संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ५२२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५२२ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! ततश्चापि लोमशः स महामुनिः ।इन्द्रद्युम्ने ददौ ज्ञानं लीनं मायिकवायुना ॥१॥लोमशः प्राह राजस्त्वं शृणु वृत्तं पुराभवम् ।एकदा नारदः सत्याल्लोकाच्छ्रीबदरीवनम् ॥२॥नारायणं नरं द्रष्टुं तीर्थयात्राप्रसंगतः ।विशालायां तदा त्वासीत् स्वायंभुवमनोः सुतः ॥३॥तपस्यां संप्रकुर्वन् श्रीकृष्णनारायणं जपन् ।प्रियव्रताभिधानस्तं दृष्ट्वा श्रीनारदो मुनिः ॥४॥ययौ तस्य तु निकटे राजा ननाम चादरात् ।राजा चेष्ट्वा बहुयज्ञैर्विपुलैर्भूरिदक्षिणैः ॥५॥निवृत्तिं धर्ममाश्रित्य साधुं ननाम नारदम् ।अभ्युत्थानेन च मुदा ज्वलद्भास्करतेजसम् ॥६॥ददौ पाद्यं चासनं सुनैवेद्यं बदरीफलम् ।ततः पप्रच्छ कुशलं पप्रच्छ लोकवर्तनम् ॥७॥भगवन् किञ्चिदाश्चर्यमेतस्मिन् कृतसंज्ञिते ।युगे दृष्टं श्रुतं वापि तन्मे कथय नारद ॥८॥नारदः प्राह दृष्टं यच्छृणुष्वाश्चर्यमद्भुतम् ।ह्यस्तनेऽहनि राजेन्द्र! श्वेतद्वीपं गतोऽभवम् ॥९॥तत्र दुग्धसरो दृष्ट्वा फुल्लपंकजशोभितम् ।तथा तस्य तटे रम्यां कुमारीं पृथुलोचनाम् ॥१०॥दृष्ट्वाऽहं विस्मयाऽऽपन्नस्तां कन्यामायतेक्षणाम् ।पृष्टवानस्मि राजेन्द्र तदा मधुरभाषिणीम् ॥११॥काऽसि भद्रे कथं वाऽसि किं वा कार्यमिह त्वया ।कर्तव्यं चारुसर्वाँगि तन्ममाऽऽचक्ष्व सुन्दरि ॥१२॥एवमुक्ता मया सा च मां दृष्ट्वाऽनिमिषेक्षणा ।क्षणं तूष्णीं स्थिता यावत् तावन्मे ज्ञानमुत्तमम् ॥१३॥विस्मृतं सर्ववेदाश्च शास्त्राणि संहितास्तथा ।योगाः शिक्षास्तथा सर्वा धर्मन्यायाः कलादयः ॥१४॥सर्वे दृष्ट्वैव मे राजन् कुमार्याऽपहृतं क्षणात् ।ततोऽहं विस्मयाविष्टश्चिन्ताशोकाकुलः स्वयम् ॥१५॥तामेव शरणं गत्वा हृदा पश्यामि तां पुनः ।तावद् दिव्यः पुमाँस्तस्याः शरीरे समदृश्यत ॥१६॥तस्यापि पुंसो हृदये त्वपरस्तस्य चोरसि ।अन्यो रक्तेक्षणः श्रीमान् द्वादशादित्यसन्निभः ॥१७॥एवं दृष्ट्वा पुमांसोऽत्र त्रयः कन्याशरीरगाः ।क्षणेन लीनाः कन्यैका प्रपश्यामि न तान्पुनः ॥१८॥ततः पृष्टा मया देवी सा कुमारी कथं मम ।वेदा नष्टा ममाऽऽचक्ष्व भद्रे तन्नाशकारणम् ॥१९॥कन्या प्राह च माताऽहं वेदानां तव नारद ।सावित्री ब्रह्मणः पत्नी जननी तव नारद ॥२०॥त्वया नाऽहं समागत्य सत्कृता वा नमस्कृता ।