संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः| अध्यायः ८४ पातालखण्डः वि्षयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ पातालखण्डः - अध्यायः ८४ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ८४ Translation - भाषांतर ऋषय ऊचुः -सूतसूत महाभाग रोमहर्षणनंदनकथा रम्या त्वया प्रोक्ता लोकस्यानंददायिनी ॥१॥श्रीकृष्णस्य महाभाग चरितं महदद्भुतम्श्रुतं सर्वं त्वया प्रोक्तं निर्वृतिस्तेन चाभवत् ॥२॥अहो श्रीकृष्णमाहात्म्यं भक्तानां गतिदायकम्यतस्तेन महाभाग निर्वृतिं को न चाप्नुयात् ॥३॥अतः पुनरपि श्रीमत्कृष्णस्य चरितं महत्श्रोतुमिच्छामहे चान्यद्व्रतदानार्हणादिकम् ॥४॥स्नानं वापि महाभाग यथा येन कृतं पुरातत्सर्वं विस्तराद्ब्रूहि यथा नो निर्वृतिर्भवेत् ॥५॥सूत उवाच-साधु पृष्टं द्विजश्रेष्ठा लोकानां तारणं परम्यूयं कृतार्थाः कृष्णस्य भक्त्या संपूर्णमानसाः ॥६॥श्रीकृष्णचरितं पुण्यं साधूनां हर्षदं परम्प्रवक्ष्यामि द्विजश्रेष्ठा महदाख्यानमुत्तमम् ॥७॥एकदा नारदो लोकान्पर्यटन्भगवत्प्रियःमथुरायामंबरीषं कृष्णाराधनतत्परम् ॥८॥महाभागं व्रतपरं ददर्श मुनिसत्तमःस आगतं मुनिवरं सत्कृत्य मुनिसत्तमः ॥९॥भवंत इव पप्रच्छ श्रद्धया हृष्टमानसःअंबरीष उवाच-यन्मुने परमं ब्रह्म वेदवादिभिरुच्यते ॥१०॥स देवः पुंडरीकाक्षः स्वयं नारायणः परःयोऽमूर्तो मूर्तिमानीशो व्यक्तोऽव्यक्तः सनातनः ॥११॥सर्वभूतमयोऽचिंत्यो ध्यातव्यः स कथं हरिःयस्मिन्सर्वमिदं विश्वमोतं प्रोतं प्रतिष्ठितम् ॥१२॥अव्यक्तमेकं परमं परमात्मेति विश्रुतम्यतो जन्मादि जगतो यो निर्माय स्वयं भुवम् ॥१३॥ददौ तस्मै च निगमानात्मन्येव व्यवस्थितान्कथमाराध्यते सोऽयं समग्रपुरुषार्थदः ॥१४॥योगिनामपि दुर्गम्यस्तदेतत्कृपया वदअनाराधित गोविंदा न विदंति हितोदयम् ॥१५॥न तपो यज्ञदानानां लभते फलमुत्तमम्अनास्वादितगोविंदपदांबुजरसश्च यः ॥१६॥मनोरथपथातीतं स्फीतं नाकलयेत्फलम्हरेराराधनं हित्वा दुरितौघ निवारणम् ॥१७॥नान्यत्पश्यामि जंतूनां प्रायश्चित्तं परं मुनेयद्भ्रूनर्तनवर्तिन्यः श्रूयंते सिद्धयोऽखिलाः ॥१८॥कथमाराध्यतेसोऽयं केशवः क्लेशनाशनःउपास्यते स भगवान्कथं नारायणो नरैः ॥१९॥प्रीतश्च सर्वमेतन्मे हिताय जगतो वदभक्तिप्रियोऽसौ भगवान्कया भक्त्या प्रसीदति ॥२०॥कथं तस्मिन्भवेद्भक्तिः सर्वैराराध्यते कथम्वैष्णवोसि हरेस्तस्य प्रियोऽसि परमार्थवित् ॥२१॥तेन त्वामेव पृच्छामि ब्रह्मन्ब्रह्मविदुत्तमश्रोतारमथ वक्तारं प्रष्टारं पुरुषं हरेः ॥