाश्वतं प्रलयं व्रज ॥९९॥परमात्मा दिव्यरूपो ध्येयश्चासीत्पुरागृहे ।रचयित्वा द्वितीयं च तत्रोवास च तं भज ॥१००॥स्थावरं जंगमं सर्वं प्रज्ञानेत्रं प्रभासते ।प्रज्ञाने वर्तते यश्च तं नेत्रं भज माधवम् ॥१०१॥शान्तं सर्वात्मकं ब्रह्मपरं कं खं हरिं भज ।श्रद्धया तपसा दिव्यं नेतारं त्वर्चिषाऽच्युतम् ॥१०२॥दिव्यान्तःस्थं शुक्लपक्षान्तरात्मानं हरिं भज ।उत्तरायणमासस्थं सम्वत्सरान्तरस्थितम् ॥१०३॥आदित्यवर्तिनं चन्द्रान्तरात्मानं च तं भज ।विद्युत्प्रकाशदातारं वरुणस्थं जलान्तरम् ॥१०४॥इन्द्रान्तरं प्रजापतेरान्तरस्थं विराड्गतम् ।रुद्रहृदयं विष्णुस्थं महाविष्णुप्रतिष्ठितम् ॥१०५॥निरञ्जनस्थं शबलान्वितं केवलगं भज ।अक्षरब्रह्मगो भूत्वा तत्पुमांसं सदा भज ॥१०६॥दानानां फलदातारं धूम्ररात्रिस्थितं प्रभुम् ।कृष्णपक्षान्तरस्थं च दक्षिणायनगं हरिम् ॥१०७॥सम्वत्सरान्तरस्थं च पितृस्थं व्योमगं भज ।चन्द्रस्थं च प्रजापालस्थितं राजन् सदा भज ॥१०८॥वायुस्थं चाभ्रसंवासं मेघस्थं कणवर्तिनम् ।बीजस्थं कार्यरूपं चाभिव्याप्तं श्रीहरिं भज ॥१०९॥रमणीयखनिजेषु विप्रादिषु हरिं भज ।दयनीयखनिजेषु गवादिषु हरिं भज ॥११०॥एष देवो हतपाप्मा विजरो मृत्युवर्जितः ।विशोकः क्षुत्तृषाहीनः सत्यकामप्रकल्पनः ॥१११॥त्वत्स्वरूपस्त्वत्समानस्त्वादृशं तं प्रभुं भज ।तस्य रूपेण ते चाभिनिष्पत्तिस्तं तथा भज ॥११२॥क्रीडन्नृत्यन् कीर्तयँश्चानन्दयन् संस्मरन् सदा ।स्वेन रूपेण कुर्वन्तं त्वां तं तथाविधं भज ॥११३॥विना भक्तं न रमते द्वितीयं तं ह्यकल्पयत् ।तं त्वयि व्याप्तमेवैनं हृदयस्थं सदा भज ॥११४॥सोऽयमात्मा त्वया राजन् द्रष्टव्यो हृत्स्थचक्षुषा ।श्रोतव्यो हृच्छ्रवसा च मन्तव्यो दिव्यतेजसा ॥११५॥निर्णेतव्यस्तस्य बुद्ध्या न त्याज्यः स कदाचन ।एवं सर्वात्मभावेन पश्य कृष्णं सनातनम् ॥११६॥तस्मिन् सर्वाणि भूतानि चार्पितानि च तं भज ।यः पृथिव्यां जले वह्नौ वायौ व्योम्नि च तं भज ॥११७॥यस्येमानि शरीराणि शरीरस्थं च तं भज ।आत्मा सन्तः प्रतिमा च यस्य तं केशवं भज ॥११८॥यस्मात् सर्वे समानन्दा जीवा चानन्दिता यतः ।आप्तकामं महानन्दं पूर्णं नारायणं भज ॥११९॥कामान् विहाय हृदये हरिं स्थापय भावतः ।स्थितं चावेहि वै राजन् याहि तं शरणं भज ॥१२०॥नाऽनवाप्तं तदा तेऽत्राऽवशिष्टं नहि शिष्यते ।सैषा ब्राह्मी पराविद्या पाठिता ते प्रमोक्षदा ॥१२१॥अथायं राजा सन्तृप्तश्चात्मन्येव जनार्दनम् ।परमं पुरुषं दिव्यं ददर्श पुरुषोत्तमम् ॥१२२॥शंखचक्रगदापद्मधनुःशूलादिराजिम् ।राधालक्ष्मीप्रभापद्मापार्वतीमाणिकीश्वरम् ॥१२३॥सर्वाभिः सेविकाभिश्च सेवितं पार्षदैस्तथा ।हृदये तं प्रभुं कृष्णनारायणं विलोक्य च ॥१२४॥तदिच्छया बहिश्चापि तं ददर्श श्रियाःपतिम् ।लोमशस्य च कृपया पराविद्याप्रभावतः ॥१२५॥व्योम्नः समागतं दिव्यं विमानं चातिसुन्दरम् ।ब्रह्मणश्चाज्ञया देवदूतेन त्वधिवासितम् ॥१२६॥देवदूतः समुवाचाऽऽगच्छाऽऽगच्छ विमानके ।राजन्नयामि ते सत्यं लोकं श्रीपरमेष्ठिनः ॥१२७॥इन्द्रद्युम्नश्च तं प्राह न मे सत्ये प्रयोजनम् ।यास्यामि श्रीकृष्णनारायणस्य चरणं ध्रुवम् ॥१२८॥अक्षरात्परमं धाम लोमशस्य कृपालवात् ।इत्युक्तो देवदूतः स ययौ लोकं तु वेधसः ॥१२९॥इन्द्रद्युम्नो विरराम लोमशस्य तु सन्निधौ ।लोमशस्तं सरस्तीरे तृणासनं ददौ शुभम् ॥१३०॥कदम्बद्रुमनिकटे कृष्णनारायणालये ।राजा स्नात्वा हरिं ध्यात्वा पूजयित्वा नरायणम् ॥१३१॥लोमशं पूजयित्वा च ऋषीन्नत्वा तदाश्रमे ।फलादि श्रीकृष्णनारायणाय विनिवेद्य च ॥१३२॥समर्प्य गुरवे तत्र बुभुजे च पपौ जलम्।योगनिद्रां सुखमयीं लेभे रात्रौ हरिं स्मरन् ॥१३३॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने इन्द्रद्युम्नाय लोमशर्षिसमुपदिष्टब्राह्मीपराविद्यौपनिषदात्मस्मरणनामा त्रयोविंशत्यधिकपञ्चशततमोऽध्यायः ॥५२३॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP