संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ५०१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५०१ Translation - भाषांतर श्रीनारायण उवाच--शृणु लक्ष्मि! याज्ञवल्क्यऋषेः कथां मनोहराम् ।आसीद् ब्राह्मणशार्दूलः शाकल्य इति विश्रुतः ॥१॥भार्गवाऽन्वयसंभूतो वेदवेदांगपारगः ।वर्धमाने पुरे धर्मारण्ये शिष्यप्रशिष्यवान् ॥२॥सदा विद्यादानदाता योगसिद्ध्यादिशोभितः ।तस्य शिष्योऽभवद्याज्ञवल्क्यः सेवापरायणः ॥३॥शाकल्यश्च वर्धमाननृपतेर्वै पुरोहितः ।पौरोहित्यं करोत्येव सर्वेषु नृपकर्मसु ॥४॥प्रेरयति चाशीर्वादान् दातुं प्रभातके ।याज्ञवल्क्यं श्रेष्ठशिष्यं याज्ञवल्क्योऽपि नित्यदा ॥५॥यात्याशीर्वाददानार्थं प्रातः स्नात्वा मुदान्वितः ।एकदा तु विना स्नानं मलिनाम्बरसंयुतः ॥६॥याज्ञवल्क्यः प्रभाते वै वर्तते च तदा गुरुः ।याज्ञवल्क्यमुवाचेदं गच्छ शीघ्रं नृपं प्रति ॥७॥एवं तं योजयामास शान्त्यर्थं नृपमन्दिरे ।याज्ञवल्क्यो ययौ शान्तिपाठं कृत्वा जपोत्तरम् ॥८॥शान्त्युदकप्रदानाय तं नृपं प्रति संययौ ।पार्थिवोऽपि मुनिं विना स्नानं दृष्ट्वा च शंकितः ॥९॥न जग्राह जलं चाशीर्वचनं चापि तद्दिने ।असत्यं च प्राह राजा नाऽहं स्नातो द्विजोत्तम ॥१०॥मुनिं स्नानविहीनं तु तथ्यं प्रवक्तुमक्षमः ।अत्र शालागते काष्ठे तस्मादेतज्जलं क्षिप ॥११॥याज्ञवल्क्योऽपि विज्ञाय स्वस्याऽस्नातस्य कारणम् ।ज्ञात्वाऽपमानं स्वस्यैव जलं चिक्षेप काष्ठके ॥१२॥तावत् काष्ठं पल्लवितं शाखाफलसमन्वितम् ।तत्क्षणादेव सञ्जातं जलस्पर्शप्रभावतः ॥१३॥राजा चमत्कृतिं दृष्ट्वा पश्चात्तापं विधाय च ।सत्यं प्राह पुनर्वाक्यं मुने स्नातोऽस्मि किन्तु ते ॥१४॥भयात्तवैव मालिन्यं दृष्ट्वा जग्राह नैव तत् ।ततोऽभिषेकं मे विप्र कुरु स्यां पुत्रवान् यथा ॥१५॥याज्ञवल्क्यस्तदा प्राह राजन् शंकापरो भवान् ।ममाऽभिषेकदानस्य त्वमनर्होऽसि साम्प्रतम् ॥१६॥गुरवस्तु सदा शुद्धा भवन्ति ब्राह्मणा नृप ।साधवश्च न वा स्नाताः स्नाता वा श्रीहरेस्तनुः ॥१७॥तत्रापि यदि विद्वांसस्तत्राप्यैश्वर्यशालिनः ।सिद्धा वा ब्राह्मणा देवा देववासाः प्रतापिनः ॥१८॥नारीसंगकृताश्चापि न स्नाता अपि पावनाः ।मन्त्रसिद्धिब्रह्मसिद्धितपःसिद्धिपरास्तु ये ॥१९॥तत्र शुद्धिर्न द्रष्टव्या गुरौ साधौ सुरे हरौ ।पितरि मातरि पत्यौ सत्यां गवि कदाचन ॥२०॥कामः क्रोधस्तथा लोभः पारुष्यं वासना रतिः ।सर्वे दिव्यास्तत्र बोध्याः समर्थे नास्ति दूषणम् ॥२१॥मलिना पृथिवी पादस्पृष्टा तस्य हि पावनी ।रथ्याम्बु गंगया मिश्रं गांगवत्पापनाशकम् ॥२२॥विष्णुप्रसादभोजी वै जीवन्मुक्तो गुरुः स्मृतः ।नित्यं तपस्यानिरतः शुचिः शान्तश्च शास्त्रवित् ॥२३॥सर्वेषामपि तीर्थानां पावनस्तु गुरुर्भवेत् ।सर्वेषामपि वन्द्यानां पिता वन्द्यो गुरुर्मतः ॥२४॥पितुः शतगुणैर्माता मातुः शतगुणैः सुरः ।मन्त्रदस्तन्त्रदश्चैव सुराणां च चतुर्गुणः ॥२५॥गुरुः श्रेष्ठः पापपुञ्जनाशको मोक्षसम्प्रदः ।नारायणश्च भगवान् गुरुरेव मतो भवेत् ॥२६॥प्रत्यक्ष ईश्वरश्चात्र तारको भवति प्रभुः ।उद्देशे दीयते तस्मै सुरायेति श्रुतौ श्रुतम् ॥२७॥प्रत्यक्षभोक्ता स्वगुरुः स्वयं देही जनार्दनः ।गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुरेव स्वयं शिवः ॥२८॥गुरौ च सर्वदेवाद्यास्तिष्ठन्ति सततं मुदा ।गुरौ तुष्टे हरिस्तुष्टो यस्मिँस्तुष्टे च देवताः ॥२९॥वह्निवायुसमः पूतस्तेजसा भास्करोपमः ।विष्णुमन्त्रोपासकश्च गुरुर्वै वैष्णवो द्विजः ॥३०॥तेजस्विनं गुरुं दृष्ट्वा गृह्णीयात् सर्वमेव ह ।मन्त्रं जलं प्रसादं चाशीर्वादं ह्यविशंकितः ॥३१॥ऐकान्तिको गुरुर्देवः पुसां लक्षं समुद्धरेत् ।क्रियाः शुभाऽशुभा यस्य विष्णुपादे समर्पिताः ॥३२॥मन्त्रग्रहणमात्रेण जीवन्मुक्तस्ततो भवेत् ।भित्त्वा ब्रह्माण्डमखिलं प्रापयते हरेः पदम् ॥३३॥राजँस्त्वं वञ्चितश्चाद्य मायया शंकितो मयि ।पुनर्जलं मया नैव दीयते शंकिताय ते ॥३४॥विशेषतश्च स्वार्थाय लाभं दृष्ट्वा प्रयाचते ।दातव्यं नैव ऋषिभिः स्वार्थिने नास्तिकाय च ॥३५॥तस्मान्नेऽभिषेकदानपात्रं नाऽसि पुनर्नृप ।अहं यास्यामि तत्रैव यत्रस्थः स गुरुर्मम ॥३६॥राजा प्राह याज्ञवल्क्यमभिषेकं ददासि चेत् ।तव दास्यामि वस्त्राणि वाहनानि वसूनि च ॥३७॥ऋषिः प्राह स वै मन्त्रो होमान्ते स्फुरते न मे ।तस्माज्जलं पुनस्तादृग् बलवन्नैव जायते ॥३८॥गच्छाम्यहं गृहं राजन् तवेष्टं नाऽद्य संभवेत् ।इत्युक्त्वा स्वगृहं तूर्णं जगाम मुनिसत्तमः ॥३९॥अपरेऽह्नि प्रभाते च शाकल्यः स्वयमेव ह ।आशीर्वादान् प्रदातुं च ययौ भूपं तदा नृपः ॥४०॥प्रणिपत्य मुनिं प्राह ह्यस्त्वया यः प्रप्रेषितः ।शिष्यो भूयः स शान्त्यर्थं प्रेषणीयो मम गृहम् ॥४१॥बाढमित्येव सम्प्रोक्त्वा पूजामादाय वै गुरुः ।याज्ञवल्क्यं समाहूय पुनः प्रोवाच सादरम् ॥४२॥अद्यापि त्वं नरेन्द्रस्य शान्त्यर्थं भवनं व्रज ।विशेषात्पार्थिवेन्द्रेण समाहूतोऽसि पुत्रक ॥४३॥याज्ञवल्क्यस्तदा प्राह राजाऽस्ति नास्तिको द्विजे ।गर्वयुक्तोऽस्ति तस्मात्त्वं गमिष्यामि न वै पुनः ॥४४॥मया तस्याऽभिषेकार्थं सलिलं चोद्यतं यदा ।क्षिप काष्ठे सलिलं तदित्युक्तं वै कुबुद्धिना ॥४५॥मयाऽपि द्राक् जलं क्षिप्तं काष्ठे काष्ठं ततो द्रुतम् ।नवपल्लवितं जातं दृष्ट्वा राजा मुमोह तत् ॥४६॥शाकल्यः प्राह सामर्थ्यं तवाऽऽलोक्य स भूपतिः ।