पातालखण्डः - अध्यायः ६७
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
शेष उवाच
अथ सौमित्रिरागत्य जानकीं नतवान्मुहुः
प्रेमगद्गदया शंसन्वाचं रामप्रणोदिताम् ॥१॥
सीता समागतं दृष्ट्वा लक्ष्मणं विनयान्वितम्
तन्मुखाद्रामसंदेशं श्रुत्वोवाच विलज्जिता ॥२॥
सौमित्रे कथमागच्छे रामत्यक्ता महावने
तिष्ठामि रामं स्मरन्ती वाल्मीकेराश्रमे त्वहम् ॥३॥
तस्या मुखोदितं वाक्यं श्रुत्वा सौमित्रिरब्रवीत्
मातः पतिव्रते रामस्त्वामाकारयते मुहुः ॥४॥
पतिव्रता पतिकृतं दोषं नानयते हृदि
तस्मादागच्छ हि मया स्थित्वा स्यंदन उत्तमे ॥५॥
इत्यादि वचनं श्रुत्वा जानकी पतिदेवता
मनोरोषं परित्यज्य तस्थौ सौमित्रिणा रथे ॥६॥
तापसीः सकला नत्वा मुनींश्च निगमोज्ज्वलान्
रामं स्मरंती मनसा रथे स्थित्वागमत्पुरीम् ॥७॥
क्रमेण नगरीं प्राप्ता महार्हाभरणान्विता
सरयूं सरितं प्राप यत्र रामः स्वयं स्थितः ॥८॥
रथादुत्तीर्य ललिता लक्ष्मणेन समन्विता
रामस्य पादयोर्लग्ना पतिव्रतपरायणा ॥९॥
रामस्तामागतां दृष्ट्वा जानकीं प्रेमविह्वलाम्
साध्वि त्वया सहेदानीं कुर्वे यज्ञसमापनम् ॥१०॥
वाल्मीकिं सा नमस्कृत्य तथान्यान्विप्रसत्तमान्
जगाम मातृपदयोः सन्नतिं कर्तुमुत्सुका ॥११॥
कौशल्या तामथायांतीं वीरसूं जानकीं प्रियाम्
आशीर्भिरभिसंयुज्य ययौ हर्षमनेकधा ॥१२॥
कैकेयीपदयोर्नम्रां वीक्ष्य वैदेहपुत्रिकाम्
भर्त्रा सह चिरं जीव सपुत्रेत्याशिषं व्यधात् ॥१३॥
सुमित्रा स्वपदेनम्रां वीक्ष्य वैदेहपुत्रिकाम्
आशिषं व्यदधात्तस्याः पुत्रपौत्रप्रदायिनीम् ॥१४॥
सीता ताः सर्वतो नत्वा रामचंद्र प्रिया सती
परमं हर्षमापन्ना बभूव किल वाडव ॥१५॥
समागतां वीक्ष्य पत्नीं रामचंद्रस्य कुंभजः
सुवर्णपत्नीं धिक्कृत्य तामधाद्धर्मचारिणीम् ॥१६॥
रामस्तदा यज्ञमध्ये शुशुभे सीतया सह
तारयानुगतो यद्वच्छशीव शरदुत्प्रभः ॥१७॥
प्रयोगमकरोत्तत्र काले प्राप्ते मनोरमे
वैदेह्या धर्मचारिण्या सर्वपापापनोदनम् ॥१८॥
सीतया सहितं रामं प्रसक्तं यज्ञकर्मणि
निरीक्ष्य जहृषुस्तत्र कौतुकेन समन्विताः ॥१९॥
वसिष्ठं प्राह सुमतिं रामस्तत्र क्रतौ वरे
किं कर्तव्यं मया स्वामिन्नतः परमवश्यकम् ॥२०॥
रामस्य वचनं श्रुत्वा गुरुः प्राह महामतिः
ब्राह्मणानां प्रकर्तव्या पूजा संतोषकारिका ॥२१॥
मरुत्तेन क्रतुः सृष्टः पूर्वं संभारसंभृतः
ब्राह्मणास्तत्र वित्ताद्यैस्तोषिता अभवंस्तदा ॥२२॥
अत्यंतं वित्तसंभारं नेतुं विप्राशकन्नहि
प्राक्षिपन्हिमवद्देशे वित्तभारासहा द्विजाः ॥२३॥
तस्मात्त्वमपि राजाग्र्य लक्ष्मीवान्नृपसत्तम
देहि दानादि विप्रेभ्यो यथा स्यात्प्रीतिरुत्तमा ॥२४॥
एतच्छ्रुत्वा स राजाग्र्यः पूज्यं मत्वा घटोद्भवम्
प्रथमं पूजयामास ब्रह्मपुत्रं तपोधनम् ॥२५॥
अनेकरत्नसंभारैः स्वर्णभारैरनेकधा
देशैर्जनैः परिवृतैरत्यंतप्रीतिदायकैः ॥२६॥
अगस्त्यं पूजयामास सपत्नीकं मनोरमम्
तथैव रत्नैः स्वर्णैश्च देशैश्च विविधैरपि ॥२७॥
व्यासं सत्यवतीपुत्रं तथैव समपूजयत्
च्यवनं भार्यया साकं सुरत्नैः समपूजयत् ॥२८॥
अन्यानपि मुनीन्सर्वानृत्विजस्तपसां निधीन्
पूजयामास रत्नौघैः स्वर्णभारैरनेकधा ॥२९॥
अदात्तदा क्रतौ रामो विप्रेभ्यो भूरिदक्षिणाम्
लक्षंलक्षं सुवर्णस्य प्रत्येकं त्वग्रजन्मने ॥३०॥
दीनांधकृपणेभ्यश्च ददौ दानमनेकधा
यथासंतोषविहितैर्वित्तै रत्नैर्मनोहरैः ॥३१॥
वासांसि च विचित्राणि भोजनानि मृदूनि च
तत्र प्रादाद्यथाशास्त्रं सर्वेषां प्रीतिदायकम् ॥३२॥
हृष्टपुष्टजनाकीर्णं सर्वसत्त्वोपबृंहितम्
अत्यंतमभवद्धृष्टं पुरं पुंस्त्रीसमावृतम् ॥३३॥
दानं ददंतं सर्वेषां वीक्ष्य कुंभोद्भवो मुनिः
अत्यंतपरमप्रीतिं ययौ क्रतुवरे द्विजः ॥३४॥
तदाभिषेकस्नानार्थं पानीयममृतोपमम्
आनेतुं च चतुःषष्टि नृपान्सस्त्रीन्समाह्वयत् ॥३५॥
रामस्तु सीतया सार्द्धमानेतुमुदकं ययौ
घटेन स्वर्णवर्णेन सर्वालंकारशोभया ॥३६॥
सौमित्रिरप्यूर्मिलया मांडव्या भरतो नृपः
शत्रुघ्नः श्रुतकीर्त्या च कांतिमत्या च पुष्कलः ॥३७॥
सुबाहुः सत्यवत्या च सत्यवान्वीरभूषया
सुमदस्तत्र सत्कीर्त्या राज्ञ्या च विमलो नृपः ॥३८॥
राजावीरमणिस्तत्र श्रुतवत्या मनोज्ञया
लक्ष्मीनिधिः कोमलया रिपुतापोंगसेनया ॥३९॥
विभीषणो महामूर्त्या प्रतापाग्र्यः प्रतीतया
उग्राश्वः कामगमया नीलरत्नोधिरम्यया ॥४०॥
सुरथः सुमनोहार्या तथा मोहनया कपिः
इत्यादीन्नृपतीन्विप्रो वसिष्ठः प्राहिणोन्मुनिः ॥४१॥
वसिष्ठः सरयूं गत्वा शिवपुण्यजलाप्लुताम्
उदकं मंत्रयामास वेदमंत्रेण मंत्रवित् ॥४२॥
पयः पुनीह्यमुं वाहमुदकेन मनोहृता
यज्ञार्थं रामचंद्रस्य सर्वलोकैकरक्षितुः ॥४३॥
उदकं तन्मुनिस्पृष्टं सर्वे रामादयो नृपाः
आजह्रुर्मंडपतले विप्रवर्यैरुपस्तुते ॥४४॥
पयोभिर्निर्मलैः स्नाप्य वाजिनं क्षीरसन्निभम्
मंत्रेण मंत्रयामास राम हस्तेन कुंभजः ॥४५॥
पुनीहि मां महावाह अस्मिन्ब्रह्मसमाकुले
त्वन्मेधेनाखिला देवाः प्रीणंतु परितोषिताः ॥४६॥
इत्युक्त्वा स नृपो रामः सीतया सममस्पृशत्
तदा सर्वे द्विजाश्चित्रममन्यंत कुतूहलात् ॥४७॥
परस्परमवोचंस्ते यन्नामस्मरणान्नराः
महापापात्प्रमुच्यंते स रामः किं वदत्यहो ॥४८॥
इत्युक्तवति भूमीशे रामे कुंभोद्भवो मुनिः
करवालं चाभिमंत्र्य ददौ रामकरे मुनिः ॥४९
करवाले धृते स्पृष्टे रामेण स हयः क्रतौ
पशुत्वं तु विहायाशु दिव्यरूपमपद्यत ॥५०॥
विमानवरमारूढश्चाप्सरोभिः समंततः
चामरैर्वीज्यमानश्च वैजयंत्या विभूषितः ॥५१॥
तदा तं वाजितां त्यक्त्वा दिव्यरूपधरं वरम्
वीक्ष्य लोकाः क्रतौ सर्वे विस्मयं प्राप्नुवंस्तदा ॥५२॥
तदा रामः स्वयं जानञ्ज्ञापयन्सर्वतो नरान्
पप्रच्छ दिव्यरूपं तं सुरं परमधार्मिकः ॥५३॥
कस्त्वं दिव्यवपुः प्राप्तः कस्मात्त्वं वाजितां गतः
कथं सुरस्त्रीसहितः किं चिकीर्षसि तद्वद ॥५४॥
रामस्य वचनं श्रुत्वा देवः प्रोवाच भूमिपम्
हसन्मेघरवां वाणीमवदत्सुमनोहराम् ॥५५॥
तवाज्ञातं न सर्वत्र बाह्याभ्यंतरचारिणः
तथापि पृच्छते तुभ्यं कथयामि यथातथम् ॥५६॥
अहं पुराभवे राम द्विजः परमधार्मिकः
अचरं प्रतिकूलं वै वेदस्य रिपुतापन ॥५७॥
कदाचिद्धुतपापायास्तीरेऽहं गतवान्पुरा
अनेकवृक्षललिते सर्वत्रसुमनोरमे ॥५८
तत्र स्नात्वा पितॄंस्तृप्त्वा दानं दत्त्वा यथाविधि
ध्यानं तव महाबाहो कृतवान्वेदसंमितम् ॥५९॥
तदा जनाः समायाता बहवस्तत्र भूपते
तेषां प्रवंचनार्थाय दंभमेनमकारिषम् ॥६०॥
अनेकक्रतुसंभारैः पूर्णमजिरमुत्तमम्
वासोभिश्छादितं रम्यं चषालादियुतं महत् ॥६१॥
अग्निहोत्रोद्भवोधूमः सर्वतो नभसोंगणम्
चकार रम्यमतुलं चित्रकारिवपुर्धरः ॥६२॥
अनेकतिलकश्रीभिः शोभितांगो महत्तपाः
दर्भशोभः समित्पाणिर्दंभो मूर्तिधरः किमु ॥६३॥
दुर्वासास्तत्र स्वच्छंदं पर्यटञ्जगतीतलम्
प्राप तत्र महातेजा धूतपापसरित्तटे ॥६४॥
ददर्श मां दंभकरं मौनधारिणमग्रतः
अनर्घ्यकरमुन्मत्तमस्वागतवचः करम् ॥६५॥
दृष्ट्वातीव क्रुधाक्रांतः समुद्र इव पर्वणि
शशापासौ मुनिस्तीव्रो दंभिनं मां महामतिः ॥६६॥
दंभं करोषि चेत्तीरे सरितस्त्वं सुदुर्मते
तस्मात्प्राप्नुहि निर्वाच्यं पशुत्वं तापसाधम ॥६७॥
शापं प्रदत्तं संश्रुत्य दुःखितोऽहं तदाभवम्
अग्राहिषं पदे तस्य मुनेर्दुर्वाससः किल ॥६८॥
तदा मे कृतवान्राम द्विजोऽनुग्रहमुत्तमम्
वाजितां प्राप्नुहि मखे राजराजस्य तापस ॥६९॥
पश्चात्तद्धस्तसंपर्काद्याहि तत्परमं पदम्
दिव्यं वपुर्मनोहारि धृत्वा दंभविवर्जितम् ॥७०॥
तेन शापोपिसंदिष्टो ममानुग्रहतां गतः
यदहं तव हस्तस्य स्पर्शं प्राप्तो मनोरमम् ॥७१॥
यदेव राम देवादिदुर्लभं बहुजन्मभिः
तत्तेऽहं करजस्पर्शं प्राप्तवानिह दुर्लभम् ॥७२॥
आज्ञापय महाराज त्वत्प्रसादादहं महत्
गच्छामि शाश्वतं स्थानं तव दुःखादिवर्जितम् ॥७३॥
न यत्र शोको न जरा न मृत्युः कालविभ्रमः
तत्स्थानं देव गच्छामि त्वत्प्रसादान्नराधिप ॥७४॥
इत्युक्त्वा तं परिक्रम्य विमानवरमारुहत्
अनेकरत्नखचितं सर्वदेवाधिवंदितम् ॥७५॥
गतोऽसौ शाश्वतस्थानं रामपादप्रसादतः
पुनरावृत्तिरहितं शोकमोहविवर्जितम् ॥७६॥
तेन तत्कथितं श्रुत्वा रामं ज्ञात्वेतरे जनाः
विस्मयं प्रापिरे सर्वे परस्परमुदुन्मदाः ॥७७॥
शृणु द्विजमहाबुद्धे दंभेनापि स्मृतो हरिः
ददाति मोक्षं सुतरां किं पुनर्दंभवर्जनात् ॥७८॥
यथाकथंचिद्रामस्य कर्तव्यं स्मरणं परम्
येन प्राप्नोति परमं पदं देवादिदुर्लभम् ॥७९॥
तच्चित्रं वीक्ष्य मुनयः कृतार्थं मेनिरे निजम्
यद्रामचरणप्रेक्षा करस्पर्शपवित्रितम् ॥८०॥
गते तस्मिन्सुरे स्वर्गं हयरूपधरे पुरा
उवाच रामस्तपसां निधीन्वेदविदुत्तमान् ॥८१॥
किं कर्तव्यं मयाब्रह्मन्हयो नष्टो गतः सुखम्
होमः कथं पुरोभावी सर्वदैवततर्पकः ॥८२॥
यथा स्यात्सुरसंतृप्तिर्यथा मे मख उत्तमः
तथा कुर्वंतु मुनयो यथा मे स्याद्विधिश्रुतम् ॥८३॥
इति वाक्यं समाश्रुत्य जगाद मुनिसत्तमः
वसिष्ठः सर्वदेवानां चित्ताभिज्ञानकोविदः ॥८४॥
कर्पूरमाहर क्षिप्रं येन देवाः स्वयं पुरा
प्राप्य हव्यं ग्रहीष्यंति मद्वाक्यप्रेरिताधुना ॥८५॥
इति वाक्यं समाकर्ण्य रामः क्षिप्रमुपाहरत्
कर्पूरं बहुदेवानां प्रीत्यर्थं बहुशोभनम् ॥८६॥
तदा मुनिः प्रहृष्टात्मा देवानाह्वयदद्भुतान्
ते सर्वे तत्क्षणात्प्राप्ताः स्वपरीवारसंवृताः ॥८७॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
यज्ञप्रारंभोनाम सप्तषष्टितमोऽध्यायः ॥६७॥
N/A
References : N/A
Last Updated : November 06, 2020
TOP