पातालखण्डः - अध्यायः १००
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
श्रीराजोवाच-
क्षीरोदजलतुल्याभिः शीतलामलदृष्टिभिः
तथ्याभिश्च विचित्राभिस्त्वया गीर्भिः प्रबोधितः ॥१॥
असागरोत्थं पीयूषमद्रव्यं व्यसनौषधम्
त्वयाहं पायितः सौम्य भवरोगनिवारणम् ॥२॥
हर्षप्रदो नृणां पापहानिकृज्जीवनौषधम्
जरामृत्युहरो विप्र सद्भिः किल समागमः ॥३॥
यानि यानि दुरापानि वांछितानि महीतले
प्राप्यंते तानि तान्येव साधूनामेव संगमात् ॥४॥
यः स्नातः पापहरया साधुसंगम गंगया
किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः ॥५॥
निमज्ज्योन्मज्जतान्नॄणां भवाब्धौ परमायनम्
संतो धर्मविदः शांता नौर्दृढे वाप्सुमज्जताम् ॥६॥
यो मे भावःपुरा ह्यासीत्कामैकसुखलालसः
दर्शनाद्वचनात्तेऽद्य विपरीतोऽभवद्विभो ॥७॥
एकजन्मसुखस्यार्थे सहस्राणि विलोपयेत्
प्राज्ञो जन्मसहस्राणि संचिनोत्येकजन्मना ॥८॥
हाहा कामरसास्वाद सुखलालसचेतसा
मया मूढेन न कृतं किंचिदात्महितं द्विज ॥९॥
अहो मे मनसो मोहो येनात्मा योषितां कृते
पातितो व्यसने घोरे दुःखोदर्के दुरत्यये ॥१०॥
भगवन्परितुष्टोऽस्मि बोधितो वचनेन ते
उपदेशप्रदानेन मामुद्धर्तुमिहार्हसि ॥११
पुरा चरितपुण्योऽहं भवता बोधितोऽस्मि यत्
त्वत्पादरजसा वापि विशेषादपि पावितः ॥१२॥
विधिं माधवमासस्य ब्रूहि मे वदतां वर
सर्वपापक्षयकरो यस्त्वया परिकीर्तितः ॥१३॥
किं दानं तत्र किं स्नानं को देवो नियमास्तु के
एतदाचक्ष्व विप्रर्षे दुरितोत्तारणाय मे ॥१४॥
यम उवाच-
इत्येवमुक्तो भगवान्कश्यपः स दयानिधिः
प्रोवाच वचनं विप्र धर्म्यं विश्वहितं शुभम् ॥१५॥
कश्यप उवाच-
पूर्वापरसमाधान क्षमबुद्ध्या च ते नृप
पृष्टं प्राज्ञे न वक्तव्यं नाधमे पापमानसे ॥१६॥
पापप्रवृत्तस्य तथा दत्वा भूप शुभां मतिम्
विद्यादानफलं सम्यक्प्राप्यते नात्र संशयः ॥१७॥
नापृष्टः कस्यचिद्ब्रूयान्न चान्यायेन पृच्छतः
जानन्नपि हि मेधावी जडवल्लोकमाचरेत् ॥१८॥
विदुषामपि शिष्याणां पुत्राणां च क्रियावताम्
अपृष्टमपि वक्तव्यं श्रेयः श्रद्धावतां हितम् ॥१९॥
सांप्रतं शुद्धहृदयो जातस्त्वं वचनान्मम
पुराचरितपुण्येन केनापि च महीपते ॥२०॥
पापावस्थं शरीरं तद्गतं तव ममाश्रयात्
श्रवणाद्धर्मशास्त्रस्य धर्मावस्थं तु तेऽभवत् ॥२१॥
पापावस्थमधर्माख्यं धर्मज्ञानविवर्जितम्
अपरं सद्व्रतं यद्धि विज्ञेयं तद्धि धार्मिकम् ॥२२॥
धर्माधर्मोपभोगाय तत्तृतीयमतींद्रियम्
तत्त्रिभेदं शरीरं हि धर्म्मविद्भिरिहोच्यते ॥२३॥
यावता धर्मभोगश्च मुक्तिश्चैतत्त्रिभेदकम्
पापावस्थं शरीरं तत्पापसंज्ञं तदुच्यते ॥२४॥
इदानीं गुरुभक्तिं च कुर्वतश्च वचो मम
शृण्वतो धर्मरूपं तु शरीरं ते व्यवस्थितम् ॥२५॥
तेनैव शुद्धिरमला जाता धर्मक्रियोचिता
दैवेन देहिनां नाम चेतांसि चरितानि च ॥२६॥
शरीराणि च पुष्यंति कालेकाले विपर्ययम्
सांप्रतं भवतश्चेतो नूनं धर्मे प्रवर्तते ॥२७॥
तेन त्वां कारयिष्यामि माधवस्नानमुत्तमम्
यम उवाच-
ततस्तु कारितस्तेन कश्यपेन पुरोधसा ॥२८॥
स नृपो माधवे मासि स्नानं दानं च पूजनम्
यथादृष्टं पुरा शास्त्रे वैशाखस्नानजं विधिम् ॥२९॥
स मुनिः प्रत्युवाचासौ भूपाय च यथोदितम्
श्रावितः स्तोत्रसारं च पाठितो हरिमेधसः ॥३०॥
श्रुते यस्मिन्नधीते च स सम्यक्फलमाप्नुयात् ॥३१॥
स कारितस्तेन विशुद्धभावो राजापि चक्रे विधिवत्तदानीम्
श्रीमाधवेमासि विधानमीड्यं ततो यथाकर्णितमादरेण ॥३२॥
प्रातःस्नानं च पाद्यं च ह्यर्घं च हरिपूजनम्
नैवेद्यं भक्तिभावेन चकार स नृपोत्तमः ॥३३॥
दानं यथा नियमपालनमादरेण वैशाखमादिविदधाति विधानमेवम्
यो भक्तितोऽन्वहमसौ प्रतिवर्षमेवं कृत्वा प्रयाति हरिधाम महीसुराग्र्यः ॥३४॥
अथेतरेषु मासेषु कामिनीकुचकेलिवान्
भोगैकलालसो भूयो भवत्येवं यथारुचि ॥३५॥
न धर्मनियमं राजकार्येषु न विचारणम्
करोति कामवशगो हित्वा मासं स माधवम् ॥३६॥
महतामपि विप्राग्र्य दुर्निवार्यो मनोभवः
शरीरसहजो नूनमनादिर्वासनाक्रमः ॥३७॥
केशकज्जलशालिन्यो दुःस्पर्शा लोचनप्रियाः
यस्मादग्निशिखा नार्यो दहंति तृणवन्नरम् ॥३८॥
घोरः शत्रुः शरीरस्थः पुंसां कामो यथोचितम्
मोहधूममयः पापो न केषामंधकारितम् ॥३९॥
इति श्रीपद्मपुराणेपातालखंडे वैशाखमासमाहात्म्ये शततमोऽध्यायः ॥१००॥
N/A
References : N/A
Last Updated : November 13, 2020
TOP