मां न जानासि येन त्वं ततो वेदा हतास्तव ॥२१॥सावित्रीं चापि गायत्रीं यो न जानाति वै द्विजः ।तस्य ज्ञानं तु वेदानां जायते न कदाचन ॥२२॥मातृनाशे भवेन्नाशः पुत्राणां मातृसेविनाम् ।मातृभक्ताश्च ते पुत्रा विना क्वापि च मातरम् ॥२३॥नहि तिष्ठन्ति पात्रेषु वेदा नष्टास्ततस्तव ।मातृपूजा न कुर्वन्ति मन्वते न च मातरम् ॥२४॥नमन्ति मातरं नैव ते स्युर्मूर्खा जडात्मकाः ।मातरं नहि जानन्ति सेवन्ते न च मातरम् ॥२५॥आशीर्वादविहीनास्ते जडा भवन्ति तामसाः ।मातृदुःखं कृतं येन माता नैव च पोषिता ॥२६॥गर्भभारहता तेन कृता माताऽवमानिता ।ते विचित्तास्तथोन्मत्ता दरिद्रा दुःखिनस्तथा ॥२७॥उद्वेजिनः सविघ्नाश्च रुग्णा भवन्ति पुत्रकाः ।तस्मान्माता पितुर्दशगुणा मान्या सुतेन वै ॥२८॥कार्यार्थं गमने क्वापि माताऽऽह्वयति पृष्ठतः ।तत्कार्यं सफलं सिद्ध्येन्माता तस्माद्गरीयसी ॥२९॥पिता बीजप्रदाता तन्नवमासान् पुपोष या ।कष्टं प्रसह्य सूते तं पञ्चवर्षाणि रक्षति ॥३०॥मूत्रमलादि बालस्य प्रक्षालयति सर्वदा ।तस्माच्छतगुणा माता बालं कट्यां दधाति या ॥३१॥उदरे च तथा कट्यां हृद्ये च दधाति या ।सदा पूज्यतमा माता सेवनीया शुभेच्छुभिः ॥३२॥नारदस्तां समुत्थाय ज्ञात्वा मातरमित्यथ ।नत्वा प्रपूज्य पप्रच्छ के त्रयः पुरुषा इति ॥३३॥मातोवाच मयि दृष्टः सर्वांगश्चारुशोभनः ।एष ऋग्वेदनामा वै वेदो नारायणः स्वयम् ॥३४॥वह्निभूतो दहत्याशु पापान्युच्चारणादनु ।एतस्य हृदये योऽयं दृष्ट आसीत्त्वयाऽऽत्मज ॥३५॥स यजुर्वेदरूपेण स्थितो ब्रह्मा महाबलः ।तस्याऽप्युरसि संविष्टो य एष शुचिरुज्ज्वलः ॥३६॥सामवेदो महाभागवतभक्तः स शंकरः ।एष आदित्यवत् पापान्याशु नाशयति स्मृतः ॥३७॥एते त्रयो महावेदास्तथा देवास्त्रयश्च ते ।एतस्मिन् सरसि पुत्र! ज्ञानात्मके ममान्तिके ॥३८॥स्नात्वा गृहाण वेदादीन् सर्वज्ञत्वं तथा लभ ।कृते वेदसरःस्नाने प्राग्भवीयं स्मरिष्यसि ॥३९॥एवमुक्त्वा तिरोभावं गता माता तदा मम ।अहं तत्र कृतस्नानो लब्ध्वा सहस्रजन्मजम् ॥४०॥ज्ञानं समागतश्चात्राऽऽश्चर्यं दृष्टं हि तन्मया ।तत्रैकं मम ते जन्म कथयामि पुराभवम् ॥४१॥पूर्वकल्पे भवानासीद् राजा बाहुधनो भुवि ।दक्षिणे पश्चिमे देशे सिंहारण्ये च रैवते ॥४२॥तदाऽहमभवं तत्र शत्रुंजितानदीतटे ।ब्राह्मणो वेदविद्यादिनिष्णातः शारदाऽभिधः ॥४३॥बहुभृत्यपरीवारो बहुधान्यधनादिमान् ।किन्तु ज्ञानेन सम्पन्नश्चासं परमबुद्धिमान् ॥४४॥