आह्वयति पुनस्त्वां तं गच्छ मानपुरःसरम् ॥४७॥अनुवृत्ता नृपा ग्राह्या नावमान्यास्तदा क्वचित् ।आरोहन्ति शनैर्भृत्या धुन्वन्तमपि पार्थिवम् ॥४८॥समो मानेऽपमाने च चित्तज्ञः कालवित् सदा ।सर्वंसहः क्षमी विज्ञो भवेद्वै राजवल्लभः ॥४९॥ममाऽऽज्ञाऽपि त्वया पाल्या गच्छ पुत्र नृपं प्रति ।याज्ञवल्क्यस्तदा प्राह न यामि नास्तिकं प्रति ॥५०॥चतुर्धा धर्मनाशोऽत्र विद्यते शृणु सद्गुरो ।गन्तुं यस्याऽद्य शिष्यस्य क्रमो वै वर्तते गुरो ॥५१॥तद्भंगः प्रथमो दोषो द्वितीयोऽक्रमदूषणम् ।न गमिष्ये च मद्वाक्यं निषेधात्मकदूषणम् ॥५२॥तृतीयं जायते मेऽत्र नृपेच्छाभंगदूषणम् ।चतुर्थं फलदोषात्म तस्मात् कार्यं न तन्मया ॥५३॥एवं यदि बलान्मां त्वं योजयिष्यसि तं प्रति ।त्वां त्यक्त्वाऽन्यत्र यास्यामि गमिष्यामि न तं प्रति ॥५४॥इत्युक्तः क्रोधमापन्नः शाकल्यः समुवाच तम् ।एकमप्यक्षरं गुरोरवगत्य ततः परम् ॥५५॥दक्षिणां नास्ति पृथ्व्यां यां दत्वा शिष्योऽनृणी भवेत् ।तस्मात्पालय चाज्ञां मे मद्विद्यां वा परित्यज ॥५६॥नो चेद् ददामि शापं ते गच्छाऽन्यत्र यथासुखम् ।इत्युक्तो याज्ञवल्क्यः स विद्याया वमनं तदा ॥५७॥कृत्वोवाच गुरुं नत्वा पश्य विद्यां प्रछर्दिताम् ।एकमप्यक्षरं नास्ति तावकीयं ममोदरे ॥५८॥तस्माच्छिष्योऽस्मि ते नाऽहं न च मे त्वं गुरुः स्थितः ।साम्प्रतं स्वेच्छयाऽन्यत्र प्रयास्यामि नमोऽस्तु ते ॥५९॥एवमुक्त्वा सिद्धिदं वै हाटकेश्वरनामकम् ।क्षेत्रं समाययौ तत्राऽऽराधयामास भास्करम् ॥६०॥नियतो नियताहारो ब्रह्मचर्यपरायणः ।गायत्रीन्यासमासाद्य चचार दुष्करं तपः ॥६१॥सूर्यस्तुष्टो मानवः सन् वर्षान्ते तमुवाच ह ।याज्ञवल्क्य वृणु स्वेष्टं सर्वं दास्यामि ते रविः ॥६२॥याज्ञवल्क्यः प्रणम्यैव वव्रे विद्यां च वैदिकीम् ।तथाऽन्यां मन्त्रतन्त्रीयां ब्रह्मविद्यां तथा पराम् ॥६३॥सूर्यः प्राह लघिमां ते सिद्धिं ददामि वै तथा ।लघुर्भूत्वा ममाऽश्वानां कर्णान्ते विश तिष्ठ च ॥६४॥मत्तोभ्यासं च विद्यानां वैदिकीनां कुरु द्रुतम् ।एवमुक्तः स तेनाऽथ वाजिकर्णं समाश्रितः ॥६५॥वेदानपठत्सूर्यात् स जनकायाऽभ्यपाठयत् ।ब्रह्मविद्यां दत्तवाँश्च भार्याद्वयाय वै ऋषिः ॥६६॥मैत्रेयी प्रथमा ज्येष्ठा कात्यायनी द्वितीयका ।पत्नीद्वयं याज्ञवल्क्यस्याऽऽसीत् कात्यायनः सुतः ॥६७॥कात्यायनं सर्वविद्याः पाठयामास चान्ततः ।एकदा शाण्डिली कात्यायनीं बोधं ददौ शुभम् ॥६८॥नागनद्यास्तटे तेन वैराग्यं समवाप सा ।न स्नाति न च भुंक्ते वा हास्यं न कुरुते सती ॥६९॥केवलं बाष्पपूर्णाक्षी निःश्वसन्ती बभूव ह ।शाण्डिली तां प्रतिदिनं ह्यपदेशं ददाति च ॥७०॥शृणु साध्वि मम तातः शाण्डिल्यो मुनिपुंगवः।