संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ५१३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५१३ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! चमत्कारे क्षत्त्रा च ब्राह्मणीति च ।सखीद्वयं समास्ते वै तपोवृत्तिपरे ह्युभे ॥१॥छान्दोग्य इति नाम्नाऽऽसीत् सामवेदी पुरा द्विजः ।पश्चिमे वयसि तस्य कन्याऽपत्यं बभूव ह ॥२॥यस्मिन्नहनि सञ्जाता तस्मिन्नेव दिने तदा ।आनर्ताधिपतेश्चापि कन्याऽपत्यं बभूव ह ॥३॥राजा चक्रेऽभिधानं वै रत्नवतीति शोभनम् ।रत्नवत्या ह्यभून्मैत्री विप्रपुत्र्या शुभाऽक्षया ॥४॥एकासनं तथा शय्या त्वेकान्नेन च भोजनम् ।विप्रो दुहितुः समये योग्ये प्राप्तेऽप्यचिन्तयत् ॥५॥उद्वाहं किन्तु कन्या सा सख्या वियोगकातरा ।गत्वा नृपतेः पुत्रीं सा जगाद बहुदुःखिता ॥६॥सखि तातो विवाहं मे प्रकरिष्यति साम्प्रतम् ।तेन सख्यं विनश्येच्च वियोगः स्यात्तदाऽऽवयोः ॥७॥श्रुत्वा नृपस्य दुहिता कृत्वा कण्ठे रुरोद ताम् ।राज्ञी मृगावती श्रुत्वा तत्राऽऽजगाम सत्वरम् ॥८॥ज्ञात्वा रोदनहेतुं च जगाद च शुभाक्षिणीम् ।पुत्रि त्वां मम पुत्र्याश्च सखित्वे निश्चिनोम्यहम् ॥९॥मम पुत्र्यै प्रदास्ये त्वां सखीरूपां सदा प्रियाम् ।राज्ञी ब्राह्मणमाहूय प्राह विप्र सुता तव ॥१०॥मम पुत्र्याश्चातिस्निग्धा प्रिया सखी हि वर्तते ।तस्मात् कुरु वचो मह्यं कन्यां देहि च मे तव ॥११॥यद्वा यस्य मम कन्या दीयते तन्नृपस्य वै ।पुरोधास्तस्य यो विप्रस्तस्मै देया सुता तव ॥१२॥एकस्थाने स्थितयोस्तु मैत्रीसौख्यं सदा भवेत् ।छान्दोग्य स्वसुतायाश्चाऽभिप्रायं त्ववगम्य वै ॥१३॥ददौ राज्ञ्यै कुमारीं तां ब्रहाचर्यपरायणाम् ।विप्रकन्या रत्नवत्या समं वासं चकार ह ॥१४॥नृपगृहे तु सा जाता युवत्यतीव शोभना ।नृपः स्वां कन्यकां दातुं सुयोग्याय वराय तु ॥१५॥विप्रैरन्वेषणं पृथ्व्यां कारयामास तस्य वै ।दशार्णाधिपतिर्भूपः पत्यर्थं संवृतस्तया ॥१६॥बृहद्बलः स नृपतिर्विवाहार्थं समागतः ।विश्वावसोर्ब्राह्मणस्य राज्ञः पुरोहितस्य च ॥१७॥परावसुरितिनाम्ना कुमारोऽभूत् तदा युवा ।सोऽपि राज्ञा समं तत्र त्वाययौ स पुरोहितः ॥१८॥राजा लग्ननमुहूर्ते वै मण्डपे वह्निसन्निधौ ।आगतस्तत्र कन्या च विप्रकन्यासखीयुता ॥१९॥पितृभ्यामन्यनारीभिर्युक्ता हेदीसमीपतः ।समानीता प्रदानाय तत्राऽऽश्चर्यमभून्महद् ॥२०॥कन्या जातिस्मरा ब्रह्मचर्यपरा शिवांशजा ।पार्वतीकलया जाता योगिनी जन्मतोऽभवत् ॥२१॥कामरूपधरा साध्वी विप्रकन्यापि तादृशी ।सर्वसिद्धिमयी त्वासीद् ब्रह्मचर्यपरायणा ॥२२॥ताभ्यां गौरीप्रतापेन कायव्यूहः प्रसाधितः ।सिद्धयः साधिताः सर्वाः कामदेवो जितस्तथा ॥२३॥पार्वत्या वैष्णवो मन्त्रस्ताभ्यां दत्तो रहस्यकृत् ।'ओं नमः श्रीकृष्णनारायणाय पतये नमः' ॥२४॥पतिः कृष्णं विना नान्यः पातिव्रत्यं हरेः सदा ।पालनीयं न चान्यस्येत्याह श्रीपार्वती च ते ॥२५॥योगसिद्धीर्ददौ ताभ्यां सिद्धिभिर्दिव्यवैभवे ।चमत्काराऽन्विते जाते मण्डपे ते च कन्यके ॥२६॥राजकन्याऽभवत् तत्र सिंहिकारूपधारिणी ।विकराला ललज्जिह्वा स्फारनेत्रा सगर्जना ॥२७॥विप्रपुत्री तदा व्याघ्री क्रूरा समभवत् क्षणात् ।त्रस्ताः सर्वजना दृष्ट्वा दुद्रुवुर्मण्डपाद् बहिः ॥२८॥कन्यके द्वे विना सर्वे पलायिता हि मण्डपात् ।कोलाहलो महान् जातो ग्रामे राष्ट्रे प्रजाजने ॥२९॥बृहद्बलो विहायैते ययौ स्वनगरं तदा ।पितृभ्यां वारिते पश्चात् पार्वतीरूपमेव ते ॥३०॥धृतवत्यौ तदा शान्तिर्जाता प्रजाजनस्य वै ।पूजितं दिव्यदेहं वै लोकेश्च पार्वतीद्वयम् ॥३१॥शतचन्द्रसमे ते' द्वे कन्यके शंकरान्विते ।'ओं नमः श्रीकृष्णनारायणाय पतये नमः' ॥३२॥इति जपन्त्यौ वैष्णव्यौ जाते ते कन्यके ततः ।पूर्वरूपान्विते दृष्ट्वा सन्तुष्टाश्च निरीक्षकाः ॥३३॥वार्ता सर्वत्र लोकेषु पार्वतीद्वयमेव तत् ।देवीद्वयं वर्तते वै प्रवृत्तैवं गृहे गृहे ॥३४॥नित्यं लोकाः पूजयन्ति पश्यन्ति च नमन्ति च ।आरार्त्रिकं च कुर्वन्ति चमत्कारपुरे सदा ॥३५॥एवं काले व्यतीतेऽथ तीर्थं देवीद्वयात्मकम् ।हाटकेश्वरजे क्षेत्रे सञ्जातं पावनं परम् ॥३६॥रत्नवती प्रसस्मार कृष्णनारायणं मुहुः ।मयाऽऽत्माऽस्त्यर्पितस्तेऽतः कृष्णत्वं नय मामितः ॥३७॥विप्रकन्याऽपि तत् प्राह यत्र त्वं तत्र चाप्यहम् ।सखीं त्यक्त्वा सखी नान्यस्थलं याति कदाचन ॥३८॥तदा देवी स्मृता ताभ्यां दुर्गा चाप्यागता द्रुतम् ।आज्ञयामास तपसे ते चोभे प्रस्थिते यदा ॥३९॥तदा मृगावती राज्ञी मायामोहसमन्विता ।अश्रुपूर्वेक्षणा दीना पुत्रीमेतद्दुवाच ह ॥४०॥मा पुत्रि साहसं कार्यं तपोऽर्थं ते कथंचन ।बाला त्वं सुकुमारांगी सदैव सुखभागिनी ॥४१॥कथं तपःसमर्थाऽसि विधातुं त्वमनिन्दिते ।कन्दमूलफलाहारा चीरवल्कलधारिणी ॥४२॥तस्मान्मुख्यस्य भूपस्य कस्यचित्त्वां ददाम्यहम् ।एषा ते ब्राह्मणी नामसखी परमसम्मता ॥४३॥यास्यति वै त्वया साकं कौमारभावमाश्रिता ।यस्य भूपस्य हर्म्ये त्वं प्रयास्यसि विवाहिता ॥४४॥रत्नवती च तां प्राह मातर्नैवं त्वया पुनः ।वाच्यं मदर्थे यदि मे प्राणान् रक्षितुमिच्छसि ॥४५॥हठेन यदि विघ्नं मे करिष्यसि तदा तनुम् ।त्यक्ष्यामि विषयोगेण चर्वयित्वा च जिह्विकाम् ॥४६॥अनलं वा प्रवेक्ष्यामि प्राप्स्यामि श्रीहरिं पतिम् ।नान्यं पतिं करिष्यामि निश्चयोऽयं मया कृतः ॥४७॥साऽह तपश्चरिष्यामि कौमारव्रतधारिणी ।पतिं श्रीमत्कृष्णनारायणं प्राप्स्यामि सत्पतिम् ॥४८॥सकृज्जल्पन्ति राजानः सकृज्जल्पन्ति च द्विजाः ।सकृत् सत्यः प्रजल्पन्ति क्रीण्येतानि सकृत् सकृत् ॥४९॥मनसा चिन्त्यते कार्यं वाचा संप्रोच्यते ततः ।कर्मणा क्रियते पश्चाद् सती तद्वत् करोम्यहम् ॥५०॥एवं सा प्रोच्य जननीं विरराम हरेः प्रिया ।अथ राज्ञी सखीं तस्या ब्राह्मणीं प्राह वै ततः ॥५१॥मम पुत्री पतिं नैवोद्वाहं वाञ्छति पुत्रिके ।त्वया कार्यो विवाहस्तु गच्छ हर्म्यं पितुस्तव ॥५२॥यद्वाहं कारयिष्यामि विवाहं ते यथेप्सितम् ।क्षमस्व यन्मयोक्तं तत् कदाचित् कटुकं वचः ॥५३॥त्वयोक्तं वा कदाचित् तत् क्षान्तं सर्वं मया सुते ।ब्राह्मणी प्राह तां राज्ञीं धर्मयुक्तं वचस्तदा ॥५४॥अष्टवर्षा भवेद् गौरी नववर्षा च रोहिणी ।दशवर्षा भवेत् कन्या कन्यादानं प्रशस्यते ॥५५॥ं ततश्चोर्ध्वं यावन्नैव तु दृश्यते ।तावद् दानं हि कन्यायाः पूर्णपुण्यप्रदं श्रुतम् ॥५६॥कन्यात्वं तु प्रणष्टं मे कौमार्ये चापि गच्छति ।अतीते षोडशे वर्षे स्त्रीधर्मिणी भवामि वै ॥५७॥रजस्वलां तु यः कन्यामुद्वाहयति तस्य वै ।सन्तानं पापसंयुक्तं पातयत्यपरान् दश ॥५८॥रजस्वलां तु यः कन्यां पिता यच्छति सोऽपि च ।पातयेत् स्वकुलानां तु दशपूर्वान् दशाऽपरान् ॥५९॥तस्मादहं करिष्यामि सख्या सार्धं तपः परम् ।पित्रा मात्रा त्वया चापि न मे कार्यं कथंचन ॥६०॥सम्प्राप्तः श्रीकृष्णनारायणः पतिः परः प्रभुः ।एवमुक्त्वा कन्यके द्वे योगज्ञानसमन्विते ॥६१॥नत्वा त्वाज्ञां गृहीत्वा च पित्रोर्नत्का गणाधिपम् ।ययतुर्व्योममार्गेण भर्तृयज्ञं मुनिं वने ॥६२॥आश्रमं सात्त्विकं चावलोकयामासतुः शुभम् ।ऋषेस्तपःप्रभावेण परस्परविरोधिनाम् ॥६३॥मेलनं सर्वदा त्वास्ते वैरं यत्र न दृश्यते ।भर्तृयज्ञं वैष्णवं संगत्वा नत्वा च तस्थतुः ॥६४॥प्रोचतुर्विनयोपेते कृताञ्जलिपुटे ह्युभे ।आवां तपोऽर्थे त्वायाते तद् ब्रूहि तपसो विधिम् ॥६५॥भर्तृयज्ञो महायोगी जगाद तपसो विधिम् ।येन सम्प्राप्यते मोक्षः किं पुनस्त्रिदशालयः ॥६६॥चान्द्रायणानि कृच्छ्राणि तथा सान्तपनानि च ।तपोद्वाराणि सर्वाणि कार्तिकेयव्रतानि च ॥६७॥रागद्वेषविहीनत्वं सार्वभौममहिंसनम् ।सत्यं च ब्रह्मचर्यं चाऽस्तेयं कृष्णपरिग्रहम् ॥६८॥सन्तोषं चात्मशुद्धिं च प्राणनिग्रहणं तथा ।कृष्णनारायणाध्यायं कृष्णनारायणेऽर्पणम् ॥६९॥सुखितेषु तथा मैत्रीं दुःखितेषु दयां शुभाम् ।पुण्यवत्सु मुदितां चाऽपुण्यवत्सु ह्युपेक्षणम् ॥७०॥सतां सेवां सर्वरीत्या देवसेवनमित्यपि ।प्रकुर्याच्छ्रीकृष्णनारायणाराधनमन्वहम् ॥७१।व्यवस्थासु त्रिदेहैश्च त्रिगुणानां तदर्पणम् ।यात्रामात्रं तनौ स्नेहः श्रीकृष्णे प्रेम शाश्वतम् ॥७२॥कार्यं च कल्पनं ध्यानं स्वप्नं भानं तदर्पणम् ।सत्त्वेन रजसा यद्वा तमसा च तदर्पणम् ॥७३॥दैहिकं मानसं काम्यमकाम्यं वा तदर्पणम् ।उपादिदेश जपनं स्मरणं कीर्तनं कृतिम् ॥७४॥प्रेक्षणं भाषणं स्पृश्यं गम्यं ग्राह्यं विसर्जनम् ।सर्वं कृष्णात्मकं कार्यं तपस्त्वेतत्परं मतम् ॥७१॥येन वै श्रीकृष्णनारायणः प्राप्येत कर्मणा ।प्रवृत्तं वा निवृत्तं वा कर्म तत् तप उत्तमम् ॥७६॥अन्यत् सर्वं हि लभ्येत कृष्णः प्राप्येत नैव चेत् ।कृष्णं विना निरयः स लब्धस्तन्न तपो मतम् ॥७७॥कृष्ण कृष्णेति कृष्णेति ग्राह्ये धार्ये तथाऽऽत्मनि ।यदा सञ्जायते त्वैक्यं तदा मोक्षमवाप्नुयात् ॥७८॥कृष्णदास्यं कृष्णभक्तिः परमं तप उच्यते ।अनेकजन्मतपसा संप्राप्य जन्म मानवम् ॥७९॥कृष्णभक्तिर्यदि भवेत् सफलं जन्म मानवम् ।सफलं जीवनं तस्य कुर्वतः कर्मणः फलम् ॥८०॥पितॄणां च सहस्राणि स्वस्य मातुश्च निश्चितम् ।मातामहानां पुंसां च शतानां सोदरस्य च ॥८१॥बान्धवस्यापि पत्न्याश्च गुरूणां शिष्यभृत्ययोः ।तत्कर्म शोभनं पुत्र्यौ यच्च कृष्णे समर्पणम् ॥८२॥तत्तपः शोभनं कर्म कृष्णसन्तोषणं यतः ।तद्व्रतं तत्तपः सत्यं तद्भक्तिः पूजनं तथा ॥८३॥तदुद्देश्यमनशनं यद् भवेद् दास्यद्ं हरेः ।समस्तपृथिवीदानं प्रादक्षिण्यं भुवस्तथा ॥८४॥समस्ततीर्थस्नानं च समस्तं च व्रतं तपः ।समस्तयज्ञकरणं सर्वदानफलं तथा ॥८५॥समस्तवेदवेदांगपठनं पाठनं तथा ।भीतस्य रक्षणं चैव ज्ञानप्रदानमुत्तमम् ॥८६॥अतिथीनां पूजनं च शरणागतरक्षणम् ।सर्वदेवार्चनं चापि वन्दनं जपनं मनोः ॥८७॥भोजनं विप्रदेवानां पुरश्चरणपूर्वकम् ।गुरुशुश्रूषणं चापि पित्रोर्भक्तिश्च पोषणम् ॥८८॥सर्वं श्रीकृष्णदासस्य कलां नार्हन्ति षोडशीम् ।तस्मात् पुत्र्यौ प्रयत्नेन भजते कृष्णमीश्वरम् ॥८९॥शाश्वतं सत्पतिं दिव्यं परमात्मानमेव हि ।नित्यं सत्यं परब्रह्म कृष्णनारायणं पतिम् ॥९०॥परिपूर्णतमं शुद्धं निर्लिप्तं साक्षिणं हरिम् ।भक्तिदं दास्यदं स्वस्य निजसम्पत्पदप्रदम् ॥९१॥भजतं परमानन्दं स्वामिनं कान्तमान्तरम् ।किंवा जलं स्थलं किम्वा नक्तं किम्वा दिनं तथा ॥९२॥व्रतं किम्वा तपः किम्वा किं भोज्यं पेयमेव किम् ।देहः किम्वा मनः किम्वा विस्मृत्य भजतं हरिम् ॥९३॥श्रीकृष्णनारायण कृष्णकृष्ण श्रीकृष्णनारायण कान्तकृष्ण ।श्रीकृष्णनारायणचान्तरात्मन्प्रदेहि दास्यं चरणे प्रियेश ॥९४॥प्रेम्णा नु भक्त्या स्तवनेन पूजयासमर्पणेनापि हृदि स्थितं सुते ।श्रीकृष्णनारायणमान्तरं पतिंसुरक्षकं संभजतं सुखप्रदम् ॥९५॥रमापद्मार्चितं लक्ष्मीसेवितं प्रभयाऽर्चितम् ।माणिकीचुम्बितं कृष्णं चरणं भजतं सुते ॥९६॥सततं शंभुना गीतं पार्वत्या चिन्तितं हृदि ।ध्यातं सनकसद्भिश्च भजतं तत्पदं हरेः ॥९७॥श्रीश्रीकृष्णपादपद्मं स्वप्ने जपति यः सुते ।शतजन्मकृता्त्पापान्मुच्यते नात्र संशयः ॥९८॥तद्व्रतं तत्तपः सत्यं तत्पुण्यं तच्च पूजनम् ।सफलं कृष्णसम्बन्धि स्वजन्मखण्डनं यतः ॥९९॥श्रीकृष्णं तं परित्यज्य किं भवेत् तपसा सुते ।तपसां फलमाप्नोति श्रीकृष्णस्मरणेन वै ॥१००॥यतो भक्तिर्न च भवेच्छ्रीकृष्णे परमात्मनि ।स गुरुः परमो वैरी करोति जन्म निष्फलम् ॥१०१॥ते तथेति परं ज्ञानं लब्धा भक्त्यात्मकं शुभम् ।नत्वा गत्वा सरस्तीरं चान्द्रायणादि चक्रतुः ॥१०२॥