ततो ध्यातं मयैकान्ते किमनेन करोम्यहम् ।द्वन्द्वेन सर्वमेतद्धि न्यस्य पुत्रेषु याम्यहम् ॥४५॥तपसे धृतसंकल्पो विचार्य च रसायनम् ।दास्यभक्त्या हरिस्तुष्येत् पितरः श्राद्धकर्मभिः ॥४६॥देवा यज्ञैर्जना दानैः स्त्रियः कामैः रिपुः क्षयैः ।ततोऽहं निर्गतो गेहादश्वपट्टसरः प्रति ॥४७॥लोमशो यत्र वै शश्वद् राजते सरसस्तटे ।तत्र गत्वा मया विष्णुः पुराणपुरुषोत्तमः ॥४८॥आराधितोऽतिसद्भक्त्या कृष्णनारायणो हरिः ।ततो मे भगवाँस्तुष्टः प्रत्यक्षतां जगाम मे ॥४९॥स्तुतो मया तदा कृष्णनारायणश्च तद्यथा ।'परं पराणाममृतं पुराणं पुरुषं प्रभुम् ॥५०॥नमाम्यप्रतिमं कृष्णनारायणं पतिं परम् ।ईशितारं हरिं चोग्रतेजसं वीर्यवत्तमम् ॥५१॥परब्रह्म परेशं त्वां स्तौमि नारायणं प्रभुम् ।श्रीपतिं कम्भरालक्ष्मीबालं गोपालबालकम् ॥५२॥राधालक्ष्मीरमापद्माप्रभापद्मावतीपतिम् ।पार्वतीमाणिकीगंगाललितामनसापतिम् ॥५३॥सतां च स्वामिनं कृष्णनारायणं नमाम्यहम् ।प्रसिद्धः शरणं मेऽस्तु कृष्णनारायणः प्रभुः ॥५४॥प्रधानेशश्च धामेशो ह्यक्षरेशः सतीपतिः ।सहस्रमूर्धाऽनन्ताक्षोऽनन्तबाहूरुपादवान् ॥५५॥क्षीरस्थश्चामृतस्थश्च कुंकुमवापिकास्थितः ।त्रियुगश्च त्रिवेदस्थः कृते श्वेततनुश्च यः ॥५६॥ततो रक्तश्च पीतश्च कृष्णश्चापि ततः पुनः ।वर्तते बहुधा यश्च विप्रान् मुखात् ससर्ज यः ॥५७॥भुजयोर्बहुधा क्षत्रं चोर्वोर्विशः पदाच्चरान् ।वर्णान् ससर्ज यो देवो विश्वतनुं नमामि तम् ॥५८॥शंखचक्रगदापद्मधनुर्ध्वजत्रिशूलवान् ।स्वस्तिकस्वर्णरेखात्मश्रीवत्सहारशोभितः ॥५९॥शरणं मे सदा चाऽस्तु मुक्तिदो मेस्तु वै भवान् ।इतिस्तुतो मया देवः कृष्णनारायणः प्रभुः ॥६०॥वरं वृणीष्वेत्यसकृत् प्राहाऽहं मोक्षमिष्टवान् ।इष्टदेवश्च मां प्राह भज त्वं प्रकृतिं मुने ॥६१॥ममाऽऽज्ञया च प्रवृत्तिर्मोक्ष एव न संशयः ।विनाऽऽज्ञां मे च निवृत्तिर्बन्धनाय भवेद् ध्रुवम् ॥६२॥तस्मात् कल्पान्तरं याहि सायं जातोऽद्य वै दिवा ।नारं पानीयमित्युक्तं नारं ज्ञानं तथोच्यते ॥६३॥नारं त्वात्मस्थितं विष्णुं यो ददाति स नारदः ।सदा ते नाम चैतद्वै ख्यातं सम्यग् भविष्यति ॥६४॥एवमुक्तश्च तं नत्वा कृष्णनारायणं प्रभुम् ।लोमशं तं महर्षिं च राजँस्त्वद्गृहमागतः ॥६५॥त्वया सम्मानितश्चाहं त्वर्थितो मोक्षणं प्रति ।मयाऽप्युक्तं भज कृष्णनारायणं पतिं प्रभुम् ॥६६॥प्रवृत्तिं च हरेर्नारायणस्यैव कुरु नृप ।त्वया राज्यं परित्यक्तं निर्गतस्त्वं मया सह ॥६७॥ब्रह्मलोकं गतौ चावां रात्रिर्जाता दिनस्य च ।दिवसश्च पुनः सृष्टो ब्रह्मणा परमेष्ठिना ॥६८॥तत्राऽहं नारदी जातः स्मृतो नृप! भवान् मया ।प्रियव्रतः स एवाऽयं चेति त्वां द्रष्टुमागतः ॥६९॥यस्मान्नारायणं ध्यात्वा प्राप्तोऽस्मि गुरुतां नृप ।तस्मात् त्वमपि राजेन्द्र भव विष्णुपरायणः ॥७०॥मत्स्यः कूर्मो वराहश्च नरसिंहोऽथ वामनः ।रामो रामश्च कृष्णश्च बुद्धः कल्की च ते दश ॥७१॥कृष्णनारायणविष्णोर्मूर्तयस्ताः शुभप्रदाः ।दर्शनं प्राप्तुमिच्छूनां सोपानानि च शोभनाः ॥७२॥यत्तासां परमं रूपं दृष्टवानहमेव तत् ।पुरा कल्पे तदा तत्र कुंकुमवापिकाऽऽलये ॥७३॥नरनारायणौ चात्र मूर्ती तस्यैव शोभने ।ब्रह्मचर्यव्रतस्थेऽत्र लोककल्याणहेतवे ॥७४॥धरा मूर्तिस्तस्य चाद्या सर्वधारणपोषिका ।द्वितीया सलिलं मूर्तिस्तृतीया तैजसी प्रभा ॥७५॥चतुर्थी प्राणमूर्तिर्वायुर्व्योमाख्या तु पञ्चमी ।मन आत्मा चान्तरात्मा हरेस्ताश्चाष्टमूर्तयः ॥७६॥अभिव्याप्तमिदं सर्वं जगन्नारायणेन हि ।इत्युक्तो नारदेनाऽसौ राजा भागवतो महान् ॥७७॥नारायणात्मकं ब्रह्मपरं जप्त्वा स्वयंभुवः ।कृष्णनारायणमनाः परं निर्वाणमाप्तवान् ॥७८॥इत्येवं लोमशः सर्वं कथयामास भूभृते ।इन्द्रद्युम्नाय विज्ञानं कृष्णनारायणाश्रितम् ॥७९॥श्रुत्वा लक्ष्मि! महाभागवतो राजा तुतोष ह ।पुनस्तं लोमशं प्राह सुधां चात्माश्रितां मुने ॥८०॥पात्रं मत्वा शुभं शिष्यं ब्रह्मामृतं च पायय ।इत्युक्ते लोमशस्तं च ब्रह्मज्ञानं ततोऽब्रवीत् ॥८१॥वैदिकं सामवेदोक्तमार्षं च गहनं तथा ।ज्ञानचक्षुष्मता ग्राह्य हृत्प्रकाशकृतां स्थिरम् ॥८२॥ध्यातॄणां पचनीयं च ब्रह्मौपनिषदं परम् ।यच्छ्रुत्वा वासनालिप्तो ब्रह्मभूयाय कल्पते ॥८३॥छिद्यते हृदयग्रन्थिर्भिद्यते संशयस्तथा ।लीयते तामसो भावो वर्धन्ते सुखसम्पदः ॥८४॥क्षीयन्ते सर्वकर्माणि शुष्कार्द्राणि दृढान्यपि ।यज्ज्ञानेनान्तरं चक्षुरैश्वर्याढ्यं प्रकाशते ॥८५॥इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने कुंकुमवापीक्षेत्रे लोमशेन्द्रद्युम्नसंवादे नारदस्य श्वेतद्वीपे सावित्र्यां ज्ञानह्रासस्ततः सावित्रीप्रदवेदादिज्ञानं, बदर्यां प्रियव्रताय तत्कथनं, प्रियव्रतस्य मोक्षः, भगवद्धामाऽवताराऽवतारिज्ञानफलं चेत्यादिनिरूपणनामाद्वाविंशत्यधिकपञ्चशततमोऽध्यायः ॥५२२॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP