संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः| अध्यायः ३ पातालखण्डः वि्षयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ पातालखण्डः - अध्यायः ३ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ३ Translation - भाषांतर शेष उवाचदृष्ट्वा रामो राजधानीं निजलोकनिवासिनीम्जहर्ष मतिमान्वीरश्चिरदर्शनलालसः ॥१॥भरतोऽपि स्वकं मित्रं सुमुखं नगरं प्रतिप्रेषयामास सचिवं नगरोत्सवसिद्धये ॥२॥भरत उवाचकुर्वंतु लोकास्त्वरितं रघुनाथागमोत्सवम्मंदिरे मंदिरे रम्यं कृतकौतुकचित्रकम् ॥३॥विपांसुका राजमार्गाश्चंदनद्रवसिंचिताःप्रसूनभरसंकॢप्ता हृष्टपुष्टजनावृताः ॥४॥विचित्रवर्णध्वजभा चित्रिताखिलस्वांगणाःमेघागमे धनुरिव पश्यंत्वेव वलीमुखाः ॥५॥प्रतिगेहं तु लोकानां कारयंत्वगरूक्षणम्यद्धूमं वीक्ष्य शिखिनो नृत्यं कुर्वंतु लीलया ॥६॥हस्तिनो मम शैलाभानाधोरणसुयंत्रितान्विचित्रयंतु बहुशो गैरिकाद्युपधातुभिः ॥७॥वाजिनश्चित्रिता भूयः सुशोभंतु मनोजवाःयद्वेगवीक्षणादेव गर्वं त्यजति स्वर्हयः ॥८॥कन्याः सहस्रशो रम्याः सर्वाभरणभूषिताःगजोपरि समारूढा मुक्ताभिर्विकिरंतु च ॥९॥ब्राह्मण्यः पात्रहस्ताश्च दूर्वाहारिद्रसंयुताःसुवासिन्यो महाराजं रामं नीराजयंतु ताः ॥१०॥कौसल्यापुत्रसंयोगसंदेश विधुरा सतीहर्षं प्राप्नोतु सुकृशा तदीक्षणसुलालसा ॥११॥इत्येवमादिरचनाः पुरशोभाविधायिकाःकरोतु जनता हृष्टा रामस्यागमनं प्रति ॥१२॥शेष उवाचइति श्रुत्वा ततो वाक्यं सुमुखो मंत्रवित्तमःप्रययौ नगरीं कर्तुं कृतकौतुकतोरणाम् ॥१३॥गत्वाथ नगरीं तां वै मंत्री तु सुमुखाभिधःख्यापयामास लोकानां रामागममहोत्सवम् ॥१४॥लोकाः श्रुत्वा पुरीं प्राप्तं रघुनाथं सुहर्षिताःपूर्वं तदीय विरहत्यक्तभोगसुखादयः ॥१५॥ब्राह्मणा वेदसंपन्नाः पवित्रा दर्भपाणयःधौतोत्तरीयवलिता जग्मुः श्रीरघुनायकम् ॥१६॥क्षत्रिया ये शूरतमा धनुर्बाणधरा वराःसंग्रामे बहुशो वीरा जेतारो ययुरप्यमुम् ॥१७॥वैश्या धनसमृद्धाश्च मुद्राशोभितपाणयःशुभ्रवस्त्रपरीधाना अभिजग्मुर्नरेश्वरम् ॥१८॥शूद्रा द्विजेषु ये भक्ताः स्वीयाचारसुनिष्ठिताःवेदाचाररता ये वै तेऽपिजग्मुः पुरीपतिम् ॥१९॥ये ये वृत्तिकरा लोकाः स्वे स्वे कर्मण्यधिष्ठिताःस्वकं वस्तु समादाय ययुः श्रीरामभूपतिम् ॥२०॥इत्थं भूपतिसंदेशात्प्रमोदाप्लवसंयुताःनाना कौतुकसंयुक्ता आजग्मुर्मनुजेश्वरम् ॥२१॥शेष उवाचरघुनाथोऽपि सकलैर्दैवतैः स्वस्वयानगैःपरीतः प्रविवेशोच्चैः पुरीं रचितमोहनाम् ॥२२॥प्लवंगाः प्लवनैर्युक्ता आकाशपथचारिणःस्वस्वशोभापरीतांगाश्चानुजग्मुः पुरोत्तमम् ॥२३॥पुष्पकादवरुह्याशु नरयानमथारुहत्सीतया सहितो रामः परिवारसमावृतः ॥२४॥अयोध्यां प्रविवेशाथ कृतकौतुकतोरणाम्हृष्टपुष्टजनाकीर्णामुत्सवैः परीभूषिताम् ॥२५॥वीणापणवभेर्यादिवादित्रैराहतैर्भृशम्शोभमानः स्तूयमानः सूतमागधबंदिभिः ॥२६॥जय राघवरामेति जय सूर्यकुलांगदजय दाशरथे देव जयताल्लोकनायकः ॥२७॥इति शृण्वञ्छुभां वाचं पौराणां हर्षितांगिनाम्रामदर्शनसंजात पुलकोद्भेद शोभिनाम् ॥२८॥प्रविवेश वरं मार्गं रथ्याचत्वरभूषितम्चंदनोदकसंसिक्तं पुष्पपल्लवसंयुतम् ॥२९॥तदा पौरांगनाः काश्चिद्गवाक्षबिलमाश्रिताःरघुनाथस्वरूपेक्षा जातकामा अथाब्रुवन् ॥३०॥पौरांगना ऊचुःधन्या अभूवन्बत भिल्लकन्या वनेषु या राममुखारविंदम्स्वलोचनेंदीवरकैरथापिबन्स्वभाग्यसंजातमहोदया इमाः ॥३१॥धन्यं मुखं पश्यत वीरधाम्नः श्रीरामदेवस्य सरोजनेत्रम्यद्दर्शनं धातृमुखाः सुरा अपि प्रापुर्महद्भाग्ययुता वयंत्वहो ॥३२॥एतन्मुखं पश्यत चारुहासं किरीटसंशोभिनिजोत्तमांगम्बंधूकधिक्कारलसच्छविप्रदं दंतच्छदं बिभ्रतमुच्चनासम् ॥३३॥इति गदितवतीस्ताः स्नेहभारेण रामा नलिनदलसदृक्षैर्नेत्रपातैर्निरीक्ष्यनिखिलगुरुरनूनप्रेमभारं नृलोकं जननिगृहमियेष प्रोषितांगेन हृष्टः ॥३४॥इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधेरघुनाथस्य पुरप्रवेशनं नाम तृतीयोऽध्यायः ॥३॥ N/A References : N/A Last Updated : November 03, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP