संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ५६

पातालखण्डः - अध्यायः ५६

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शेष उवाच
प्रातर्नित्यं विधायासौ ब्राह्मणान्वेदवित्तमान्
हिरण्यदानैः संतर्प्य विधिवत्संसदं ययौ ॥१॥
लोकाः सर्वे नमस्कर्तुं रघुनाथं महीपतिम्
पुत्रवत्स्वप्रजाः सर्वाः पालयंतं ययुः सभाम् ॥२॥
लक्ष्मणेनातपत्रं तु धृतं मूर्धनि भूपतेः
तदा भरतशत्रुघ्नौ चामरद्वंद्व धारिणौ ॥३॥
वसिष्ठप्रमुखास्तत्र मुनयः पर्युपासत
सुमंत्रप्रमुखास्तत्र मंत्रिणो न्यायकर्तृकाः ॥४॥
एवं प्रवृत्ते समये षट्चारास्ते स्वलंकृताः
समाजग्मुर्नरपतिं नमस्कर्तुं सभास्थितम् ॥५॥
तान्वक्तुकामान्संवीक्ष्य चारान्नृपतिसत्तमः
सभायामंतरावेश्म रहः प्राविशदुत्सुकः ॥६॥
एकांते तांश्चरान्सर्वान्पप्रच्छ सुमतिर्नृपः
कथयंतु चरा मह्यं यथातथ्यमरिंदमाः ॥७॥
लोका ब्रुवंति मां कीदृग्भार्याया मम कीदृशम्
मंत्रिणां कीदृशं लोका वदंति चरितं कथम् ॥८॥
इति वाक्यं समाकर्ण्य चारा राममथाब्रुवन्
मेघगंभीरया वाचा पृच्छंतं रघुनायकम् ॥९
चारा ऊचुः
नाथ कीर्तिर्जनान्सर्वान्पावयत्यधुना भुवि
गृहेगृहे श्रुतास्माभिः पुरुषैः स्त्रीभिरीडिता ॥१०॥
विवस्वतो महान्वंशो भवता परमेष्ठिना
अलंकर्तुं गतं भूमौ कीर्तिर्विस्तारिता बहुः ॥११॥
अनेके सगराद्याश्च कीर्तिमंतो महाबलाः
अभवंस्तादृशी कीर्तिस्तेषां नाभूद्यथा तव ॥१२॥
त्वया नाथेन सकलाः कृतार्थाश्च प्रजाः कृताः
यासां नाकालमरणं न च रागाद्युपद्रुतिः ॥१३॥
यादृशश्चंद्रमालोके यादृशी जाह्नवी सरित्
तादृक्तव च सत्कीर्तिः प्रकाशयति भूतलम् ॥१४॥
ब्रह्मादिका भवत्कीर्तिमाकर्ण्य त्रपिता भृशम्
नाथ सर्वत्र ते कीर्तिः पावयत्यधुना जनान् ॥१५॥
वयं धन्यतमाः सर्वे ये चारास्तव भूपते
क्षणेक्षणे तव मुखं लोकयाम मनोहरम् ॥१६॥
इत्यादिवाक्यं चाराणां पंचानां वीक्ष्य राघवः
षष्ठं पप्रच्छ चारं तं विलक्षणमुखांकितम् ॥१७॥
राम उवाच
सत्यं वद महाबुद्धे यच्छ्रुतं लोकसंकरे
तादृक्प्रशंस मे सर्वमन्यथा पातकादिकृत् ॥१८॥
पुनः पुनश्च तं रामः पप्रच्छाशु सविस्तरम्
तथापि न ब्रवीत्येव रामं लौकिकभाषितम् ॥१९॥
तदा रामः प्रत्यवोचच्चारं मुखविलक्षितम्
शपामि त्वां तु सत्येन शंस सर्वं यथातथम् ॥२०॥
तदा रामं प्रत्युवाच चारो वाक्यं शनैः शनैः
अकथ्यमपि ते वाच्यं वाक्यं कारुजनोदितम् ॥२१॥
चार उवाच
