संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः| अध्यायः ७९ पातालखण्डः वि्षयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ पातालखण्डः - अध्यायः ७९ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ७९ Translation - भाषांतर ईश्वर उवाच-शालग्रामे मणौयंत्रे मंडले प्रतिमासु चनित्यं तु श्रीहरेः पूजा केवले भवनेन तु ॥१॥गंडक्यामेकदेशे तु शालग्रामस्थलं महत्पाषाणं तद्भवं पातु शालग्राममिति स्थितम् ॥२॥शालग्रामशिलास्पर्शात्कोटिजन्माघनाशनम्किं पुनः पूजनं तत्र हरेः सांनिध्यकारणम् ॥३॥शालग्रामैकयजनाच्छतलिंगीफलं लभेत्बहुभिर्जन्मभिः पुण्यैर्यदिकृष्णशिलां लभेत् ॥४॥गोष्पदेन च चिह्नेन जनुस्तेन समाप्यतेआदौ शिलां परीक्षेत स्निग्धां श्रेष्ठां च मेचकाम् ॥५॥आकृष्णा मध्यमा प्रोक्ता मिश्रा मिश्रफलप्रदासदा काष्ठे स्थितो वह्निर्मथनेन प्रकाश्यते ॥६॥यथा तथा हरिर्व्यापी शालग्रामे प्रतीयतेप्रत्यहं द्वादशशिलाः शालग्रामस्य योऽर्चयेत् ॥७॥द्वारवत्याः शिलायुक्ताः स वैकुंठे महीयतेशालग्रामशिलायां तु गह्वरं लक्षते नरः ॥८॥पितरस्तस्य तिष्ठंति तृप्ताः कल्पांतकं दिविवैकुंठभवनं तत्र यत्र द्वारावती शिला ॥९॥मृतो विष्णुपुरं याति तत्तीर्थं योजनत्रयम्जपः पूजा च होमश्च सर्वं कोटिगुणं भवेत् ॥१०॥मनस्कामसमाभीष्टं क्रोशमात्रं न संशयःकीटकोऽपि मृतिं याति वैकुंठभवनं यतः ॥११॥शालग्रामशिलायां यो मूल्यमुद्घाटयेन्नरःविक्रेता चानुमंता च यः परीक्षानुमोदकः ॥१२॥सर्वे ते नरकं यांति यावत्सूर्यश्च संप्लवःअतस्तद्वर्जयेद्देवि चक्रक्रयणविक्रयम् ॥१३॥शालग्रामोद्भवो देवो यो देवो द्वारकोद्भवःउभयोः संगमो यत्र मुक्तिस्तत्र न संशयः ॥१४॥द्वारकोद्भवचक्राढ्यो बहुचक्रेण चिह्नितःचक्रासनशिलाकारचित्स्वरूपो निरंजनः ॥१५॥नमोऽस्त्वोंकाररूपाय सदानंदस्वरूपिणेशालग्राममहाभाग भक्तस्यानुग्रहं कुरु ॥१६॥तवानुग्रहकामस्य ऋणग्रस्तस्य मे प्रभोअतः परं प्रवक्ष्यामि तिलकस्य विधिं मुदा ॥१७॥यच्छ्रुत्वा मानवाः सर्वे विष्णुसारूप्यमाप्नुयुःललाटे केशवं विद्यात्कंठे श्रीपुरुषोत्तमम् ॥१८॥नाभौ नारायणं देवं वैकुंठं हृदये तथादामोदरं वामपार्श्वे दक्षिणे च त्रिविक्रमम् ॥१९॥मूर्ध्नि चैव हृषीकेशं पद्मनाभं च पृष्ठतःकर्णयोर्यमुनां गंगां बाह्वोः कृष्णं हरिं तथा ॥२०॥यथास्थानेषु तुष्यंति देवता द्वादश स्मृताःद्वादशैतानि नामानि कर्तव्ये तिलके पठेत् ॥२१॥सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छतिऊर्द्ध्वपुंड्रमूर्द्ध्वरेखं ललाटे यस्य दृश्यते ॥२२॥चांडालोऽपि स शुद्धात्मा पूज्य एव न संशयःयस्योर्द्ध्वपुंड्रं दृश्येत न ललाटे नरस्य हि ॥२३॥तद्दर्शनं न कर्त्तव्यं दृष्ट्वा सूर्यं निरीक्षयेत्त्रिपुंड्रं यस्य विप्रस्य ऊर्द्ध्वपुंड्रं न दृश्यते ॥२४॥तं दृष्ट्वाप्यथवा स्पृष्ट्वा सचैलं स्नानमाचरेत्सांतरालं प्रकर्त्तव्यं पुंड्रं हरिपदाकृति ॥२५॥निरंतरालं यः कुर्यादूर्द्ध्वपुंड्रं द्विजाधमःललाटे तस्य सततं शुनःपादो न संशयः ॥२६॥नासादिकेशपर्यंतमूर्द्ध्वपुंड्रं सुशोभनम्मध्ये छिद्रसमायुक्तं तं विद्याद्धरिमंदिरम् ॥२७॥वामभागे स्थितो ब्रह्मा दक्षिणे तु सदाशिवःमध्ये विष्णुं विजानीयात्तस्मान्मध्यं न लेपयेत् ॥२८॥वीक्ष्यादर्शे जले वापि यो विदध्यात्प्रयत्नतःऊर्द्ध्वपुंड्रं महाभागः सयाति परमां गतिम् ॥२९॥अग्निरापश्च वेदाश्च चंद्रादित्यौ तथानिलःविप्राणां नित्यमेते हि कर्णे तिष्ठंति दक्षिणे ॥३०॥गंगा च दक्षिणे श्रोत्रे नासिकायां हुताशनःउभयोरपि संस्पर्शात्तत्क्षणादेव शुध्यति ॥३१॥कृत्वा चैवोदकं शंखे वैष्णवानां महात्मनाम्तुलसीमिश्रितं दद्यात्पिबेन्मूर्ध्नाभिवंदयेत् ॥३२॥प्राश्नीयात्प्रोक्षयेद्देहं पुत्रमित्रपरिग्रहम्विष्णोः पादोदकं पीतं कोटिजन्माघनाशनम् ॥३३॥तदेवाष्टगुणं पापं भूमौ बिंदुनिपातनात्जलशंखं करे कृत्वा स्तुत्वा नत्वा प्रदक्षिणम् ॥३४॥सततं धार्यते वारि तेनाप्तं जन्मनः फलम्शंखो यस्य गृहे नास्ति घंटा वा गरुडान्विता ॥३५॥पुरतो वासुदेवस्य न स भागवतः कलौयानैर्वा पादुकाभिर्वा यानं भगवतो गृहे ॥३६॥देवोत्सवेष्वसेवा च अप्रणामस्तदग्रतःउच्छिष्टे चैव चाशौचे भगवद्वंदनादिकम् ॥३७॥एकहस्तप्रणामश्च तत्पुरस्तात्प्रदक्षिणम्पादप्रसारणं चाग्रे तथा पर्यंकसेवनम् ॥३८॥शयनं भक्षणं चापि मिथ्याभाषणमेव चउच्चैर्भाषामिथो जल्पो रोदनानि च विग्रहः ॥३९॥निग्रहानुग्रहौ चैव स्त्रीषु च क्रूरभाषणम्केवलावरणं चैव परनिंदापरस्तुतिः ॥४०॥अश्लीलभाषणं चैव अधोवायुविमोक्षणम्शक्तौ गौणोपचारश्च अनिवेदितभक्षणम् ॥४१॥तत्तत्कालोद्भवानां च फलादीनामनर्पणम्विनियुक्तावशिष्टस्य प्रदानं व्यंजनस्य यत् ॥४२॥स्पष्टीकृत्याशनं चैव परनिंदा परस्तुतिःगुरौ मौनं निजस्तोत्रं देवतानिंदनं तथा ॥४३॥अपराधास्तथा विष्णोर्द्वात्रिंशत्परिकीर्तिताः ॥४४॥अपराधसहस्राणि क्रियंतेऽहर्निशं मयातवाहमिति मां मत्वा क्षमस्व मधुसूदन ॥४५॥इति मंत्रं समुच्चार्य प्रणमेद्दंडवद्भुविअपराधसहस्राणि क्षमते सर्वदा हरिः ॥४६॥सायंप्रातर्द्विजातीनां श्रुत्युक्तमशनं तथाविष्णुभक्तावशिष्टस्य दिनपापात्प्रमुच्यते ॥