तस्यैकाऽहं समुत्पन्ना माधवीनामकन्यका ॥७१॥पितुः करोमि शुश्रूषां होमकाले यथोचिताम् ।नीवारादीनि धान्यानि नित्यं चैवाऽऽनयाम्यहम् ॥७२॥कदाचित्त्वथ कालस्य नारदो मुनिरागतः ।आश्रमे मम तातस्य श्रान्तो मया प्रसेवितः ॥७३॥स्नापितो भोजितः संवाहितो देहेऽतिभावतः ।निविष्टश्चासने मात्रा संपृष्टो विनयात्तदा ॥७४॥एकेयं कन्यकाऽस्माकं वार्धक्ये वर्तते मुने! ।तदस्याः कीर्तय क्षिप्रं भर्तारं सुसुखोदयम् ॥७५॥व्रतं वा नियमं वा त्वं तपो होमं जपं च वा ।मन्त्रं वा येन चीर्णेन भर्ता स्यात् सौम्यसद्गुणी ॥७६॥स्नेहिलश्च प्रसन्नास्यः प्रियवाक् स्वप्रियाप्रियः ।श्रुत्वा श्रीनारदः प्राह गौरीपूजनमुत्तमम् ॥७७॥हाटकेश्वरजे क्षेत्रे गत्वा करोतु ते सुता ।भर्तारं प्राप्स्यति गौर्या आशीर्वादेन ते सुता ॥७८॥तत्र पूर्वं गता गौरी गंगेर्ष्यया शुभस्थलम् ।ततः सा चिन्तयामास कां देवीं पूजयाम्यहम् ॥७९॥सौभाग्यार्थं यतोऽन्या मां पूजयेयुः सदा स्त्रियः ।इति विचार्य सा भक्त्या पुपूजाऽऽत्मानमेव च ॥८०॥स्वीयमूर्तिं मृदा कृत्वा स्थाने चैकत्र चासने ।आत्मप्राणाग्निहोत्रैश्च मन्त्रैराथर्वणैस्तथा ॥८१॥पृथ्वीं जलं तथा तेजो वायुमाकाशमित्यमून् ।मूर्तौ संयुज्य चात्मानं तापसी सा यतव्रता ॥८२॥गौरीं संपूजयामास पुष्पधूपानुलेपनैः ।तन्मन्त्राकृष्टचित्तो वै शंकरः सत्वरं ययौ ॥८३॥वद् देवि तव शक्त्या गौर्याऽऽकृष्टोऽहमागतः ।कथं त्वं कुरुषे चैतत्तव रूपस्य पूजनम् ॥८४॥आकर्षयति मां गौरी प्रसह्य तव सन्निधौ ।तस्मादागच्छ कैलासं ब्रूहि दोषोऽस्ति चेन्मयि ॥८५॥पार्वती प्राह मूर्ध्ना त्वं धत्से गंगां सपत्निकाम् ।तस्मान्नाहं गमिष्यामि यावन्न त्यजसि प्रियाम् ॥८६॥शंभुः प्राह नृपो भागीरथस्तप्त्वाऽतिदारुणम् ।तपो मां प्रार्थयामास गंगाया धारणाय वै ॥८७॥आकाशाज्जाह्नवीवेगं पतन्तं धरणीतले ।गमिष्यन्तं च पातालं विज्ञाय मां न्ययोजयत् ॥८८॥अत्रैव गंगास्थित्यर्थं ततश्चैवं धृता मया ।सा मन्मूर्ध्ना शनैर्हिमालयं लब्ध्वा शुभाऽऽलयम् ॥८९॥भारते पावनार्थं वै देहिनां यास्यति ध्रुवम् ।एनां जलस्वरूपां च कृत्वा पित्रे ददामि ते ॥९०॥आगच्छ मे प्रिये कान्ते सौभाग्यं सर्वदाऽस्तु ते ।सापत्न्यं नैव बोद्धव्यं सा नास्ति मे विवाहिता ॥९१॥नापि पत्नी न वा दासी नान्या भार्यात्मिकापि च ।आश्रिताऽस्ति सती तस्मादागच्छ गृहमेव मे ॥९२॥एवमुक्त्वा महादेवो वृषमारोप्यतां शिवाम् ।स्वयमारुह्य पश्चाच्च ययौ कैलासपर्वतम् ॥९३॥तां गौरीं तव पुत्रीयं समाराधयतु द्रुतम् ।प्रीतिकरं यथेष्टं च ततः प्राप्स्यति सत्पतिम् ॥९४॥इत्युक्त्वा नारदः सत्यं लोकं ययौ ततः परम् ।मया कुमार्या च भक्त्या गौरी प्रपूजिता व्रते ॥९५॥मार्गशुक्लतृतीयायां नैवेद्यगन्धलेपनैः ।तत्प्रभावादयं प्राप्तो जैमिनिर्ब्राह्मणः पतिः ॥९६॥तस्मात्त्वमपि कल्याणि पूजयैनां समाहिता ।संप्राप्स्यसि सुसौभाग्यं मैत्रेय्या सदृशं शुभे ॥९७॥श्रुत्वा कात्यायनी सर्वं शाण्डिल्या यत्प्रकीर्तितम् ।चकार मार्गतृतीयाव्रतं गौरीप्रपूजनम् ॥९८॥ततोऽस्याः पतिरागत्य गृहीत्वा दक्षिणे करे ।नियाय स्वगृहं तां वै बहुमानपुरःसरम् ॥९९॥ततः परं तया सार्धं वर्तते हर्षितः सदा ।मैत्रेय्या सदृशो यद्वत् ततोऽपि च विशेषतः ॥१००॥कात्यायनी सुपुत्रं सुषुवे कात्यायनं परम् ।कात्यायनसुतो वररुचिर्जातो गुणालयः ॥१०१॥कात्यायनस्य सामर्थ्यं शृणु लक्ष्मि! वदामि ते ।पुरा पृथ्व्याः समुद्भूतं किञ्चित्प्राणिमयं चरम् ॥१०२॥अपूर्वं चान्धकमुग्रं कृष्णदन्तं भयानकम् ।शंकुकर्णं कृशास्यं च ऊर्ध्वकेशं बुभुक्षितम् ॥१०३॥नृपेण बलिना मन्त्रैराकृष्टं बलवन्महत् ।अथ देवान् भक्षितुं तत् प्रदुद्राव पुनः पुनः ॥१०४॥बलिना सम्परित्यक्तं देवैस्तत् ताडितं मुहुः ।तथापि न क्षतिं प्राप पातितं धरणिस्थले ॥१०५॥उपविष्टास्ततस्तस्य देवा भूत्वा समन्ततः ।तस्योदरे गतो ब्रह्मा शक्राद्यः पार्श्वतः स्थिताः ॥१०६॥तावच्छुक्रेण सन्दिष्टा दैत्या हन्तुं सुराँस्तदा ।आययुः पक्षमादाय तावद्विष्णुः स्वयं प्रभुः ॥१०७॥प्राह भूतं शृणु भूत त्वदर्थं देवदैत्ययोः ।संग्रामोऽत्र भवेत् तद्वै नैष शोभन एव ह ॥१०८॥देवा दैत्यास्त्वयि भूते तिष्ठन्तु मित्रवद् यथा ।तव पूजां करोम्येवं वास्तुनामा भवान्मतः ॥१०९।तत्र ते भोजनं चार्पयामि गृहाण भावतः ।ततस्तेन प्रतिज्ञातमविकल्पेन चेतसा ॥११०।उक्तं च यो न मे पूजां करिष्यति नवे स्थले ।कथंचिन्मानवः कश्चिद् भक्ष्यः स मे भविष्यति ॥१११॥बाढमित्येवमुक्ते च विश्वकर्माऽकरोद् विधिम् ।कात्यायनो गृहं चक्रे वास्तुं चाऽपूजयत्तदा ॥११२॥वास्तुपूजां च सकलां कात्यायनश्चकार ह ।हाटकेश्वरजे क्षेत्रे ततः पूजा प्रवर्तिता ॥११३॥तथा न प्राप्नुयाद् दोषं गृहजातं कथंचन ।शिलोत्थं कुपदोत्थं च कुवास्तुजमथापि वा ॥११४॥वैशाखस्य तृतीयायां वास्तोः पूजाऽभवत्पुरा ।तदा पूजाप्रकर्तुश्च गृहं राज्यसमं भवेत् ॥११५॥इति ते कथितं लक्ष्मि! त्वाख्यानं चोत्तमोत्तमम् ।भुक्तिमुक्तिसुसौभाग्यपतिपुत्रादिदायकम् ॥११६॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने शण्डिल्यशिष्यस्य याज्ञवल्क्यस्य शुष्ककाष्ठेपल्लवीकरणता विद्याप्रच्छर्दनं याज्ञवल्क्यस्य तत्पुत्रकात्यायनस्य च चमत्काराः, वास्तुपुरुषाऽर्चनादि चेतिनिरूपणनामैकाऽधिकपञ्चशततमोऽध्यायः ॥५०१॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP