पातालखण्डः - अध्यायः ८१
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
ऋषय ऊचु-
सूत जीव चिरं साधो श्रीकृष्णचरितामृतम्
त्वया प्रकाशितं सर्वं भक्तानां भवतारणम् ॥१॥
श्रीकृष्णलीलां निखिलां ब्रूहि दैनंदिनीं प्रभो
ययाकर्णितया साधो कृष्णे भक्तिर्विवर्द्धते ॥२॥
गुरोः शिष्यस्य मंत्रस्य विधानं लक्षणं पृथक्
वदास्माकं महाभाग त्वं हि नः परमः सुहृत् ॥३॥
सूत उवाच-
एकदा यमुनातीरे समासीनं जगद्गुरुम्
नारदः प्रणिपत्याह देवदेवं सदाशिवम् ॥४॥
नारद उवाच-
देवदेव महादेव सर्वज्ञ जगदीश्वर
भगवद्धर्मतत्त्वज्ञ कृष्णमंत्रविदां वर ॥५॥
कृष्णमंत्रा मया लब्धास्त्वत्तो ये च पितुः परे
ते सर्वे साधितास्तत्वान्मंत्रराजादयो मया ॥६॥
बहुवर्षसहस्रैस्तु शाकमूलफलाशिना
शुष्कपर्णांबुवाय्वादि भोजिना च निराशिना ॥७॥
स्त्रीणां संदर्शनालापवर्जिना भूमिशायिना
कामादिषड्गुणं जित्वा बाह्येंद्रियनियम्यता ॥८॥
एवंकृतेऽपि नैवात्मा संतुष्टो मम शंकर
तद्ब्रूहि यत्प्रसिध्येत संस्काराद्यैर्विना प्रभो ॥९॥
सकृदुच्चारणादेव ददाति फलमुत्तमम्
यदि योग्योऽस्मि देवेश तदा मे कृपया वद ॥१०॥
शिव उवाच-
साधु पृष्टं महाभाग त्वया लोकहितैषिणा
सुगोप्यमपि वक्ष्यामि मंत्रचिंतामणिं तव ॥११॥
रहस्यानां रहस्यं यद्गुह्यानां गुह्यमुत्तमम्
न मया कथितं देव्यै नाग्रजेभ्यः पुरा तव ॥१२॥
वक्ष्यामि युगलं तुभ्यं कृष्णमंत्रमनुत्तमम्
मंत्रचिंतामणिर्नाम युगलं द्वयमेव च ॥१३॥
पर्याया अस्य मंत्रस्य तथा पंचपदीति च
गोपीजनपदं वल्लभां तं तु चरणानिति ॥१४॥
शरणं च प्रपद्ये च एष पंचपदात्मकः
मंत्रचिंतामणिः प्रोक्तः षोडशार्णो महामनुः ॥१५॥
नमो गोपीजनेत्युक्त्वा वल्लभाभ्यां वदेत्ततः
पदद्वयात्मको मंत्रो दशार्णः खलु कथ्यते ॥१६॥
एतां पंचपदीं जप्त्वा श्रद्धयाश्रद्धया सकृत्
कृष्णप्रियाणां सान्निध्यं गच्छत्येव न संशयः ॥१७॥
न पुरश्चरणप्रेक्षा नास्य न्यासविधिक्रमः
न देशकालनियमो नारिमित्रादिशोधनम् ॥१८॥
सर्वेऽधिकारिणश्चात्र चंडालांता मुनीश्वर
स्त्रियः शूद्रादयश्चापि जडमूकादि पंगवः ॥१९॥
अन्ये हूणाः किराताश्च पुलिंदाः पुष्कसास्तथा
आभीराय वनाः कंकाः खसाद्याः पापयोनयः ॥२०॥
दंभाहंकारपरमाः पापाः पैशुन्यतत्पराः
गोब्राह्मणादि हंतारो महोपपातकान्विताः ॥२१॥
ज्ञानवैराग्यरहिताः श्रवणादिविवर्जिताः