४७॥अन्नं ब्रह्मा रसो विष्णुः खादयेन्मांसमुच्चरन्एवं ज्ञात्वा तु यो भुंक्ते सोऽन्नदोषैर्न लिप्यते ॥४८॥अलाबुं वर्त्तुलाकारं मसूरं च सवल्कलम्तालं शुक्लं च वृंताकं न खादेद्वैष्णवो नरः ॥४९॥वटाश्वत्थार्कपत्रेषु कुंभी तिंदुकपत्रयोःकोविदारे कदंबे च न खादेद्वैष्णवो नरः ॥५०॥श्रावणे वर्जयेच्छाकं दधि भाद्रपदे त्यजेत्आश्विने मासि दुग्धं च कार्त्तिके चामिषं त्यजेत् ॥५१॥दग्धमन्नं तु जंबीरं यद्विष्णोरनिवेदितम्बीजपूरं च शाकं चप्रत्यक्षलवणं तथा ॥५२॥यदि दैवाच्च भुंजीत तदा तन्नाम संस्मरेत्हैमंतिकं सिता स्विन्नं धान्यं मुद्गास्तिला यवाः ॥५३॥कलाप कंगु नीवाराः शाकं च हिलमोचिकाकालशाकं च वास्तूकं मूलकं रक्तकेतरत् ॥५४॥लवणे सिंधुसामुद्रे गव्ये च दधिसर्पिषीपयोनुद्धृतसारं च पनसाम्रहरीतकी ॥५५॥पिप्पली जीरकं चैव नागरंगक तिंतिडीकदलीलवली धात्री फलान्यगुडमैक्षवम् ॥५६अतैलपक्वं मुनयो हविष्यान्नं प्रचक्षतेतुलसीपत्रपुष्पाद्यैर्माल्यं वहति यो नरः ॥५७विष्णुं तमपि जानीयात्सत्यं सत्यं न संशयःधात्रीवृक्षं समारोप्य विष्णुतुल्यो भवेन्नरः ॥५८॥कुरुक्षेत्रं विजानीयात्सार्द्धं हस्तशतत्रयम्तुलसीकाष्ठघटितै रुद्राक्षाकारकारितैः ॥५९॥निर्मितां मालिकां कंठे निधायार्चनमारभेत्तथामलकमालां च सम्यक्पुष्करमालिकाम् ॥६०॥कंठे मालां च यत्नेन धारयेद्विष्णुपूजकःनिर्माल्यं तुलसीमालां शिरस्यपि च धारयेत् ॥६१॥निर्माल्यचंदनेनांगमंकयेत्तस्य नामभिःललाटे च गदा धार्या मूर्ध्नि चापं शरस्तथा ॥६२॥नंदकं चैव हृन्मध्ये शंखं चक्रं भुजद्वयेशंखचक्रान्वितो विप्रः श्मशाने म्रियते यदि ॥६३॥प्रयागे या गतिः प्रोक्ता सा गतिस्तस्य निश्चितायो धृत्वा तुलसीपत्रं शिरसा विष्णुतत्परः ॥६४॥करोति सर्वकार्याणि फलमाप्नोति चाक्षयम्तुलसीकाष्ठमालाभिर्भूषितः कर्म आचरन् ॥६५॥पितॄणां देवतानां च कृतं कोटिगुणं भवेत्निवेद्य केशवे मालां तुलसीकाष्ठनिर्मिताम् ॥६६॥वहते यो नरो भक्त्या तस्य नश्यति पातकम्पाद्यादिभिरथाभ्यर्च्य इमं मंत्रमुदीरयेत् ॥६७॥या दृष्टा निखिलाघसंघशमनी स्पृष्टा वपुः पावनीरोगाणामभिवंदिता निरसनी सिक्तांतकत्रासिनीप्रत्यासत्ति विधायिनी भगवतः कृष्णस्य संरोपितान्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः ॥६८॥इति श्रीपद्मपुराणे पातालखंडे वृंदावनमाहात्म्ये देवीश्वरसंवादेतिलकादिनिर्णयोनाम नवसप्ततितमोऽध्यायः ॥७९॥ N/A References : N/A Last Updated : November 06, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP