पातालखण्डः - अध्यायः ११०
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
श्रीराम उवाच-
अयमग्निशिखो नाम वह्निः शिवगणश्च वै
स कथं तादृशो भूतस्तन्मे वद नमस्तव ॥१॥
शंभुरुवाच-
अयमासीत्पुरा कश्चित्क्षत्त्रियः क्रोधनः सदा
नष्टभार्यो नष्टसेनो नष्टराष्ट्रोतिदुःखितः ॥२॥
लब्ध्वा लुलाय द्वितयं कृषिं चक्रे सहात्मजैः
ऋणेन महता युक्तः पुनश्चातीव दुःखितः ॥३॥
पुनश्च दुःखितो राजा सर्पेण सुतनाशनात्
तथाभूतो महीपालस्तत्याज कृषिमप्युत ॥४॥
परित्यज्य सुतौ चापि त्यक्ताहारो रुरोद ह
सुतावथ समागम्य प्राहतुः पितरं त्विदम् ॥५॥
किमर्थं रुद्यते तात नष्टो नायाति रोदनात्
शरीरशोषणायाथ शोकस्तेऽद्य भविष्यति ॥६॥
शोकेन चक्षुषी नष्टे कंठो नष्टस्तथा तव
अनुष्ठानं तथा नष्टं किमर्थं परितप्यसे ॥७॥
एको नष्टो न चायाति रक्ष पंचस्थितानसून्
बहूनां रक्षणं पुण्यमाश्रितानां विशेषतः ॥८॥
अन्याश्रितममुं शत्रुं कथं शोचितुमर्हसि
पितोवाच-
पुत्रः शत्रुः कथं पुत्रौ युवां शत्रू तथा च मे ॥९॥
अत्यंतसुखिनं पुत्रं कथं शत्रुमभाषतम्
सुतावूचतुः
जायमानो हरेद्भार्यां वर्द्धमानो हरेद्धनम् ॥१०॥
म्रियमाणस्तथा प्राणाञ्छत्रुत्वं किमतः परम्
यत्सुखं च त्वया प्रोक्तं स्पर्शनालिंगनादिभिः ॥११॥
दुःखोदर्कमिदं राजन्सर्वमेतद्वदामि ते
प्रसूतिकाले पुत्रस्य भार्यानाशविचारणा ॥१२॥
जीवितायामथोपत्न्यामात्मनः सुखनाशनम्
योन्यशुद्धौ तु जातायां संयोगो नोपपद्यते ॥१३॥
आलिंगनपरे गाढं स्तन्येनांगं परिप्लुते
तथापि यदि संयोगः शिशुरोदनताः स्त्रियाः ॥१४॥
दृढं शिशुगतं चित्तं ततो वैरस्यमेव च
अथ चेत्पतितो डिंभो मध्ये मैथुनमुद्गतिः ॥१५॥
रतिमध्ये तु विच्छेदे दुःखं किंचिदसन्निभम्
सर्वकाले परिमिते कदाचिद्रतिसंभवः ॥१६॥
तत्काले भोजनं नास्ति स्वापो नास्ति च भार्यया
शिशूनां रक्षणे दुःखं व्याधितर्षग्रहादिभिः ॥१७॥
तन्मतं यत्सुखं चित्रं यथांकारोहणं पितुः
आलिंगनकृतं तात चुंबनादिकृतं तथा ॥१८॥
अत्यन्तमधुरोक्त्यादि यत्सुखानि नरेश्वर
रतिमध्ये विरामस्य कलां नार्हंति षोडशीम् ॥१९॥
अन्यान्यपि च दुःखानि संति पुत्रे सहस्रशः
अनेन त्वं किं क्रियसे इहामुत्र विरोधिना ॥२०॥
त्यज शोकमिदं तस्मादावां पुत्रौ स्थिताविह
श्रीराजोवाच-
त्यजामि शोकं दुर्वारं सर्वकार्यविरोधिनम् ॥२१॥
आत्मनश्च हितं कार्यमिहामुत्र सुतौ मम
पुरोधसं तु गच्छामि मम पूर्वं महागुरुम् ॥२२॥
वसिष्ठं मुनिवर्यं च स दास्यति गतिं मम
एवमुक्त्वा गतो विप्रं वाराणस्यां स्थितं गुरुम् ॥२३॥
दंडवत्प्रणनामाथ मुनिना परिपूजितः
आलिंगितशिरो घ्रातो दत्तासनपरिग्रहः ॥२४॥
उक्तश्चागमनं किं ते किं कार्य्यं करवाणि वै
राजोवाच-
गतिं प्रयच्छ मे विप्र संसारतरणाय हि ॥२५॥
खिन्नोहं कर्मणा शश्वद्भवंतं शरणं गतः
वसिष्ठ उवाच-
गतिं पश्य महालिंगं विश्वेश्वरमिति स्थितम् ॥२६॥
एनं पूजय राजेंद्र देवदेवं पिनाकिनम्
यमाराध्य पुरा शक्तिररुंधत्याः सुतो मुनिः ॥२७॥
रक्षसा भक्षितश्चापि यमलोकं गतो न सः
किंचित्कालं गतः स्वर्गं ब्रह्मलोकमगादतः ॥२८॥
ब्रह्मलोकाद्विष्णुलोके क्रीडन्नास्ते सुतो मम
अमुं पश्य महाराज लुब्धकं वनचारिणम् ॥२९॥
पूजयंतं हि विश्वेशं पत्रमात्रै स्वसंभृतैः
शमीवृक्षस्य संभूतैस्तथा पूगप्रसूनकैः ॥३०॥
कदंबकुसुमैरर्ककुसुमैर्यूथिकाभवैः
एतैरन्यैर्महेशानं पूजयंतं विलोकय ॥३१॥
इतोर्द्धयाममात्रेण मरिष्यति तदद्भुतम्
अंतकाले समायाते लुब्धकोपि शिवाय वै ॥३२॥
उपहारप्रदानाय दृष्टवान्पार्श्वतो घटम्
तं चूतफलसंपूर्णं शुनोच्छिष्टं विगर्हितम् ॥३३॥
संकल्पितोपहारस्य ह्यभावाल्लुब्धकस्तथा
इदं जगौ शुभं वाक्यं लोकानां भक्तिसूचकम् ॥३४॥
पुष्पाभावे हरिर्नेत्रं फलाभावेंगुलं रविः
लिंगविस्रंसनेकं च जमदग्नि ऋषिस्तथा ॥३५॥
लिंगपीठविभेदे च गात्रं निर्भिद्य दत्तवान्
अन्यैर्माहैश्वरैरन्यत्साहसं परमं कृतम् ॥३६॥
ममापि तत्तथा कार्य्यमन्यथा दोषभागहम्
एतस्मिन्नंतरे कश्चिदुन्मत्तः शिवमभ्यगात् ॥३७॥
अथ लुब्धकृतां पूजामाहृत्याभक्षयत्क्षणात्
वमनं च तथा चक्रे शिवपीठेथ लुब्धकः ॥३८॥
शिवापकारिणं चैनं हन्मि नो वेत्यचिंतयत्
अथ स्वात्मवधायैव यत्नमास्थाय शंकरः ॥३९॥
उन्मत्तेन यथोद्भुक्ता शिवपूजा मया कृता
लिंगप्रावरणे ह्येषा तदहं मम देहिनः ॥४०॥
प्रावृतिस्त्वगियं त्वद्य निर्म्मोक्तव्या मया द्रुतम्
पूजाविमोचनायैतत्फलहानेर्गलं त्यजेत् ॥४१॥
इत्थं संकल्प्य स तथा तीक्ष्णस्वधितिनाद्भुतम्
चक्रे त्वचं दक्षपादं त्वचं च्छित्वा कटेरधः ॥४२॥
वामपादं तथा चक्रे कटिपर्यंतमाशुच
हृष्टश्चावेपितश्चैव तत ऊर्ध्वमथाच्छिनत् ॥४३॥
करांसोदरहृत्कंठत्वचं निर्भिद्य लुब्धकः
मस्तकस्य त्वचं चापि निर्बिभेद प्रहृष्टवान् ॥४४॥
तयोरंतरतस्तस्माद्गात्रं निर्भिद्य वर्तुलम्
छित्त्वांगुलि समादाय देवायार्पितवांस्त्वचम् ॥४५॥
आरादेव तथा दिव्यरूपः स्वक्षश्चतुर्भुजः
नानाभूषणसंयुक्तः स्थितो वियति शाङ्करः ॥४६॥
अथ शैवाः समायाता दूताः शतसहस्रशः
विचित्रमुकुटाकाराः सर्वाभरणभूषिताः ॥४७॥
त्रिशूलपाणयः सर्वे शुद्धस्फटिकसंनिभाः
चतुर्भुजाः सुरूपाश्च विमानवरसंस्थिताः ॥४८॥
सर्वे सूर्यसमाः शांता रंभावत्प्रियया युताः
सूनुपत्नीबलोत्साह विलासस्त्रीशतान्विताः ॥४९॥
तेजसा सूर्यसदृशाः पुष्पवृष्टिमवाकिरन्
तैराहूतो लुब्धकश्च नागच्छदवदच्च तान् ॥५०॥
भार्याबंधुजनोपेतो गच्छेहमथवा न वा
शैवास्तद्वचनं श्रुत्वा वाक्यमेतदथोचिरे ॥५१॥
येन पुण्यं कृतं पापं तेन भोग्यं हि तत्फलम्
लुब्धक उवाच-
अशौचानां च सर्वेषां धर्माणामेककर्तृकम् ॥५२॥
माहेश्वराणां धर्माणां फलं च द्विबहुष्वपि
एतस्मिन्नंतरे प्राप्तो वीरभद्रः शतार्भकः ॥५३॥
नानाकोटिगणोपेतो एहि लुब्धकबंधुयुक्
सर्वं त्वयोक्तं च तथा सभार्यो ज्ञातिबंधुयुक् ॥५४॥
आरुह्येदं विमानं च शिवं गच्छ शिवं तु वः
अथ तद्वचनात्प्राप्तः शिवलोकं विमानगः ॥५५॥
वसिष्ठ उवाच-
दृष्टवानसि सर्वं त्वमीशपूजां समाचर
विमुक्तपापबंधस्त्वं शिवलोकं गमिष्यसि ॥५६॥
यदि राज्यं त्वया प्रार्थ्यं मार्जयेशां गणं नृप
गोमयोदकलेपं च नित्यमेव समाचर ॥५७॥
एतावता भूमिराज्यं ध्रुवं तव भविष्यति
यावदायुश्च ते राज्यमंते शिवपदं भवेत् ॥५८॥
नैतस्मिंस्तु भवेद्राज्यसंसिद्धिरनुमृत्युतः
अतो देहांतरं प्राप्य शिवसेवाप्रभावतः ॥५९॥
भविष्यति च ते राज्यं शिवभक्तिः स्थिरा तथा
शंभुरुवाच-
अथ कृत्वा तथा पूजां मृतः स्वर्गं गतस्ततः ॥६०॥
राजजन्मपुनः प्राप्य राज्यं चक्रे शिवेरतः
कदाचिदथ देवस्य गृहमभ्यगमन्नृपः ॥६१॥
नानादीपसमोपेतं मणिभिर्नागराडिव
भटानामथ संमर्द एको दीपो पतन्नृपे ॥६२॥
तदासौ कुपितो राजा दीपमादाय सत्वरम्
देवालयपुरे रम्ये न्यक्षिपत्कोपसंयुतः ॥६३॥
दग्धं देवगृहं तेन एनश्च समपद्यत
अथ तेन पुनस्तत्र दग्धं वेश्मगृहादिकम् ॥६४॥
निर्मापयामास नृपो महेशानमथायजत्
अथ मृत्युदिने प्राप्ते राजाराधितशंकरः ॥६५॥
भस्मस्नायी भस्मशायी जपन्रुद्रं ममार ह
शिवलोकं गतः सोयं वीरभद्रेण भाषितः ॥६६॥
भव त्वं गणशार्दूलो ममवै परिचारकः
शाङ्करान्मम निर्देशादानयस्व ममांतिकम् ॥६७॥
शिरोहीनो भवांश्चापि ज्वालावक्त्रो भविष्यति
सतूवाच महात्मानं वीरभद्रं गणेश्वरम् ॥६८॥
चक्षुः श्रोत्रं तथा जिह्वा नासिकास्यं शिरोगणः
एतैर्विना व्यवहृतिः कथं मे संभविष्यति ॥६९॥
अभावे शिरसः किं वा मया पापं कृतं विभो
वीरभद्र उवाच-
त्वयैव स्वीकृता पूर्वं देवी परमसुंदरी ॥७०॥
महेशभवनं नित्यं चार्तुवर्णकरंगकैः
स्वस्तिकं सर्वतोभद्रं नंद्यावर्तादिकं शुभम् ॥७१॥
पद्ममुत्पलमांदोल पादो व्यजन चामरे
त्रिशूलं शंखचक्रे च गदाधनुरथैव च ॥७२॥
त्रिशूलं डमरुंखड्गं वृषं भृंगिरिटिं शिवम्
तथाष्टपत्रं कमलमन्यद्यंत्रादिकं तथा ॥७३॥
कल्पयंती प्रतिदिनं सेवते वृषभध्वजम्
कदाचिदथ सा वेश्या देवसद्मन्युपस्थिता ॥७४॥
राज्ञः कारांकिकः कश्चिद्देववेश्म समाविशत्
अथ तां दृष्टवांस्तत्र स इदं वाक्यमुक्तवान् ॥७५॥
काराङ्किक उवाच-
एकांतसंस्थिता वेश्या युवाहं स्थविरश्च न
स्थविरं व्याधितं षंढमशक्तं धनवर्जितम् ॥७६॥
अदीर्घमेहनं दीनं पुरुषं योषिदुत्सृजेत्
अश्मश्रुलं मलच्छन्नं जडं दुर्गंधिदूषितम् ॥७७॥
स्वल्पमव्यसनं नारी दूरतः परिवर्ज्जयेत्
तस्मान्मे दीयतां वेश्ये मैथुनं जीवयाशु माम् ॥७८॥
वेश्योवाच-
नियतः सर्वजातीनामिहामुत्र सुखप्रदः
पातिव्रत्यं परो धर्म्मः स्त्रीणामिति हि शुश्रुम ॥७९॥
यदधीना यदा वेश्या तदा नान्येन संगता
पतिव्रतेति विख्याता तस्मात्तं परिपालयेत् ॥८०॥
कारांकिक उवाच-
यदि चैवं मृतिः शीघ्रं भविष्यति न संशयः
अथ राजांतिकं गत्वा राजानमिदमुक्तवान् ॥८१॥
वेश्या वेश्यैव नो भार्या नेति वक्तुं च नोचितम्
इत्थं राजानमुक्त्वाथ मंडं चैवारनालजम् ॥८२॥
किंचिदादाय तस्यास्तु मंदिरं गतवानयम्
निद्रावसरमालोक्य प्रसृज्यच करं ततः ॥८३॥
वस्त्रस्य विवरे तत्र मंडं चिक्षेप दुष्टधीः
एवं कृत्वा ततो गत्वा राजानमिदमुक्तवान् ॥८४॥
राजन्निर्गत्य गत्वाथ वेश्याग्र्यां तव योषितः
उत्थापयित्वा वेश्यां तां सर्वांगं द्रष्टुमर्हसि ॥८५॥
उन्मुक्तबंधमथवा वसनं पश्य यत्नतः
वेश्यावेश्माथगतवान्राजा कारांकिकं वचः ॥८६॥
इदमाह सनिद्रेयं पश्येमां यामि पश्यसि
स तूवाच नृपं तत्र न मे युक्तमिदं नृप ॥८७॥
तन्मातरं वा पितरं दर्शनाय नियोजय
तद्दृष्टौ सर्वमेवेदं व्यक्तमाशु भविष्यति ॥८८॥
आनीता ह्यथ राज्ञा तु माता वीक्षितुमुद्यता
वचनात्तु नृपस्यैव वस्त्रं शोधयतीव सा ॥८९॥
तत्रस्थितं मंडमथ विज्ञायांबा ह्यमर्दयत्
मर्दनाद्वसनं क्लिन्नं किं तदित्याह पार्थिवः ॥९०॥
न किंचिद्देव नो किंचिदिति वेश्याप्रसूरपि
बहुवाक्येन राजाथ वसनं वीक्ष्य शंकया ॥९१॥
शुक्रक्लिन्नमिदं वासः प्राहैतत्पश्यतामिति
अथ दृष्ट्वा समीपस्थास्तथेत्यूचुर्वचो नृपम् ॥९२॥
राजाथ स्वगृहं गत्वा दंडाध्यक्षमभाषत
इदानीमेव वेश्यायाः शिरश्छिंध्यविचारयन् ॥९३॥
दर्शनीयं शिरस्तस्या घटिकाभ्यंतरे मम
दंडकश्च नृपोक्त्यास्यास्तथा कृत्वा ह्यदर्शयत् ॥९४॥
वीरभद्र उवाच-
एवं कृतं त्वया पूर्वं प्राप्तं च फलमद्य ते
ज्वालयैव हि वक्ता त्वं श्रोता द्रष्टा च जिघ्रसि ॥९५॥
रसं जानासि मतिमानतिक्रोधी भविष्यसि
शंभुरुवाच-
एवं ज्वालामुखो जातो राजा माहेश्वरोऽक्षमी ॥९६॥
तस्मात्तु क्षमिणा भाव्यं परत्रेह सुखेप्सुना
य इदं शृणुयान्नित्यं पुण्याख्यानमनुत्तमम् ॥९७॥
विमुक्तपापबंधश्च शिवलोके भविष्यति ॥९८॥
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे शिवपूजामाहात्म्यकथनं
नाम दशोत्तरशततमोऽध्यायः ॥११०॥
N/A
References : N/A
Last Updated : November 13, 2020
TOP