पातालखण्डः - अध्यायः ५
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
शेष उवाच
अथाभिषिक्तं रामं तु तुष्टुवुः प्रणताः सुराः
रावणाभिधदैत्येंद्र वधहर्षितमानसाः ॥१॥
देवा ऊचुः
जय दाशरथे सुरार्तिहञ्जयजय दानववंशदाहक
जय देववरांगनागणग्रहणव्यग्रकरारिदारक ॥२॥
तवयद्दनुजेंद्र नाशनं कवयो वर्णयितुं समुत्सुकाः
प्रलये जगतांततीः पुनर्ग्रससे त्वं भुवनेशलीलया ॥३॥
जय जन्मजरादिदुःखकैः परिमुक्तप्रबलोद्धरोद्धर
जय धर्मकरान्वयांबुधौ कृतजन्मन्नजरामराच्युत ॥४॥
तव देववरस्य नामभिर्बहुपापा अपि ते पवित्रिताः
किमु साधुद्विजवर्यपूर्वकाः सुतनुं मानुषतामुपागताः ॥५॥
हरविरिंचिनुतं तव पादयोर्युगलमीप्सितकामसमृद्धिदम्
हृदि पवित्रयवादिकचिह्नितैः सुरचितं मनसा स्पृहयामहे ॥६॥
यदि भवान्न दधात्यभयं भुवो मदनमूर्ति तिरस्करकांतिभृत्
सुरगणा हि कथं सुखिनः पुनर्ननुभवंति घृणामय पावन ॥७॥
यदा यदास्मान्दनुजाहि दुःखदास्तदा तदा त्वं भुवि जन्मभाग्भवेः
अजोऽव्ययोऽपीशवरोऽपि सन्विभो स्वभावमास्थाय निजं निजार्चितः ॥८॥
मृतसुधासदृशैरघनाशनैः सुचरितैरवकीर्य महीतलम्
अमनुजैर्गुणशंसिभिरीडितः प्रविश चाशु पुनर्हि स्वकं पदम् ॥९॥
अनादिराद्योजररूपधारी हारी किरीटी मकरध्वजाभः
जयं करोतु प्रसभं हतारिः स्मरारि संसेवितपादपद्मः ॥१०॥
इत्युक्त्वा ते सुराः सर्वे ब्रह्मेंद्रप्रमुखा मुहुः
प्रणेमुररिनाशेन प्रीणिता रघुनायकम् ॥११॥
इति स्तुत्यातिसंहृष्टो रघुनाथो महायशाः
प्रोवाच तान्सुरान्वीक्ष्य प्रणतान्नतकंधरान् ॥१२॥
श्रीराम उवाच
सुरा वृणुत मे यूयं वरं किंचित्सुदुर्ल्लभम्
यं कोऽपि देवो दनुजो न यक्षः प्राप सादरः ॥१३॥
सुरा ऊचुः
स्वामिन्भगवतः सर्वं प्राप्तमस्माभिरुत्तमम्
यदयं निहतः शत्रुरस्माकं तु दशाननः ॥१४॥
यदायदाऽसुरोऽस्माकं बाधां परिदधाति भोः
तदा तदेति कर्तव्यमेतावद्वैरिनाशनम् ॥१५॥
तथेत्युक्त्वा पुनर्वीरः प्रोवाच रघुनंदनः
श्रीराम उवाच
सुराः शृणुत मद्वाक्यमादरेण समन्विताः ॥१६॥
भवत्कृतं मदीयैर्वैगुणैर्ग्रथितमद्भुतम्
स्तोत्रं पठिष्यति मुहुः प्रातर्निशि सकृन्नरः ॥१७॥
तस्य वैरि पराभूतिर्न भविष्यति दारुणा
न च दारिद्र्यसंयोगो न च व्याधिपराभवौ ॥१८॥
मदीयचरणद्वंद्वे भक्तिस्तेषां तु भूयसी
भविष्यति मुदायुक्ते स्वांते पुंसां तु पाठतः ॥१९॥
इत्युक्त्वा सोऽभवत्तूष्णीं नरदेवशिरोमणिः
सुराः सर्वे प्रहृष्टास्ते ययुर्लोकं स्वकं स्वकम् ॥२०॥
रघुनाथोऽपि भ्रातॄंस्तान्पालयंस्तातवद्बुधान्
प्रजाः पुत्रानिव स्वीयाल्लाँलयँल्लोकनायकः ॥२१॥
यस्मिञ्छासति लोकानां नाकालमरणं नृणाम्
न रोगादि पराभूतिर्गृहेषु च महीयसी ॥२२॥
नेतिः कदापि द्दश्येत वैरिजं भयमेव च
वृक्षाः सदैव फलिनो मही भूयिष्ठधान्यका ॥२३॥
पुत्रपौत्रपरीवार सनाथी कृतजीवनाः
कांता संयोगजसुखैर्निरस्तविरहक्लमाः ॥२४॥
नित्यं श्रीरघुनाथस्य पादपद्मकथोत्सुकाः
कदापि परनिंदासु वाचस्तेषां भवंति न ॥२५॥
कारवोऽपि कदा पापं नाचरंति मनस्यहो
रघुनाथकराघातदुःखशंकाभिशंसिनः ॥२६॥
सीतापतिमुखालोक निश्चलीभूतलोचनाः
लोका बभूवुः सततं कारुण्यपरिपूरिताः ॥२७॥
राज्यं प्राप्तमसापत्नं समृद्धबलवाहनम्
ऋषिभिर्हृष्टपुष्टैश्च रम्यं हाटकभूषणैः ॥२८॥
संपुष्टमिष्टापूर्तानां धर्माणां नित्यकर्तृभिः
सदा संपन्नसस्यं च सुवसुक्षेत्रसंयुतम् ॥२९॥
सुदेशं सुप्रजं स्वस्थं सुतृणं बहुगोधनम्
देवतायतनानां च राजिभिः परिराजितम् ॥३०॥
सुपूर्णा यत्र वै ग्रामाः सुवित्तर्द्धिविराजिताः
सुपुष्पकृत्रिमोद्यानाः सुस्वादुफलपादपाः ॥३१॥
सपद्मिनीककासारा यत्र राजंति भूमयः
सदंभा निम्नगा यत्र न यत्र जनता क्वचित् ॥३२॥
कुलान्येव कुलीनानां वर्णानां नाधनानि च
विभ्रमो यत्र नारीषु न विद्वत्सु च कर्हिचित् ॥३३॥
नद्यः कुटिलगामिन्यो न यत्र विषये प्रजाः
तमोयुक्ताः क्षपा यत्र बहुलेषु न मानवाः ॥३४॥
रजोयुजः स्त्रियो यत्र नाधर्मबहुला नराः
धनैरनंधो यत्रास्ति जनो नैव च भोजने ॥३५॥
अनयः स्यंदनो यत्र न च वैराजपूरुषः
दंडः परशुकुद्दालवालव्यजनराजिषु ॥३६॥
आतपत्रेषु नान्यत्र क्वचित्क्रोधोपरोधजः
अन्यत्राक्षिकवृंदेभ्यः क्वचिन्न परिदेवनम् ॥३७॥
आक्षिका एव दृश्यंते यत्र पाशकपाणयः
जाड्यवार्ता जलेष्वेव स्त्रीमध्या एव दुर्बलाः ॥३८॥
कठोरहृदया यत्र सीमंतिन्यो न मानवाः
औषधेष्वेव यत्रास्ति कुष्ठयोगो न मानवे ॥३९॥
वेधो यत्र सुरत्नेषु शूलं मूर्तिकरेषु वै
कंपः सात्विकभावोत्थो न भयात्क्वापि कस्यचित् ॥४०॥
संज्वरः कामजो यत्र दारिद्र्यकलुषस्य च
दुर्ल्लभत्वं सदैवस्य सुकृतेन च वस्तुनः ॥४१॥
इभा एव प्रमत्ता वै युद्धे वीच्यो जलाशये
दानहानिर्गजेष्वेव तीक्ष्णा एव हि कंटकाः ॥४२॥
बाणेषु गुणविश्लेषो बंधोक्तिः पुस्तके दृढा
स्नेहत्यागः खलेष्वेव न च वै स्वजने जने ॥४३॥
तं देशं पालयामास लालयँल्लालिताः प्रजाः
धर्मं संस्थापयन्देशे दुष्टे दंडधरोपमः ॥४४॥
एवं पालयतो देशं धर्मेण धरणीतलम्
सहस्रं च व्यतीयुर्वै वर्षाण्येकादश प्रभोः ॥४५॥
तत्र नीचजनाच्छ्रुत्वा सीताया अपमानताम्
स्वां च निंदां रजकतस्तां तत्याज रघूद्वहः ॥४६॥
पृथ्वीं पालयमानस्य धर्मेण नृपतेस्तदा
सीतां विरहितामेकां निदेशेन सुरक्षिताम् ॥४७॥
कदाचित्संसदो मध्ये ह्यासीनस्य महामतेः
आजगाम मुनिश्रेष्ठः कुंभोत्पत्तिर्मुनिर्महान् ॥४८॥
गृहीत्वार्घ्यं समुत्तस्थौ वसिष्ठेन समन्वितः
जनताभिर्महाराजो वार्धिशोषकमागतम् ॥४९॥
स्वागतेन सुसंभाव्य पप्रच्छ तमनामयम्
सुखोपविष्टं विश्रांतं बभाषे रघुनंदनः ॥५०॥
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे
अगस्त्यसमागमोनाम पंचमोऽध्यायः ॥५॥
N/A
References : N/A
Last Updated : November 03, 2020
TOP