स्वामिन्सर्वत्र ते कीर्तिर्दशाननवधादिका
अन्यत्र राक्षसगृहे स्थितायास्ते स्त्रिया अहो ॥२२॥
कारुरेकस्तु रजको निशीथे महिलां स्वकाम्
अन्यगेहोषितां दृष्ट्वा धिक्कुर्वन्समताडयत् ॥२३॥
तन्माता प्रत्युवाचेमां कथं ताडयसेऽनघाम्
गृहाण मा कृथा निंदां स्त्रियं मद्वाक्यमाचर ॥२४॥
तदावोचत्स रजको नाहं रामो महीपतिः
यद्राक्षसगृहेध्युष्टां सीतामंगीचकार सः ॥२५॥
सर्वं राज्ञः कृतं कर्म नीतिमद्भवति प्रभो
अन्येषां पुण्यकर्तॄणामपि कृत्यमनीतिमत् ॥२६॥
पुनः पुनरुवाचासौ नाहं रामो महीपतिः
चुक्रुधे समये राजन्मया वाक्यं तव स्मृतम् ॥२७॥
तदानीं शिर आच्छिद्य पातयामि महीतले
कृतः पुनर्विचारोमे क्व रामो रजकः क्व नु ॥२८॥
अयं दुष्टोऽनृतं वक्ति न हीदं तथ्यमुच्यते
आज्ञापयसि चेद्राम सांप्रतं मारयामि तम् ॥२९॥
अवाच्यमपि ते प्रोक्तं त्वदाग्रहत उन्नयम्
राजा प्रमाणमत्रेदं विचारयतु संगतम् ॥३०॥
शेष उवाच
इति वाक्यं समाकर्ण्य महावज्रनिभाक्षरम्
निःश्वसन्मुहुरुच्छ्वासमाचरन्मूर्च्छितोऽपतत् ॥३१॥
तं मूर्च्छितं नृपं दृष्ट्वा चारा दुःखसमन्विताः
वीजयामासुर्वासोग्रैर्दुःखापनय हेतवे ॥३२॥
स लब्धसंज्ञो नृपतिर्मुहूर्तेन जगाद तान्
गच्छंतु भरतं शीघ्रं प्रेषयंतु च मां प्रति ॥३३॥
ते दुःखिताश्चरास्तूर्णं भरतस्य गृहं गताः
कथयामासु रामस्य संदेशं नयहारकाः ॥३४॥
भरतो रामसंदेशं श्रुत्वा धीमान्ययौ सदः
रामं प्रति रहःसंस्थं श्रुत्वा तं त्वरया युतः ॥३५॥
आगत्य तं प्रतीहारं प्रत्युवाच महामनाः
कुत्रास्ते रामभद्रोऽसौ मम भ्राता कृपानिधिः ॥३६॥
तन्निर्दिष्टं गृहं वीरो ययौ रत्नमनोहरम्
रामं विलोक्य विक्लांतं भयमाप स मानसे ॥३७॥
किं वासौ कुपितो रामः किं वा दुःखमिदं विभोः
तदा प्रोवाच नृपतिं निःश्वसंतं मुहुर्मुहुः ॥३८॥
स्वामिन्सुखसमाराध्यं वक्त्रं ते कथमानतम्
अश्रुभिर्लक्ष्यते राहुग्रस्तदेहः शशीव ते ॥३९॥
सर्वं मे कारणं तथ्यं ब्रूहि मां किं करोमि ते
त्यज दुःखं महाराज कथं दुःखस्य भाजनम् ॥४०॥
एवं भ्रात्रा प्रोच्यमानो गद्गदस्वरया गिरा
प्रोवाच भ्रातरं वीरो रामचंद्रश्च धार्मिकः ॥४१॥
शृणु भ्रातर्वचो मह्यं मम दुःखस्य कारणम्
तन्मार्जनं कुरुष्वाद्य भ्रातः प्रातर्महामते ॥४२॥
वंशे वैवस्वते राजा न कश्चिदयशः क्षतः
मत्कीर्तिरद्य कलुषा गंगायमुनया गता ॥४३॥
येषां यशो नृणां भूमौ तेषामेव सुजीवितम्
अपकीर्तिक्षतानां तु जीवितं मृतकैः समम् ॥४४॥
येषां यशो भवेद्भूमौ तेषां लोकाः सनातनाः
अपकीर्त्युरगी दष्टास्तेषां भूयादधोगतिः ॥४५॥
अद्य मे कलुषा कीर्तिः स्वर्धुनी लोकविश्रुता
तच्छृणुष्व वचो मेऽद्य रजकेन यथोदितम् ॥४६॥
अस्मिन्पुरेऽद्य रजक उक्तवाञ्जानकीभवम्
किंचिद्वाच्यं ततो भ्रातः किं करोमि महीतले ॥४७॥
किमात्मानं जहाम्यद्य किमेनां जानकीं स्त्रियम्
उभयोः किं मया कार्यं तत्तथ्यं ब्रूहि मे भवान् ॥४८॥
इत्युक्त्वा निर्गलद्बाष्पो वेपथु क्षुभितांगकः
पपात भूमौ विरजो धार्मिकाणां शिरोमणिः ॥४९॥
भ्रातरं पतितं दृष्ट्वा भरतो दुःखसंयुतः
संवीक्ष्य शनकै रामं प्राप्तसंज्ञं चकार सः ॥५०॥
संज्ञां प्राप्तं तु संवीक्ष्य रामचंद्रं सुदुःखितम्
उवाच दुःखनाशाय वाक्यं तु सुमनोहरम् ॥५१॥
कोऽयं वै रजकः किंतु वाच्यं वाक्यं यथाब्रवीत्
जिह्वाच्छेदं करिष्यामि जानकीवाच्यकारिणः ॥५२॥
तदा रामोऽब्रवीद्वाक्यं रजकस्य मुखोद्गतम्
श्रुतं चारेण तत्सर्वं भरताय महात्मने ॥५३॥
तच्छ्रुत्वा भरतः प्राह भ्रातरं दुःखशोकिनम्
जानकीवह्निशुद्धाभूल्लंकायां वीरपूजिता ॥५४॥
ब्रह्माब्रवीदियं शुद्धा पिता दशरथस्तव
कथं सा रजकोक्तित्वाद्धातव्या लोकपूजिता ॥५५॥
ब्रह्मादिसंस्तुता कीर्तिस्तवलोकान्पुनाति हि
सा कथं रजकोक्त्या वै कलुषाद्य भविष्यति ॥५६॥
तस्मात्त्यज महादुःखं सीतावाच्यसमुद्भवम्
कुरु राज्यं तया सार्धमंतर्वत्न्या सुभाग्यया ॥५७॥
त्वं कथं स्वशरीरं तु हातुमिच्छसि शोभनम्
वयं हताः स्म सर्वेऽद्य त्वां विना दुःखनाशकम् ॥५८॥
क्षणं सीता न जीवेत त्वां विना सुमहोदया
तस्मात्पतिव्रता साकं भुनक्तु विपुलां श्रियम् ॥५९॥
इति वाक्यं समाकर्ण्य भरतस्य च धार्मिकः
पुनरेव जगादेमं वाक्यं वाक्यविदां वरः ॥६०॥
यत्त्वं कथयसि भ्रातस्तत्सर्वं धर्मसंयुतम्
परं यद्वच्म्यहं वाक्यं तत्कुरुष्व ममाज्ञया ॥६१॥
जानाम्येनां वह्निशुद्धां पवित्रां लोकपूजिताम्
लोकापवादाद्भीतोऽहं त्यजामि स्वां तु जानकीम् ॥६२॥
तस्मात्करे शितं धृत्वा करवालं सुदारुणम्
शिरश्छिंध्यथवा जायां जानकीं मुंच वै वने ॥६३॥
इति वाक्यं समाकर्ण्य रामस्य भरतोऽपतत्
मूर्च्छितः सन्क्षितौ देहे कंपयुक्तः सबाष्पकः ॥६४॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
भरतवाक्यंनाम षट्पंचाशत्तमोऽध्यायः ॥५६॥

N/A

References : N/A
Last Updated : November 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP