पातालखण्डः - अध्यायः ११
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
शेष उवाच
एवमाज्ञाप्य भगवान्रामश्चामित्रकर्षणः
वीरानालोकयन्भूयो जगाद शुभया गिरा ॥१॥
शत्रुघ्नस्य मम भ्रातुर्वाजिरक्षाकरस्य वै
को गंता पृष्ठतो रक्षंस्तन्निदेशप्रपालकः ॥२॥
यः सर्ववीरान्प्रतिमुख्यमागतान्विनिर्जयेन्मर्मभिदस्त्रसंघैः
गृह्णात्वसौ मे करवीटकं तद्भूमौ यशः स्वं प्रथयन्सुविस्तरम् ॥३॥
इत्युक्तवति रामे तु पुष्कलो भरतात्मजः
जग्राह वीटकं तस्माद्रघुराजकरांबुजात् ॥४॥
स्वामिन्गच्छामि शत्रुघ्न पृष्ठरक्षाकरोऽन्वहम्
सन्नद्धः सर्वशस्त्रास्त्र चापबाणधरः प्रभो ॥५॥
सर्वमद्य क्षितितलं त्वत्प्रतापो विजेष्यते
एते निमित्तभूता वै रामचंद्र महामते ॥६॥
भवत्कृपातः सकलं ससुरासुरमानुषम्
उपस्थितं प्रयुद्धाय तन्निषेधे क्षमो ह्यहम् ॥७॥
सर्वं स्वामी ज्ञास्यति यन्ममविक्रम दर्शनात्
एष गंतास्मि शत्रुघ्न पृष्ठरक्षाप्रकारकः ॥८॥
एवं ब्रुवंतं भरतात्मजं स प्रस्तूय साध्वित्यनुमोदमानः
शशंस सर्वान्कपिवीरमुख्यान्प्रभंजनोद्भूतमुखान्हरिः प्रभुः ॥९॥
भो हनूमन्महावीर शृणु मद्वाक्यमादृतः
त्वत्प्रसादान्मया प्राप्तमिदं राज्यमकंटकम् ॥१०॥
सीतया मम संयोगे यो भवाञ्जलधिं तरेः
चरितं तद्धरे वेद्मि सर्वं तव कपीश्वर ॥११॥
त्वं गच्छ मम सैन्यस्य पालकः सन्ममाज्ञया
शत्रुघ्नः सोदरो मह्यं पालनीयस्त्वहं यथा ॥१२॥
यत्र यत्र मतिभ्रंशः शत्रुघ्नस्य प्रजायते
तत्र तत्र प्रबोद्धव्यो भ्राता मम महामते ॥१३॥
इति श्रुत्वा महद्वाक्यं रामचंद्रस्य धीमतः
शिरसा तत्समाधाय प्रणाममकरोत्तदा ॥१४॥
अथादिशन्महाराजो जांबवंतं कपीश्वरम्
रघुनाथस्य सेवायै कपिषूत्तमतेजसम् ॥१५॥
अंगदो गवयो मैंदस्तथा दधिमुखः कपिः
सुग्रीवः प्लवगाधीशः शतवल्यक्षिकौ कपी ॥१६॥
नीलो नलो मनोवेगोऽधिगंता वानरांगजः
इत्येवमादयो यूयं सज्जीभूता भवंतु भोः ॥१७॥
सर्वैर्गजैः सदश्वैश्च तप्तहाटकभूषणैः
कवचैः सशिरस्त्राणैर्भूषितायां तु सत्वराः ॥१८॥
शेष उवाच
सुमंत्रमाहूय सुमंत्रिणं तदा जगाद रामो बलवीर्यशोभनः
अमात्यमौले वद केऽत्र योज्या नरा हयं पालयितुं समर्थाः ॥१९॥
तदुक्तमेवमाकर्ण्य जगाद परवीरहा
हयस्य रक्षणे योग्यान्बलिनोऽत्र नराधिपान् ॥२०॥
रघुनाथ शृणुष्वैतान्नववीरान्सुसंहितान्
धनुर्धरान्महाविद्यान्सर्वशस्त्रास्त्रकोविदान् ॥२१॥
प्रतापाग्र्यं नीलरत्नं तथा लक्ष्मीनिधिं नृपम्
रिपुतापं चोग्रहयं तथा शस्त्रविदं नृपम् ॥२२॥
राजन्योऽसौ नीलरत्नो महावीरो रथाग्रणीः
स एव लक्षं रक्षेत लक्षं युध्येत निर्भयः ॥२३॥
अक्षौहिणीभिर्दशभिर्यातु वाहस्य रक्षणे
दंशितैस्स शिरस्त्राणैर्मम बाहुभिरुद्धतैः ॥२४॥
प्रतापाग्र्यो यो ह्ययं च रिपुगर्वमशातयत्
सव्यापसव्यबाणानां मोक्ता सर्वास्त्रवित्तमः ॥२५॥
एषोऽक्षौहिणिविंशत्या यातु यज्ञहयावने
सन्नद्धो रिपुनाशाय युवाको दंडदंडभृत् ॥२६॥
तथा लक्ष्मीनिधिस्त्वेष यातु राजन्यसत्तमः
यस्तपोभिः शतधृतिं प्रसाद्यास्त्राणि चाभ्यसत् ॥२७॥
ब्रह्मास्त्रं पाशुपत्यास्त्रं गारुडं नागसंज्ञितम्
मायूरं नाकुलं रौद्रं वैष्णवं मेघसंज्ञितम् ॥२८॥
वज्रं पार्वतसंज्ञं च तथा वायव्यसंज्ञितम्
इत्यादिकानामस्त्राणां संप्रयोगविसर्गवित् ॥२९॥
स एष निजसैन्यानामक्षौहिण्यैकया युतः
प्रयातु शूरमुकुटः सर्ववैरिप्रभंजनः ॥३०॥
रिपुतापोऽयमेवाद्य गच्छत्वग्र्यो धनुर्भृताम्
सर्वशस्त्रास्त्रकुशलो रिपुवंशदवानलः ॥३१॥
गच्छतात्सेनया बह्व्या चतुरंगसमेतया
शत्रुघ्नाज्ञां शिरस्येते दधत्वद्य बलोत्कटाः ॥३२॥
उग्राश्वोऽपि महाराजा तथा शस्त्रविदेष च
सर्वे यांतु सुसंनद्धास्तव वाहस्य पालकाः ॥३३॥
इति भाषितमाकर्ण्य मंत्रिणः प्रजहर्ष च
आज्ञापयामास च तान्सुमंत्रकथितान्भटान् ॥३४॥
तेऽनुज्ञां रघुनाथस्य प्राप्य मोदं प्रपेदिरे
चिरकालं सांपरायं वांच्छंतो युद्धदुर्मदाः ॥३५॥
सन्नद्धाः कवचाद्यैश्च तथा शस्त्रास्त्रवर्तनैः
ययुः शत्रुघ्नसंवासं सीतापति प्रणोदिताः ॥३६॥
शेष उवाच
अथोक्त ऋषिणा रामो विधिना पूजयत्क्रमात्
आचार्यादीनृषीन्सर्वान्यथोक्तवरदक्षिणैः ॥३७॥
आचार्याय ददौ रामो हस्तिनं षष्टिहायनम्
हयमेकं मनोवेगं रत्नमालाविभूषितम् ॥३८॥
पौरटं रथमेकं च मणिरत्नविभूषितम्
चतुर्भिर्वाजिभिर्युक्तं सर्वोपस्करसंयुतम् ॥३९॥
मणिलक्षं तु प्रत्यक्षं मुक्ताफलतुलाशतम्
विद्रुमस्य तुलानां तु सहस्रं स्फुटतेजसाम् ॥४०॥
ग्राममेकं सुसंपन्नं नानाजनसमाकुलम्
विचित्रसस्यनिष्पन्नं विविधैर्मंदिरैर्वृतम् ॥४१॥
ब्रह्मणेऽपि तथैवादाद्धोत्रेऽप्यध्वर्यवे ददौ
ऋत्विग्भ्यो भूरिशो दत्त्वा प्रणनाम रघूत्तमः ॥४२॥
सर्वे ते विविधा वाग्भिराशीर्भिरभिपूजिताः
चिरंजीव महाराज रामचन्द्र रघूद्वह ॥४३॥
कन्यादानं भूमिदानं गजदानं तथैव च
अश्वदानं स्वर्णदानं तिलदानं समौक्तिकम् ॥४४॥
अन्नदानं पयोदानमभयं दानमुत्तमम्
रत्नदानानि सर्वाणि विप्रेभ्यश्चादिशन्महान् ॥४५॥
देहि देहि धनं देहि मानेति ब्रूहि कस्यचित्
ददात्वन्नं ददात्वन्नं सर्वभोगसमन्वितम् ॥४६॥
इत्थं प्रावर्तत मखो रघुनाथस्य धीमतः
सदक्षिणो द्विजवरैः पूर्णः सर्वशुभक्रियः ॥४७॥
अथ रामानुजो गत्वा मातरं प्रणनाम ह
आज्ञापयाश्वरक्षार्थमेष गच्छामि शोभने ॥४८॥
त्वत्कृपातो रिपुकुलं जित्वा शोभासमन्वितः
आयास्यामि महाराजैर्हयवर्यसमन्वितः ॥४९॥
मातोवाच
पुत्र गच्छ महावीर शिवाः पंथान एव ते
सर्वान्रिपुगणाञ्जित्वा पुनरागच्छ सन्मते ॥५०॥
पुष्कलं पालय निजभ्रातृजं धर्मवित्तमम्
महाबलिनमद्यापि बालकं लीलयायुतम् ॥५१॥
पुत्रागच्छसि चेद्युक्तः पुष्कलेन शुभान्वितः
तदा मम प्रमोदः स्यादन्यथा शोकभागहम् ॥५२॥
इति संभाष्यमाणां स्वां मातरं प्रत्युवाच सः
त्वदीयचरणद्वंद्वं स्मरन्प्राप्स्यामि शोभनम् ॥५३॥
पुष्कलं पालयित्वाहं निजांगमिव शोभने
स्वनामसदृशं कृत्वा पुनरेष्यामि मोदवान् ॥५४॥
इत्युक्त्वा प्रययौ वीरो रामं स मखमंडपे
आसीनं मुनिवर्याग्र्यैर्यज्ञवेषधरं वरम् ॥५५॥
उवाच मतिमान्वीरः सर्वशोभासमन्वितः
रामाज्ञापय रक्षार्थं हयस्यानुज्ञया तव ॥५६॥
रघुनाथोऽपि तच्छ्रुत्वा भद्रमस्त्विति चाब्रवीत्
बालं स्त्रियं प्रमत्तं त्वं मा हन्याः शस्त्रवर्जितम् ॥५७॥
तदा लक्ष्मीनिधिर्भ्राता जानक्या जनकात्मजः
प्रहस्य किंचिन्नयने नर्तयन्राममब्रवीत् ॥५८॥
लक्ष्मीनिधिरुवाच
रामचंद्र महाबाहो सर्वधर्मपरायण
शत्रुघ्नं शिक्षय तथा यथा लोकोत्तरो भवेत् ॥५९॥
कुलोचितं कर्म कुर्वन्नग्रजाचरितं तथा
गच्छेत्स परमं धाम तेजोबलसमन्वितम् ॥६०॥
त्वया प्रोक्तं महाराज ब्राह्मणं नावमानयेत्
पित्रा तव हतो विप्रः पितृभक्तिपरायणः ॥६१॥
त्वयापि सुमहत्कर्म कृतं लोकविगर्हितम्
अवध्यां महिलां यस्त्वं हतवान्नियतं ततः ॥६२॥
अग्रजोऽस्य महाराज कृतवान्यं पराक्रमम्
सनकेन कृतः पूर्वं राक्षस्याः कर्णकर्तनम् ॥६३॥
एवं करिष्यति नृपः शत्रुघ्नः शिक्षया तव
यदि नायं तथा कुर्यात्कुलस्यासदृशं भवेत् ॥६४॥
इत्युक्तवंतं तं रामः प्रत्युवाच हसन्निव
मेघगंभीरया वाचा सर्ववाक्यविशारदः ॥६५॥
शृण्वंतु योगिनः शांताः समदुःखसुखाः पुनः
जानंत्यपारसंसारनिस्तारतरणादिकम् ॥६६॥
ये शूराः समहेष्वासाः सर्वशस्त्रास्त्रकोविदाः
ते च जानंति युद्धस्य वार्त्तां न तु भवादृशाः ॥६७॥
परोपतापिनो ये वै ये चोत्पथविसारिणः
ते हंतव्या नृपैः सर्वैः सर्वलोकहितैषिभिः ॥६८॥
इत्युक्तमाकर्ण्य सभासदस्ते सर्वे स्मितं चक्रुररिंदमस्य
कुंभोद्भवः पूजितमेनमश्वं विमोचयामास सुशोभितं हि ॥६९॥
इमं मंत्रं समुच्चार्य वसिष्ठः कलशोद्भवः
कराग्रेण स्पृशन्नश्वं मुमोच जयकांक्षया ॥७०॥
वाजिन्गच्छ यथालीलं सर्वत्र धरणीतले
यागार्थे मोचितो येन पुनरागच्छ सत्वरः ॥७१॥
अश्वस्तु मोचितः सर्वैर्भटैः शस्त्रास्त्रकोविदैः
परीतः प्रययौ प्राचीं दिशं वायुजवान्वितः ॥७२॥
प्रचचार बलं सर्वं कंपयद्धरणीतलम्
शेषोऽपि किंचिन्न तया फणया धृतवान्भुवम् ॥७३॥
दिशः प्रसेदुः परितः क्ष्मातलं शोभयान्वितम्
वायवस्तं तु शत्रुघ्नं पृष्ठतो मंदगामिनः ॥७४॥
शत्रुघ्नस्य प्रयाणायाभ्युद्य तस्य भुजोऽस्फुरत्
दक्षिणः शुभमाशंसी जयाय च बभूव ह ॥७५॥
पुष्कलः स्वगृहं रम्यं प्रविवेश समृद्धिमत्
वितर्दिभिर्वलक्षाभिः शोभितं रत्नवेदिकम् ॥७६॥
तत्रापश्यन्निजां भार्यां पतिव्रतपरायणाम्
किंचित्स्वदर्शनाद्धृष्टां भर्तृदर्शनलालसाम् ॥७७॥
मुखारविंदेन च नागवल्लीदलं सुकर्पूरयुतं च चर्वती
नासाफलं तोयभवं महाधनं बाह्वोर्मृणालीसदृशोः सुकंकणे ॥७८॥
कुचौ तु मालूरफलोपमौ वरौ नितंबबिंबं वरनीवि शोभितम्
पादौ तुलाकोटिधरौ सुकोमलौ दधत्यहो एक्षत सत्पतिं स्वकम् ॥७९॥
परिरभ्य प्रियां धीरो गद्गदस्वरभाषिणीम्
तदुरोजपरीरंभनिर्भरीकृतदेहकाम् ॥८०॥
उवाच भद्रे गच्छामि शत्रुघ्नपृष्ठरक्षकः
रामाज्ञया याज्ञमश्वं पालयन्रथसंयुतः ॥८१॥
त्वया मे मातरः पूज्याः पादसंवाहनादिमिः
तदुच्छिष्टं हि भुंजाना तत्कर्मकरणादरा ॥८२॥
सर्वाः पतिव्रता नार्यो लोपामुद्रादिकाः शुभाः
नावमान्यास्त्वया भीरु स्वतपोबलशोभिताः ॥८३॥
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे हयमोचन-
पुष्कलभार्यासमागमोनाम एकादशोऽध्यायः ॥११॥
N/A
References : N/A
Last Updated : November 04, 2020
TOP