षष्ठकालादनं शरत्त्रयं जगाम वै तयोः ।हेमन्ते जलवासिन्यो ग्रीष्मे पञ्चाग्निसाधिके ॥१०३॥निराश्रये च वर्षायां बभूवतुर्हरेः प्रिये ।ध्यायमाने दिवानक्तं जपन्त्यौ श्रीहरिं पतिम् ॥१०४॥ततो वर्षशतं सार्धं निराहारे बभूवतुः ।तावत्कालं शीर्णपर्णाशिन्यौ चापि बभूवतुः ॥१०५॥ततश्चापि जलाहारे यावद्वर्षशतानि षट् ।वायुभक्षे सहस्रं च वर्षाणां तं बभूवतुः ॥१०६॥तत्र नित्यं च तपसि स्थिते सख्यावुभे ह्यपि ।अथ तुष्टः स्वयं कृष्णनारायणो जगत्पतिः ॥१०७॥युवा सुरूपः श्यामश्च गरुडेन समाययौ ।तेजोव्याप्तप्रतिभः स तापस्यौ समुवाच वै ॥१०८॥नेत्रे चोन्मील्य वीक्षेथां वरं दातुं समागतः ।श्रुत्वेति ते बहिर्दृष्टिं कृत्वा लोकयतः प्रभुम् ॥१०९॥सत्पतिं श्रीकृष्णनारायणं कान्तं मनोहरम् ।रूपानुरूपावयवं योग्यं सेव्यपदाम्बुजम् ॥११०॥तपस्त्यक्त्वा पेततुस्तत्पादयोरूचतुः पते ।गृहाण किंकरीद्वन्द्वं देहि दास्यं पतिर्भव ॥१११॥कृष्णं कण्ठे ववल्गाते साश्रुनेत्रेऽतिकर्षिते ।कृष्णश्चुचुम्ब पस्पर्श करेणाऽऽज्ञाय भावनाम् ॥११२॥दिव्यरूपे रमातुल्ये पिधाय च नियाय च ।गरुडे ते निजांके द्वे सक्थ्नोरुपरि स्थापिते ॥११३॥भुजाभ्यां पार्श्वयोर्नीत्वा भर्तृयज्ञस्थलं ययौ ।तयोर्गुरुं वैष्णवं तं नीत्वा गरुडपृष्ठके ॥११४॥चत्वारस्ते गरुडेन ययुर्गोलोकधाम वै ।श्रीकृष्णस्याऽऽगमं ज्ञात्वा ऋषयस्तत्स्थलं ययुः ॥११५॥व्योम्नि यान्तं नमश्चक्रुः पूजयामासुरीश्वरम् ।नागनद्याह्रदः सोऽपि रत्नसरः सुनामतः ॥११६॥तदानीं सुप्रसिद्धं वै जातं स्नानात्प्रमोक्षदम् ।कृष्णदास्यौ तु ते जाते शाश्वतानन्दसेविके ॥११७॥स्वर्गे देवीभिरागत्य प्रार्थिते स्थातुमेव यत् ।देवीनां श्रेयसे स्वर्गे स्थातव्यं चेति वै तदा ॥११८॥श्रीकृष्णेन कृते ते द्वे तारके स्थापितेऽपि च ।छायारूपे मुक्तिदे वै पठनाच्छ्रवणादपि ॥११९॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने चमत्कारपुरीयराजपुत्रीविप्रपुत्र्योर्विवाहकाले सिंहव्याघ्ररूपधर्त्रीत्वं, ततो भर्तृयज्ञाश्रमवासः, ततो दुर्वहं तपः, ततः भर्तृयज्ञेन सह तयोः श्रीकृष्णनारायणप्राप्तिर्गोलोकगमनं चेतिनिरूपणनामा त्रयोदशाधिकपञ्चशततमोऽध्यायः ॥५१३॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP