संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः| अध्यायः ८६ पातालखण्डः वि्षयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ पातालखण्डः - अध्यायः ८६ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ८६ Translation - भाषांतर सूत उवाच-इति तस्य वचः श्रुत्वा नारदस्य महात्मनःअंबरीषश्च राजर्षिर्विस्मितो वाक्यमब्रवीत् ॥१॥अंबरीष उवाच-मार्गशीर्षादिकान्मासान्हित्वा पुण्यान्महामुनेसर्वमासाधिकं मासं वैशाखं किं प्रशंससि ॥२॥सर्वेभ्योऽप्यधिकः कस्मान्माधवो माधवप्रियःको विधिस्तत्र किं दानं किं तपः का च देवता ॥३॥त्वत्पादांभोजरजसा पावितस्य च मे मुनेउपदेशप्रसादेन प्रसादं कर्तुमर्हसि ॥४॥धर्मज्ञो धर्ममार्गाणामुद्धर्तासि महामुनेत्वमेकोऽखिलतत्त्वार्थवेत्ता धर्मोपदेशकः ॥५॥कर्तोपदेष्टा मंता वानुमंतापि प्रयोजकःशास्त्रविद्भिर्मुनिवर स्मर्यंते समभागिनः ॥६॥व्रतसत्रतपोदानैर्यत्फलं समवाप्यतेधर्मोपदेशनेनैव तत्सर्वमुपलभ्यते ॥७॥तीर्थस्नानं तपोयज्ञकर्म यत्कुरुते मुनेअपि तत्फलभागीस्याद्यः प्रवर्तयिता भवेत् ॥८॥यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनःस यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥९॥तदर्हति भवान्धर्ममुपदेष्टुं तदद्भुतम्दुर्ल्लभो गुरुसंबोधो देशकालोपपत्तयः ॥१०॥न केचन तथा भावाश्चेतः शीतलयंतिनःराज्यलाभादयोऽप्येते यथा तव समागमः ॥११॥सूत उवाच-अथ मंदमृदुस्मेरस्फुरद्दंतप्रभानुगःअंबरीषं प्रत्युवाच नारदो मुनिसत्तमः ॥१२॥नारद उवाच-शृणु राजन्प्रवक्ष्यामि हिताय जगतस्तवविधिर्माधवमासस्य यच्छ्रुतो ब्रह्मणः पुरा ॥१३॥दुर्ल्लभं भारते वर्षे जन्म तस्मान्मनुष्यतामानुष्ये दुर्ल्लभे लोके स्वस्वधर्मप्रवर्त्तनम् ॥१४॥ततोऽपि भक्तिर्भूपाल वासुदेवेऽतिदुर्ल्लभातत्रापि दुर्ल्लभो मासो माधवो माधवप्रियः ॥१५॥तमवाप्य ततो मासं स्नानदानजपादिकम्कुर्वंति विधिना ये तु धन्यास्ते कृतिनो नराः ॥१६॥तेषां दर्शनमात्रेण पापिनोऽपि विकिल्बिषाःभवंति भगवद्भावभाविता धर्मकांक्षिणः ॥१७॥माधवे मासि यैः स्नातं प्रातर्नियमसंयुतैःते कोटिवर्षपर्यंतं क्रीडंते नंदने वने ॥१८॥यथा न वारिधिसमो लोके कोऽपि जलाशयःतथा मासो न वैशाखसदृशो माधवप्रियः ॥१९॥तावत्पापानि तिष्ठंति मनुष्याणां कलेवरेयावत्किलमलध्वंसी मासो नायाति माधवः ॥२०॥अवशिष्टदिनान्येव पंचमासस्य तस्य वैएकादशीं समारभ्य सर्वमाससमानि वै ॥२१॥वैशाखे पूजितो देवो माधवो मधुहा तु यैःनानोपचारै राजेंद्र तैः प्राप्तं जन्मनः फलम् ॥२२॥किं किं न दुर्ल्लभतरं प्राप्यते मासि माधवेस्नानेन परमेशस्य पूजनेन यथाविधि ॥२३॥न दत्तं न हुतं जप्तं न तीर्थे मरणं कृतम्यैर्हि नारायणो नैव ध्यातो निखिलपापहा ॥२४॥तेषां जन्म नृणां लोके ज्ञातव्यं निष्फलं नृपद्रव्येषु विद्यमानेषु कृपणो यो भवेन्नरः ॥२५॥अदत्वा म्रियते यो हि तस्य द्रव्यं निरर्थकम्तीर्थस्नानादि तपसा सत्कुले जन्म लभ्यते ॥२६॥न दानेन विना भूप किंचिदप्युपतिष्ठतिवैशाखस्नानमाहात्म्यादपि पंचदिनात्मकात् ॥२७॥सत्कुले प्राप्यते जन्म वैभवं विविधं तथासुपुत्रः सुकुलं भूप धनधान्यं वरस्त्रियः ॥२८॥सुजन्ममरणं चापि सुभोगाः सुखमेव चसदा दानेऽधिका प्रीतिरौदार्यं धैर्यमुत्तमम् ॥२९॥प्रसादात्तस्य देवस्य विष्णोश्चैव महात्मनःनारायणस्य जायंते सिद्धयो भूप वांच्छिताः ॥३०॥ऊर्जे मासि तपो मासि माधवे माधवप्रियेस्नात्वा दामोदरं भक्त्या माधवं मधुसूदनम् ॥३१॥विशेषेण समभ्यर्च्य दत्वा दानानि शक्तितःएहिकं सुखमासाद्य नरो हरिपदं व्रजेत् ॥३२॥अनेकजन्मार्जितपातकावली विलीयते माधवमज्जनेनसूर्योदये भूप यथा तमिस्रं वचः स्वयंभूरिदमादिशन्मे ॥३३॥चकार विष्णुर्विपुलप्रचारं मासस्य वै माधवसंज्ञकस्ययमस्य गुप्तं वचसा विचिंत्य मनुष्यलोकं गमितं चकार ॥३४॥तस्मादस्मिन्समायाते माधवे मासि वैष्णवैःस्नात्वा पुण्यजले तीर्थे गंगायाः पावने नृणाम् ॥३५॥रेवाया वा महाराज यामुने शारदेऽथवाप्रातस्त्वनुदिते भानौ विधानेन नृपोत्तम ॥३६॥पूजयित्वा च देवेशं मुकुंदं मधुसूदनम्पुत्रपौत्रधनैः श्रेयो वांच्छितानि सुखानि च ॥३७॥अनुभूय तपस्त्वंते स्वर्गमक्षयमाप्नुयात्एवं ज्ञात्वा महाभाग मधुसूदनमर्चय ॥३८॥स्नात्वा सम्यग्विधानेन वैशाखे तु विशेषतःदेवमाराध्य गोविन्दं नारायणमनामयम् ॥३९॥प्राप्स्यसि त्वं सुखं पुत्रं धनानि च हरेः पदम्देवदेवं नमस्कृत्य माधवं पापनाशनम् ॥४०॥प्रारभेत व्रतमिदं पौर्णमास्यां मधोर्नृपयमैश्च नियमैर्युक्तः शक्त्या किंचित्प्रदाय च ॥४१॥हविष्यभुग्भूमिशायी ब्रह्मचर्यव्रते स्थितःकृच्छ्रादितपसा क्षामो ध्यायन्नारायणं हृदि ॥४२॥एवं प्राप्य च वैशाखीं दद्यान्मधुतिलादिकम्भोजनं द्विजमुख्येभ्यो भक्त्या धेनुं सदक्षिणाम् ॥४३॥अच्छिद्रं प्रार्थयेच्चापि तस्य स्नानस्य भूसुरान्यथा लक्ष्मीः प्रिया भूप माधवस्य जगत्पतेः ॥४४॥तथैव माधवो मासो मधुसूदनवल्लभःएवं विधियुतो मर्त्यः स्नात्वा द्वादशवत्सरम् ॥४५॥उद्यापनं चरेच्छक्त्या मधुसूदनतुष्टयेइदं माधवमासस्य माहात्म्यं कथितं तव ॥४६॥यत्पुरा ब्रह्मणो वक्त्राच्छ्रुतमासीन्मया नृप ॥४७॥इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्येषडशीतितमोऽध्यायः ॥८६॥ N/A References : N/A Last Updated : November 06, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP