पातालखण्डः - अध्यायः ४
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
वात्स्यायन उवाच
भुजगाधीश्वरेशान धराभारधरक्षम
शृण्वेकं संशयं मह्यं कृपया कथयस्व तम् ॥१॥
रघुनाथस्य गमनं वनं प्रति यदा ह्यभूत्
तदा प्रभृति देहेन स्थिता शून्येन चेतसा ॥२॥
तद्विप्रयोगविधुरा कृशदेहातिदुःखिता
सुमुखान्मंत्रिणः श्रुत्वा रघुनाथं समागतम् ॥३॥
कथं जहर्ष किमभूत्कीदृशं तत्र चिह्नितम्
रामचंद्रस्य संदेशहर्तारं किमुवाच सा ॥४॥
एतन्मे संशयं छिंधि रघुनाथगुणोदयम्
यथावच्छृण्वते मह्यं कथयस्व प्रसादतः ॥५॥
शेष उवाच
साधुपृष्टं महाभाग द्विजवर्यपुरस्कृत
तन्मे निगदतः साक्षाच्छृणुष्वैकमनाः किल ॥६॥
सा वै तद्वदनांभोज च्युतं रामागमामृतम्
पीत्वा पीत्वा बभूवाहो स्थगितांगेन विह्वला ॥७॥
किं मे स्वप्नो विमूढायाः किं वा भ्रमकरं वचः
ममवै मंदभाग्यायाः कथं रामेक्षणं पुनः ॥८॥
बहुना तपसा कृत्वा प्राप्तोऽयं वै सुतः शिशुः
केनचिन्मम पापेन विप्रयोगं गतः पुनः ॥९॥
सुमंत्रिन्कुशली रामः सीतालक्ष्मणसंयुतः
कथं मां स्मरते वीरो वनचारी सुदुःखिताम् ॥१०॥
इति सा विललापोच्चै रघुनाथस्मृतिं गता
न निवेद निजं किंचित्परकीयं विमोहिता
सुमुखोऽपि तथा दृष्ट्वा दुःखितां मातरं भृशम् ॥११॥
वीजयामास वासोग्रैः संज्ञामाप च सा पुनः
उवाच जननीं सौम्यं वचोहर्षकरं मुहुः ॥१२॥
रघुनाथागमस्मार हृष्टां तां व्यदधात्पुनः
मातर्विद्धि गृहं प्राप्तं रघुनाथं सलक्ष्मणम् ॥१३॥
सीतया सहितं पश्य चाशीर्भिरभियुंक्ष्व च
इति तथ्यं वचः श्रुत्वा सुमुखेन प्रभाषितम् ॥१४॥
यादृशं हर्षमापेदे तादृशं वेद्म्यहं नहि
उत्थाय चाजिरे प्राप्ता रोमांचिततनूरुहा ॥१५॥
हर्षविह्वलितांग्यश्रु मुंचंती राममैक्षत
तावत्स रामो राजेंद्रो नरयानमधिश्रितः ॥१६॥
प्राप्तः स्वमातुर्भवनं कैकेय्याः सुनयः पुरः
कैकेय्यपि त्रपाभारनम्रा रामं पुरःस्थितम् ॥१७॥
नोवाच किंचिन्महतीं चिंतां प्राप्तवती मुहुः
सूर्यवंशध्वजो रामो मातरं वीक्ष्य लज्जिताम् ॥१८॥
उवाच सांत्वयंस्तां च वाक्यैर्विनयमिश्रितैः
श्रीराम उवाच
मातर्मया वनं गत्वा सर्वमाचरितं तथा ॥१९॥
अधुना करवै किं वा त्वदाज्ञातो जनन्यहो
मया न्यूनं कृतं नास्ति कथं मां नेक्ष्यसे पुनः ॥२०॥
आशीर्भिरभिनंद्यैनं भरतं मां च वीक्षय
इति श्रुत्वापि तद्वाक्यं सा नम्रवदनानघ ॥२१॥
शनैः शनैः प्रत्युवाच राम गच्छ स्वमालयम्
रामोऽपि श्रुत्वा वचनं जनन्याः पुरुषोत्तमः ॥२२॥
नमस्कृत्य ययौ गेहं सुमित्रायाः कृपानिधिः
सुमित्रा पुत्रसहितं रामं दृष्ट्वा महामनाः ॥२३॥
चिरंजीव चिरंजीव ह्याशीर्भिरिति चाभ्यधात्
मातुश्च रामभद्रोऽपि चरणौ प्रणिपत्य च ॥२४॥
परिष्वज्य मुदायुक्तो जगाद वचनं पुनः
रत्नगर्भे मम भ्रात्रा केनापि न कृतं तथा ॥२५॥
यथायमकरोद्धीमान्ममदुःखापनोदनम् ॥२६॥
रावणेन हृता सीता मया यत्प्राप्यते पुनः
मातस्तत्सर्वमाविद्धि लक्ष्मणस्य विचेष्टितम् ॥२७॥
दत्तामाशिषमागृह्य शिरसायं सुमित्रया
निजमातुश्च भवनं प्रययौ विबुधैर्वृतः ॥२८॥
मातरं वीक्ष्य हृषितां निजदर्शनलालसाम्
स्वयानादवरुह्याशु चरणावग्रहीद्धरिः ॥२९॥
माता तद्दर्शनोत्कंठा विह्वलीकृतमानसा
परिष्वज्य परिष्वज्य रामं मुदमवाप सा ॥३०॥
शरीरे रोमहर्षोऽभूद्गद्गदा वागभूत्तदा
हर्षाश्रूणि तु सोष्णानि प्रवाहं प्रापुरापदात् ॥३१॥
जननीं वीक्ष्य विनयी ताटंकद्वयवर्जिताम्
कराकल्प पदाकल्परहितां बिभ्रतीं तनुम् ॥३२॥
किंचित्स्वदर्शनाद्धृष्टां कृशांगीं तां स शोकभाक्
दुःखस्य समयो नायमिति मत्वा जगाद ताम् ॥३३॥
श्रीराम उवाच
मातर्मया त्वच्चरणौ चिरकालं न सेवितौ
ततः क्षमस्वापराधं भाग्यहीनस्य वै मम ॥३४॥
ये पुत्रा मातापित्रोर्न शुश्रूषायां समुत्सुकाः
ते मंतव्याः परा मातः कीटका रेतसो भवाः ॥३५॥
किं कुर्वे जनकाज्ञातो गतो वै दंडकं वनम्
तत्रापि त्वत्कृपापांगात्तीर्णोऽस्मि दुःखसागरम् ॥३६॥
रावणेन हृता सीता लंकायां गमिता पुनः
त्वत्कृपातो मया लब्धा तं हत्वा राक्षसेश्वरम् ॥३७॥
सीतेयं त्वच्चरणयोः पतिता वै पतिव्रता
संभावयाशु चकितां त्वत्पादार्पितमानसाम् ॥३८॥
इति श्रुत्वा तु तद्वाक्यं पादयोः पतितां स्नुषाम्
आशीर्भिरभियुज्यैनां बभाषे तां पतिव्रताम् ॥३९॥
सीते स्वपतिना सार्द्धं चिरं विलस भामिनि
पुत्रौ प्रसूय च कुलं स्वकं पावय पावने ॥४०॥
त्वत्सदृश्यः पतिपराः पतिदुःखसुखानुगाः
भवंति दुःखभागिन्यो न हि सत्यं जगत्त्रये ॥४१॥
विदेहपुत्रि स्वकुलं त्वया पावितमात्मना
रामपादाब्जयुगलमनुयांत्या महावनम् ॥४२॥
किं चित्रं यत्पुमांसस्तु वैरिकोटिप्रभंजनाः
येषां गेहे सती भार्या स्वपतिप्रियवाञ्छिका ॥४३॥
इत्युक्त्वा रघुनाथस्य भार्यामंचितलोचनाम्
तूष्णीं बभूव हृषिता प्रहृष्टस्वतनूरुहा ॥४४॥
अथ भ्रातास्य भरतः पित्रा दत्तं निजं महत्
राज्यं निवेदयामास रामचंद्राय धीमते ॥४५॥
मंत्रिणस्ते प्रहृष्टांगा दैवज्ञान्मंत्रकोविदान्
आहूय सुमुहूर्तंते पप्रच्छुः परमादरात् ॥४६॥
शुभे मुहूर्ते सुदिने शुभनक्षत्रसंयुते
अभिषेकं महाराज्ये कारयामासुरुद्यताः ॥४७॥
सप्तद्वीपवतीं पृथ्वीं व्याघ्रचर्मणि सुंदरे
लिखित्वोपरि राजेंद्रो महाराजोधितस्थिवान् ॥४८॥
तद्दिनादेव साधूनां मनांसि प्रमुदं ययुः
दुष्टानां चेतसो ग्लानिरभवत्परतापिनाम् ॥४९॥
स्त्रियस्तु पतिभक्त्या च पतिव्रतपरायणाः
मनसापि कदा पापं नाचरंति जना मुने ॥५०॥
दैत्यादेवास्तथा नागा यक्षासुरमहोरगाः
सर्वे न्यायपथे स्थित्वा रामाज्ञां शिरसा दधुः ॥५१॥
परोपकरणेयुक्ताः स्वधर्मसुखनिर्वृताः
विद्याविनोदगमिता दिनरात्रिक्षणाः शुभाः ॥५२॥
वातोऽपि मार्गसंस्थानां बलान्नाहरते महान्
वासांस्यपि तु सूक्ष्माणि तत्र चौरकथा नहि ॥५३॥
धनदो ह्यर्थिनां रामः कारुण्यश्च कृपानिधिः
भ्रातृभिः सहितो नित्यं गुरुदेवस्तुतिं व्यधात् ॥५४॥
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे
रघुवरस्य राज्याभिषेकोनाम चतुर्थोऽध्यायः ॥४॥
N/A
References : N/A
Last Updated : November 03, 2020
TOP