एते चान्ये च सर्वे स्युर्मनोरस्याधिकारिणः ॥२२॥
यदि भक्तिर्भवेदेषां कृष्णे सर्वेश्वरेश्वरे
तदाधिकारिणः सर्वे नान्यथा मुनिसत्तम ॥२३॥
याज्ञिको दाननिरतः सर्वतंत्रोपसेवकः
सत्यवादी यतिर्वापि वेदवेदांगपारगः ॥२४॥
ब्रह्मनिष्ठः कुलीनो वा तपस्वी व्रततत्परः
अत्राधिकारी न भवेत्कृष्णभक्तिविवर्जितः ॥२५॥
तस्मादकृष्णभक्ताय कृतघ्नाय न मानिने
न च श्रद्धाविहीनाय वक्तव्यं नास्तिकाय च ॥२६॥
न चाशुश्रूषवे वाच्यं नासंवत्सरसेविने
श्रीकृष्णेऽनन्यभक्ताय दंभलोभविवर्जिने ॥२७॥
कामक्रोधविमुक्ताय देयमेतत्प्रयत्नतः
ऋषिश्चैवाहमेतस्य गायत्रीछंद उच्यते ॥२८॥
देवता बल्लवीकांतो मंत्रस्य परिकीर्तितः
सप्रियस्य हरेर्दास्ये विनियोग उदाहृतः ॥२९॥
आचक्राद्यैस्तथा मंत्रैः पंचांगानि प्रकल्पयेत्
अथवापि स्वबीजेन करांगन्यासकौ चरेत् ॥३०॥
मंत्रस्य प्रथमो वर्णो बिंदुना मूर्ध्निभूषितः
गमित्येवं भवेद्बीजं नमः शक्तिरिहोदिता ॥३१॥
अंतिमार्णैर्दशांगानि तैरेव च तथार्चनम्
गंधपुष्पादिभिस्तच्च जलैरेवाप्यसंभवे ॥३२॥
न्यासपूर्वविधानेन कर्तव्यं हरितुष्टये
अतएवास्य मंत्रस्य न्यासाद्यन्ये वदंति च ॥३३॥
सकृदुच्चारणादेव कृतकृत्यत्वदायिनः
तथापि दशधा नित्यं जपाद्यर्थं प्रविन्यसेत् ॥३४॥
अथ ध्यानं प्रवक्ष्यामि मंत्रस्यास्य द्विजोत्तम
पीतांबरं घनश्यामं द्विभुजं वनमालिनम् ॥३५॥
बर्हिबर्हकृतोत्तंसं शशिकोटिनिभाननम्
घूर्णायमाननयनं कर्णिकारावतंसिनम् ॥३६॥
अभितश्चंदनेनाथ मध्ये कुंकुमबिंदुना
रचितं तिलकं भाले बिभ्रतं मंडलाकृतिम् ॥३७॥
तरुणादित्यसंकाशं कुंडलाभ्यां विराजितम्
घर्माम्बुकणिकाराजद्दर्पणाभकपोलकम् ॥३८॥
प्रियास्य न्यस्तनयनं लीलापांगोन्नतभ्रुवम्
अग्रभागन्यस्तमुक्ता विस्फुरत्प्रोच्चनासिकम् ॥३९॥
दशनज्योत्स्नया राजत्पक्वबिंबफलाधरम्
केयूरांगदसद्रत्नमुद्रिकाभिर्लसत्करम् ॥४०॥
बिभ्रतं मुरलद्यं वामे पाणौ पद्मं तथैव च
कांचीदामस्फुरन्मध्यं नूपुराभ्यां लसत्पदम् ॥४१॥
रतिकेलिरसावेश चपलं चपलेक्षणम्
हसंतं प्रियया सार्द्धं हासयंतं च तां मुहुः ॥४२॥
इत्थं कल्पतरोर्मूले रत्नसिंहासनोपरि
वृंदारण्ये स्मरेत्कृष्णं संस्थितं प्रियया सह ॥४३॥
वामपार्श्वे स्थितां तस्य राधिकां च स्मरेत्ततः
नीलचोलकसंवीतां तप्तहेमसमप्रभाम् ॥४४॥
पट्टांचलेनावृतार्द्ध सुस्मेराननपंकजाम्
कांतवक्त्रे न्यस्तनेत्रां चकोरी चंचलेक्षणाम् ॥४५॥
अंगुष्ठतर्जनीभ्यां च निजकांतमुखांबुजे
अर्पयंतीं पूगफलं पर्णचूर्णसमन्वितम् ॥४६॥
मुक्ताहारस्फुरच्चारु पीनोन्नतपयोधराम्
क्षीणमध्यां पृथुश्रोणीं किंकिणीजालमंडिताम् ॥४७॥
रत्नताटंककेयूरमुद्रा वलयधारिणीम्
रणत्कटकमंजीर रत्नपादांगुलीयकाम् ॥४८॥
लावण्यसारमुग्धांगीं सर्वावयवसुंदरीम्
आनंदरससंमग्नां प्रसन्नां नवयौवनाम् ॥४९॥
सख्यश्च तस्या विप्रेंद्र तत्समानवयोगुणाः
तत्सेवनपराभाव्याश्चामरव्यजनादिभिः ॥५०॥
अथ तुभ्यं प्रवक्ष्यामि मंत्रार्थं शृणु नारद
बहिरंगैः प्रपंचस्य स्वांशैर्मायादि शक्तिभिः ॥५१॥
अंतरंगैस्तथा नित्यविभूतैस्तैश्चिदादिभिः
गोपनादुच्यते गोपी राधिका कृष्णवल्लभा
देवी कृष्णमयी प्रोक्ता राधिका परदेवता ॥५२॥
सर्वलक्ष्मीस्वरूपा सा कृष्णाह्लादस्वरूपिणी
ततः सा प्रोच्यते विप्र ह्लादिनीति मनीषिभिः ॥५३॥
तत्कलाकोटिकोट्यंश दुर्गाद्यास्त्रिगुणात्मिकाः
सा तु साक्षान्महालक्ष्मीः कृष्णो नारायणः प्रभुः ॥५४॥
नैतयोर्विद्यते भेदः स्वल्पोऽपि मुनिसत्तम
इयं दुर्गा हरी रुद्रः कृष्णः शक्र इयं शची ॥५५॥
सावित्रीयं हरिर्ब्रह्मा धूमोर्णासौ यमो हरिः
बहुना किं मुनिश्रेष्ठ विना ताभ्यां न किंचन ॥५६॥
चिदचिल्लक्षणं सर्वं राधाकृष्णमयं जगत्
इत्थं सर्वं तयोरेव विभूतिं विद्धि नारद ॥५७॥
न शक्यते मया वक्तुं वर्षकोटिशतैरपि
त्रैलोक्ये पृथिवी मान्या जंबूद्वीपं ततोवरम् ॥५८॥
तत्रापि भारतं वर्षं तत्रापि मथुरापुरी
तत्र वृंदावनं नाम तत्र गोपीकदंबकम् ॥५९॥
तत्र राधासखीवर्गस्तत्रापि राधिका वरा
सांनिध्याधिक्यतस्तस्या आधिक्यं स्याद्यथोत्तरम् ॥६०॥
पृथिवी प्रभृतीनां तु नान्यत्किंचिदिहोदितम्
सैषा हि राधिका गोपी जनस्तस्याः सखीगणः ॥६१॥
तस्याः सखीसमूहस्य वल्लभौ प्राणनायकौ
राधाकृष्णौ तयोः पादाः शरणं स्यादिहाश्रये ॥६२॥
प्रपद्ये गतवानस्मि जीवोऽहं भृशदुःखितः
सोऽहं यः शरणं प्राप्तो मम तस्य यदस्ति च ॥६३॥
सर्वं ताभ्यां तदर्थं हि तद्भोग्यं न ह्यहं मम
इत्यसौ कथितो विप्र मंत्रस्यार्थः समासतः ॥६४॥
युगलार्थस्तथा न्यासः प्रपत्तिः शरणागतिः
आत्मार्पणमिमे पंच पर्यायास्ते मयोदिताः ॥६५॥
अयमेव चिंतनीयो दिवानक्तमतंद्रितैः ॥६६॥
इति श्रीपद्मपुराणे पातालखंडे वृंदावनमाहात्म्ये
एकाशीतितमोऽध्यायः ॥८१॥
N/A
References : N/A
Last Updated : November 06, 2020
TOP