पातालखण्डः - अध्यायः ४४
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
शेष उवाच
आगत्य सविधे रुद्रं समरांगणमूर्धनि
जगाद हनुमान्वीरः संजिहीर्षुः सुराधिपम् ॥१॥
हनूमानुवाच
त्वं यदाचरसे रुद्र धर्मस्य प्रतिकूलनम्
तस्मात्त्वां शास्तुमिच्छामि रामभक्तवधोद्यतम् ॥२॥
मया पुरा श्रुतं देव ऋषिभिर्बहुधोदितम्
रघुनाथपदस्मारी नित्यं रुद्रः पिनाकभृत् ॥३॥
तत्सर्वं तु मृषा जातं शत्रुघ्नं प्रति युध्यतः
पुष्कलो मे हतः शूरः शत्रुघ्नोऽपि विमूर्च्छितः ॥४॥
तस्मात्त्वां पातयाम्यद्य त्रैलोक्यप्रलयोद्यतम्
यत्नात्तिष्ठस्व भोः शर्व रामभक्तिपराङ्मुखः ॥५॥
शेष उवाच
इत्युक्तवंतं प्लवगं प्रोवाच स महेश्वरः
धन्योऽसि वीरवर्यस्त्वं भवान्वदति नो मृषा ॥६॥
मत्स्वामी रामचंद्रोऽयं सुरासुरनमस्कृतः
तदश्वमानयामास शत्रुघ्नः परवीरहा ॥७॥
तद्रक्षार्थं समायातस्तद्भक्त्या तु वशीकृतः
यथाकथंचिद्भक्तोऽसौ रक्ष्यः स्वात्मा इति स्थितिः ॥८॥
रघुनाथः कृपां कृत्वा विलोकय तु निस्त्रपम्
मां स्वभक्त सुदुःखेन किंचित्कोपं दधन्महान् ॥९॥
शेष उवाच
एवं वदति चंडीशे हनूमान्कुपितो भृशम्
शिलामादाय महतीं ताडयामास तद्रथम् ॥१०॥
शिलया ताडितस्तस्य रथः शकलतां गतः
ससूतः सहयः केतुपताकाभिः समन्वितः ॥११॥
नभःस्था देवताः सर्वाः प्रशशंसुः कपीश्वरम्
धन्योसि प्लवगाधीश महत्कर्म त्वया कृतम् ॥१२॥
श्रीशिवं विरथं दृष्ट्वा नंदी तं समुपाद्रवत्
उवाच श्रीमहादेवं मत्पृष्ठं गम्यतामिति ॥१३॥
वृषस्थितं तु भूतेशं हनूमान्कुपितो भृशम्
शिलामुत्पाट्य तरसा प्राहनद्धृदये तदा ॥१४॥
तदाहतो भूतपतिः शूलं तीक्ष्णं समाददे
जाज्वल्यमानं त्रिशिखं वह्निज्वालासमप्रभम् ॥१५॥
आयातं तन्महद्दृष्ट्वा शूलं प्रज्वलनप्रभम्
हस्ते गृहीत्वा तरसा बभंज तिलशः क्षणात् ॥१६॥
भग्ने त्रिशूले तरसा कपीन्द्रेण क्षणाच्छिवः
शक्तिं करे समाधत्त सर्वलोहविनिर्मिताम् ॥१७॥
सा शक्तिः शिवनिर्मुक्ता हृदये तस्य धीमतः
लग्ना क्षणादभूत्तत्र विक्लवः प्लवगाधिपः ॥१८॥
क्षणाच्च तद्व्यथां तीर्त्वा गृहीत्वा वृक्षमुल्बणम्
ताडयामास हृदये महाव्यालविभूषिते ॥१९॥
ताडितास्तेन वीरेण फणीन्द्रास्त्रा समागताः
इतस्ततस्ते तं मुक्त्वा गताः पातालमुज्जवाः ॥२०॥
शिवस्तस्मिन्नगे मुक्ते वक्षसि स्वे निरीक्ष्य च
कुपितो व्यदधाद्घोरं मुसलं करयुग्मके ॥२१॥
हतोसि गच्छ संग्रामात्पलाय्य प्लवगाधम
एष ते प्राणहंताहं मुसलेन क्षणादिह ॥२२॥
मुसलं वीक्ष्य निर्मुक्तं शिवेन कुपितेन वै
कीशस्तद्वंचयामास महावेगाद्धरिं स्मरन् ॥२३॥
मुसलं तत्पपाताधः शिवमुक्तं महायसम्
विदार्य पृथिवीं सर्वां जगाम च रसातलम् ॥२४॥
तदा प्रकुपितोऽत्यतं हनूमान्रामसेवकः
गृहीत्वा पर्वतं हस्ते ताडयामास वक्षसि ॥२५॥
स यावत्पर्वतं छेत्तुं मतिं चक्रे सतीपतिः
तावद्धतः कपींद्रेण शालेन बहुशाखिना ॥२६॥
तमपिच्छेत्तुमुद्युक्तो यावत्तावच्छिलाहतः
शिलास्ता भेदितुं स्वांतं चकार मृड उद्यतः ॥२७॥
तावद्वृष्टिं चकारायं शिलाभिर्नगपर्वतैः
लांगूलेन च संवेष्ट्य ताडयत्येष भूतपम् ॥२८॥
शिलाभिः पर्वतैर्वृक्षैः पुच्छास्फोटेन भूरिशः
नंदी प्राप्तो महात्रासं चंद्रोऽपि शकलीकृतः ॥२९॥
अत्यंतं विह्वलो जातो महेशानः प्रकोपनः
क्षणेक्षणे प्रहारेण विह्वलं कुर्वतं भृशम् ॥३०
जगाद प्लवगाधीशं धन्योसि रघुपानुग
महत्कर्म कृतं तेऽद्य यत्तेहं सुप्रतोषितः ॥३१॥
न दानेन न यज्ञेन नाल्पेन तपसा ह्यहम्
सुलभोऽस्मि महावेग तस्मात्प्रार्थय मे वरम् ॥३२॥
शेष उवाच
एवं ब्रुवंतं तं दृष्ट्वा हनूमान्निजगाद तम्
प्रहसन्निर्भिया वाण्या महेशानं सुतोषितम् ॥३३॥
हनूमानुवाच
रघुनाथप्रसादेन सर्वं मेऽस्ति महेश्वर
तथापि याचे हि वरं त्वत्तः समरतोषितात् ॥३४॥
एष पुष्कलसंज्ञो नः समरे पतितो हतः
तथैव रामावरजः शत्रुघ्नो मूर्च्छितो रणे ॥३५॥
अन्ये च वीरा बहवः पतिताः शरविक्षताः
मूर्च्छिताः पतिताः केचित्तान्रक्षस्व गणैः सह ॥३६॥
यथा चैतान्महाभूता वेतालाश्च पिशाचकाः
न हरंति न खादंति श्वशृगालादयस्तथा ॥३७॥
एतेषां वपुषो भेदो न भवेत्त्वं तथाचर
यावदिंद्रगणं जित्वा न यामि द्रोणपर्वतम् ॥३८॥
तत्रस्था औषधीर्वापि नीत्वा संस्थापितान्भटान्
जीवयामि बलात्सर्वांस्तावत्त्वं रक्ष सर्वशः ॥३९॥
एष गच्छामि तं नेतुं द्रोणं पर्वतसत्तमम्
यस्मिन्वसंत्योषधयः प्राणिसंजीवनंकराः ॥४०॥
एतद्वचः समाकर्ण्य तथेति निजगाद तम्
याहि शीघ्रं नगं तं तु रक्षामि त्वद्भटान्मृतान् ॥४१॥
तच्छ्रुत्वा वाक्यमीशस्य जगाम द्रोणपर्वतम्
द्वीपान्सर्वानतिक्रम्य जगाम क्षीरसागरम् ॥४२॥
अत्र तु स्वगणैश्चायं रक्षति स्म शिवो महान्
श्मशानं तद्गणैः स्वीयैर्महाबलपराक्रमैः ॥४३॥
हनूमान्द्रोणमासाद्य द्रोणंनाम महागिरिम्
लांगूले तं निधायाशु प्रतस्थे रणमंडलम् ॥४४॥
तं नेतुमुद्यते विप्र चकंपे स च पर्वतः
कंपमानं तु तं दृष्ट्वा तत्पाला देवतागणाः ॥४५॥
हाहेति कृत्वा प्रोचुस्ते किमिदं भविता गिरौ
को ह्येनं नयते वीरो महाबलपराक्रमः ॥४६॥
एवं कृत्वा सुराः सर्वे संहता ददृशुः कपिम्
मुंचैनमिति तं प्रोच्य जघ्नुः शस्त्रास्त्रकोटिभिः ॥४७॥
तान्सर्वान्निघ्नतो दृष्ट्वा हनूमान्कुपितो भृशम्
जघान तान्क्षणाद्वीरः शक्रः सर्वासुरान्यथा ॥४८॥
केचित्पदाहतास्तत्र केचित्करविमर्दिताः
लांगूलेन हताः केचित्केचिच्छृंगेण चाहताः ॥४९॥
सर्वे ते नाशमापन्नाः क्षणात्कीशेन ताडिताः
केचिन्निपतिता भूमौ रुधिरेण परिप्लुताः ॥५०॥
केचित्कीशभयात्त्रस्ता जग्मुः शक्रं सुराधिपम्
क्षतेन च परिप्लुष्टा रुधिरक्षतदेहिनः ॥५१॥
तान्दृष्ट्वा भयसंविग्नान्रुधिरेण परिप्लुतान्
सुराञ्जगाद विमनाः शक्रः सर्वसुरोत्तमः ॥५२॥
कथं यूयं भयत्रस्ताः कथं रुधिरविप्लुताः
केन दैत्येन निहता राक्षसेनाधमेन वा ॥५३॥
सर्वं शंसत मे तथ्यं यथा ज्ञात्वा व्रजामि तम्
निहत्य बद्ध्वा चायामि युष्मद्घातकमुन्मदम् ॥५४॥
इति वाक्यं समाकर्ण्य तुरासाहं सुरोत्तमाः
जगदुर्दीनया वाचा सुरासुरनमस्कृतम् ॥५५॥
देवा ऊचुः
इहागत्य न जानीमः कश्चिद्वानररूपधृक्
नेतुं द्रोणं समुद्युक्तो लांगूले वेष्ट्य तं गिरिम् ॥५६॥
गंतुं कृतमतिस्तावद्वयं सर्वे सुसंहताः
युद्धं चक्रुः सुसंनद्धाः सर्वशस्त्रास्त्रवर्षिणः ॥५७॥
तेन सर्वे वयं युद्धे निर्जिता बलशालिना
अनेके निहतास्तत्र भूमौ पेतुः सुरोत्तमाः ॥५८॥
वयं तु बहुभिः पुण्यैर्जीविता इह चागताः
शोणितेन सुसिक्तांगाः क्षतपीडासमन्विताः ॥५९॥
एतद्वाक्यं समाकर्ण्य सुराणां स पुरंदरः
आदिदेश सुरान्सर्वान्महाबलसमन्वितान् ॥६०॥
यात महाद्रोणगिरिं कपिं बद्धुं महाबलम्
बद्ध्वा नयत यूयं वै सुराणां रणपातकम् ॥६१॥
इत्याज्ञप्ता ययुस्ते वै द्रोणं पर्वतसत्तमम्
यत्रास्ते बलवान्वीरो हनूमान्कपिसत्तमः ॥६२॥
गत्वा ते प्राहरन्सर्वे हनूमंतं महाबलम्
हनूमता ते निहता मुष्टिभिः करताडनैः ॥६३॥
पतितास्ते क्षणात्तत्र रुधिरक्षतविग्रहाः
अन्ये पलायनपरा जग्मुस्ते त्रिदिवेश्वरम् ॥६४॥
तच्छ्रुत्वा कुपितः शक्रः सर्वानमरसत्तमान्
आदिदेश महावीरं वानरेंद्रं सुरोत्तमः ॥६५॥
तदाज्ञप्ता ययुस्ते वै यत्र कीशेश्वरो बली
तान्सर्वानागतान्दृष्ट्वा जगाद कपिसत्तमः ॥६६॥
मायां तु वीराः समरे संहर्तारं हि मां बलात्
नेष्यामि युष्मानधुना संयमिन्याः पुरोंऽतिके ॥६७॥
इत्युक्ता अपि ते सर्वे सन्नद्धाः प्राहरन्कपिम्
शस्त्रास्त्रैर्बहुधा मुक्तैर्महाबलसमन्विताः ॥६८॥
केचिच्छूलैः परशुभिः केचित्खड्गैश्च पट्टिशैः
मुसलैः शक्तिभिः केचित्क्रोधेन कलुषीकृताः ॥६९॥
स आहतोऽमरवरैर्विविधैरायुधैर्बली
शिलाभिस्ताञ्जघानाशु सर्वानमरसत्तमान् ॥७०॥
केचित्पलाय्य आहुस्ते गताः शक्रसमीपकम्
तदुक्तं वाक्यमाकर्ण्य भयं प्राप सुराधिपः ॥७१॥
बृहस्पतिं सुराध्यक्षं मंत्रिणं स्वर्गवासिनाम्
पप्रच्छ सविधे गत्वा नत्वा सुरगुरुं वरम् ॥७२॥
इंद्र उवाच
कोऽसौ यो वानरो द्रोणं नेतुं स्वामिन्समागतः
येन मे निहता वीरा अमराः शस्त्रधारिणः ॥७३॥
शेष उवाच
एतच्छ्रुत्वा तु तद्वाक्यमुक्तमांगिरसो महान्
जगाद भयसंविग्नं तुरासाहं सुराधिपम् ॥७४॥
बृहस्पतिरुवाच
यो रावणमहन्संख्ये कुंभकर्णमदीदहत्
येन ते वैरिणः सर्वे हतास्तस्यैव सेवकः ॥७५॥
येन लंका सत्रिकूटा निर्दग्धा पुच्छवह्निना
अक्षश्च निहतो येन हनूमंतमवेहि तम् ॥७६॥
तेन सर्वे विनिहता द्रोणार्थमयमुद्यतः
हयमेधं महाराजः करोति बलिसत्तमः ॥७७॥
तस्याश्वं शिवभक्तस्तु नृपो वीरमणिर्महान्
जहार तत्र समभूद्रणं सुरविमोहनम् ॥७८॥
शिवेन निहताः संख्ये वीरा रामस्य भूरिशः
तान्वै जीवयितुं द्रोणं नेष्यत्येव महाबलः ॥७९॥
नायं वर्षशतैर्जेयो भवता बलसंयुतः
तस्मात्प्रसादय कपिं देहि तत्रत्यमौषधम् ॥८०॥
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे द्रोणगिरौ
देवानां पराजयोनाम चतुश्चत्वारिंशत्तमोऽध्यायः ॥४४ ॥
N/A
References : N/A
Last Updated : November 05, 2020
TOP