२२॥प्रश्नः पुनाति कृष्णस्य तदंघ्रिसलिलं यथादुर्ल्लभो मानुषो देहो देहिनां क्षणभंगुरः ॥२३॥तत्रापि दुर्ल्लभं मन्ये वैकुंठप्रियदर्शनम्संसारेस्मिन्क्षणार्धोऽपि सत्संगः शेवधिर्नृणाम् ॥२४॥यस्मादवाप्यते सर्वं पुरुषार्थचतुष्टयम्भगवन्भवतो यात्रा स्वस्तये सर्वदेहिनाम् ॥२५॥बालानां तु यथा पित्रोरुत्तमश्लोकवर्त्मनाम्भूतानां देवचरितं दुःखाय च सुखाय च ॥२६॥सुखायैव हि साधूनां त्वादृशामच्युतात्मनाम्भजंति ये यथा देवान्देवा अपि तथैव तान् ॥२७॥छायेव कर्मसचिवाः साधवो दीनवत्सलाःतस्मात्त्वं भगवन्मह्यं वैष्णवं धर्ममादिश ॥२८॥यस्योपदेशदानेन लभते वेदजं फलम्नारद उवाच-साधु पृष्टं महीपाल विष्णुभक्तिमता त्वया ॥२९॥जानता परमं धर्ममेकं माधवसेवनम्यस्मिन्नाराधिते विष्णौ विश्वमाराधितं भवेत् ॥३०॥तुष्टे चराचरं तुष्टं सर्वदेवमये हरौयस्य स्मरणमात्रेण महापातकसंहतिः ॥३१॥तत्क्षणान्नाशमायाति स सेव्यो हरिरेव हिकोऽनु राजन्निंद्रियवान्मुकुंदचरणांबुजम् ॥३२॥न भजेत्सर्वतो मृत्युरुपास्यमृषिदैवतैःश्रुतोऽनु पठितो ध्यात आदृतश्चानुमोदितः ॥३३॥सद्यः पुनाति सद्धर्मो वीरो विश्वद्रुहोऽपि हियोयं कारणकार्यादि कारणस्यापि कारणम् ॥३४॥अनन्यकारणं योगी जगज्जीवो जगन्मयःअणुर्बृहत्कृशः स्थूलो निर्गुणो गुणभृन्महान् ॥३५॥अजो जन्मलयातीतो ध्यातव्यः स हरिः सदासम्यगेतद्व्यवसितं भवता पुरुषर्षभ ॥३६॥यत्पृच्छसे भागवतान्धर्मांस्त्वं विश्वभावनान्प्रसंगेन सतामात्ममनः श्रुति रसायनाः ॥३७॥भवंति कीर्तनीयस्य कथाः कृष्णस्य निर्मलाःभावसाध्योह्ययं देवः स्वयं जानाति तद्भवान् ॥३८॥तथापि वक्ष्ये जगतो हिताय तव गौरवात्यदाहुः परमं ब्रह्म प्रधानपुरुषात्परम् ॥३९॥यन्मायया ततं सर्वं सर्वं यच्छति सोऽच्युतःपुत्रान्कलत्रं दीर्घायू राज्यं स्वर्गापवर्गकम् ॥४०॥स दद्यादीप्सितं सर्वं भक्त्या संपूजितोऽजितःकर्मणा मनसा वाचा तत्परा ये हि मानवाः ॥४१॥तेषां व्रतानि वक्ष्यामि प्रीतये भूपसत्तमअहिंसासत्यमस्तेयं ब्रह्मचर्यमकल्पता ॥४२॥एतानि मानसान्याहुर्व्रतानि हरितुष्टयेएकभक्तं तथा नक्तमुपवासमयाचितम् ॥४३॥इत्येवं कायिकं पुंसां व्रतमुक्तं नरेश्वरवेदस्याध्ययनं विष्णोः कीर्तनं सत्यभाषणम् ॥४४॥अपैशुन्यमिदं राजन्वाचिकं व्रतमुत्तमम्चक्रायुधस्य नामानि सदा सर्वत्र कीर्तयेत् ॥४५॥नाशौचं कीर्तने तस्य स पवित्रकरो यतःवर्णाश्रमाचारवता पुरुषेण परः पुमान् ॥४६॥विष्णुराराध्यते पंथा नान्यः संतोषकारणम्पतिप्रियहिताभिश्च मनोवाक्कायसंयमैः ॥४७॥व्रतैराराध्यते स्त्रीभिर्वासुदेवो दयानिधिःआगमोक्तेन मार्गेण स्त्रीशूद्रैरपिपूजनम् ॥४८॥कर्तव्यं कृष्णचंद्रस्य द्विजातिवररूपिणःत्रयोवर्णास्तु वेदोक्तमार्गाराधनतत्पराः ॥४९॥स्त्रीशूद्रादय एव स्युर्नाम्नाऽराधनतत्पराःन पूजनैर्न यजनैर्न व्रतैरपि माधवः ॥५०॥तुष्यते केवलं भक्तिप्रियोऽसौ समुदाहृतःस्त्रीणां पतिव्रतानां तु पतिरेव हि दैवतम् ॥५१॥स तु पूज्यो विष्णुभक्त्या मनोवाक्कायकर्मभिःकर्तव्यं श्रद्धया विष्णोश्चिंतयित्वा पतिं हृदि ॥५२॥शूद्राणां चैव भवति नाम्ना वै देवतार्चनम्सर्वेऽप्यागममार्गेण कुर्युर्वेदानुकारिणा ॥५३॥स्त्रीणामप्यधिकारोऽस्ति विष्णोराराधनादिषुपतिप्रियरतानां च श्रुतिरेषा सनातनी ॥५४॥स्वकुलोचितधर्मेण यद्यस्य विहितं व्रतम्तत्तदेवाचरेद्यस्तु तेन तुष्यति केशवः ॥५५॥हविषाग्नौ जले पुष्पैर्ध्यानेन हृदये हरिम्यजंति सूरयो नित्यं जपेन रविमंडले ॥५६॥अहिंसा प्रथमं पुष्पं द्वितीयं करणग्रहःतृतीयकं भूतदया चतुर्थं क्षांतिरेव च ॥५७॥शमस्तु पंचमं पुष्पं दमः षष्ठं च सप्तमम्ध्यानं सत्यं चाष्टमं च ह्येतैस्तुष्यति केशवः ॥५८॥एतैरेवाष्टभिः पुष्पैस्तुष्यत्येवार्चितो हरिःपुष्पांतराणि संत्येव बाह्यानि मनुजोत्तम ॥५९॥भक्त्या कृतानि यैर्विष्णुः पूजितः परितुष्यतिवारुणं सलिलं पुष्पं सौम्यं घृतपयोदधि ॥६०॥प्राजापत्यं तथान्नादि आग्नेयं धूपदीपकम्फलपुष्पादिकं चैव वानस्पत्यं तु पंचमम् ॥६१॥पार्थिवं कुशमूलाद्यं वायव्यं गंधचंदनम्श्रद्धाख्यं विष्णुपुष्पं च वाद्यं विष्णुपदं स्मृतम् ॥६२॥एभिस्तुपूजितः पुष्पैरपि विष्णुः प्रसीदतिसूर्योऽग्निर्ब्राह्मणोगावो वैष्णवः खं मरुज्जलम् ॥६३॥भूरात्मा सर्वभूतानि पूजास्थानानि वा हरेःसूर्य्ये तु मंत्रजाप्येन हविषाग्नौ यजेत्ततः ॥६४॥आतिथ्येन तु विप्राग्र्ये गोषु ग्रासरसादिनावैष्णवे बंधुसत्कृत्या हृदये ध्याननिष्ठया ॥६५॥वायौ मुख्यधिया तोये द्रव्यैस्तोयपुरस्कृतैःस्थंडिले मंत्रहृदयैर्भोगैरात्मानमात्मनि ॥६६॥क्षेत्रज्ञं सर्वभूतेषु समत्वेनार्चयेद्विभुम्धिष्ण्येष्वेतेषु तद्रूपं शंखचक्रगदांबुजैः ॥६७॥युक्तं चतुर्भुजं शांतं ध्यायन्नर्च्चेत्समाहितःब्राह्मणैः पूजितैरेव पूजितोऽयं न संशयः ॥६८॥निर्भर्त्सितैश्च तैर्भूप भवेन्निर्भर्त्सितो विभुःनिगमो धर्मशास्त्रं च यदाधारे प्रवर्तते ॥६९॥विप्रास्ते वैष्णवीमूर्तिः पावनी परमा मता ॥७०॥सर्वं शुभं जगति धर्मत एव लभ्यं धर्मो गतिर्निगमतो नृपधर्मशास्त्रात्नूनं तयोरपि गतिर्भुवि भूमिदेवास्तैरर्चितैरिह जगत्पतिरर्चितः स्यात् ॥७१॥न यज्ञयोगैर्न तपोभिरन्यैर्न योगयुक्त्या न समर्चनेनतथा विभुस्तुष्यति देवदेवो यथा मही दैवततोषणेन ॥७२॥ब्रह्मण्यो ब्रह्मविद्ब्रह्मा ब्रह्मवेदप्रवर्तकःब्राह्मणैरेव तुष्येत तोषितं ब्रह्मदैवतम् ॥७३॥नरकेऽपि चिरं मग्नाः पूर्वजा ये कुलद्वयेतदैव यांति ते स्वर्गं यदार्च्चति सुतो हरिम् ॥७४॥किं तेषां जीवितेनेह पशुवच्चेष्टितेन किम्येषां न प्रवणं चित्तं वासुदेवे जगन्मये ॥७५॥ध्यानं तस्य प्रवक्ष्यामि यन्न दृष्टं तु केनचित्श्रूयतां भूपकैवल्यं केवलं मलवर्जितम् ॥७६॥यथा दीपो निवातस्थो निश्चलो वायुवर्जितःप्रज्वलन्नाशयेत्सर्वमंधकारं महामते ॥७७॥तद्वद्दोषविहीनात्मा भवत्येव निरामयःनिराशो निश्चलो वीरोनमित्रं न रिपुस्तथा ॥७८॥शोकहर्षौ विषादश्च न लोभो मत्सरो भ्रमःसंभ्रमालापमोहैश्च सुखदुःखैर्विमुच्यते ॥७९॥विषयैश्चापि सर्वैश्च इंद्रियाणां प्रमुच्यतेतदा स केवलज्ञानी कैवल्यत्वं प्रजायते ॥८०॥ज्वालाकर्मप्रसंगेन दीपस्तैलं प्रशोषयेत्वर्त्याधारेण राजेंद्र निर्द्वन्द्वो वायुवर्जितः ॥८१॥कज्जलं वमते पश्चात्तैलस्यापि महामतेकृष्णा संदृश्यते रेखा दीपस्याग्रे महामते ॥८२॥स्वयमाकृष्य तत्तैलं तेजसा निर्मलोभवेत्काये चांतः स्थितस्तद्वत्कर्मतैलं प्रशोषयेत् ॥८३॥विषयान्कज्जलं कृत्वा प्रत्यक्षान्संप्रदर्शयेत्ज्वालावन्निर्मलो भूत्वा स्वयमेव प्रकाशयेत् ॥८४॥क्रोधलोभादिभिः संज्ञैर्वायुभिः परिवर्जितःनिःस्पृहो निश्चलो भूत्वा तेजश्च स्वयमुज्ज्वलेत् ॥८५॥त्रैलोक्यं पश्यते सर्वं स्वस्थानस्थं स्वतेजसाकेवलज्ञानरूपोऽयं मया ते परिकीर्तितः ॥८६॥ध्यानं चैव प्रवक्ष्यामि द्विविधं तस्य चक्रिणःकेवलज्ञानरूपेण दृश्यते परचक्षुषा ॥८७॥योगयुक्ता महात्मानः परमार्थपरायणाःयं न पश्यंति मुग्धास्तु सर्वज्ञं सर्वदर्शकम् ॥८८॥हस्तपादविहीनश्च सर्वत्र परिगच्छतिसर्वं गृह्णाति त्रैलोक्यं स्थावरं जंगमं पुनः ॥८९॥नासामुखविहीनस्तु घ्राति भक्षति भूपतेअकर्णः शृणुते सर्वं सर्वसाक्षी जगत्पतिः ॥९०॥अरूपो रूपसंबद्धः पंचवर्गवशं गतःसर्वलोकस्य यः प्राणः पूज्यते सचराचरैः ॥९१॥अजिह्वो वदते सर्वं वेदशास्त्रानुगं तथाअत्वचः स्पर्शमेवापि सर्वेषामेव विंदति ॥९२॥सदानंदो विविक्ताक्ष एकरूपो निराश्रयःनिर्गुणो निर्ममो व्यापी सगुणो निर्मलोऽनघः ॥९३॥अवश्यः सर्ववश्यात्मा सर्वदः सर्ववित्तमःतस्य माता न चैवास्ति स वै सर्वमयो विभुः ॥९४॥एवं सर्वमयं ध्यानं यश्च पश्यत्यनन्यधीःस याति परमं स्थानममूर्त्तममृतोपमम् ॥९५॥द्वितीयं तु प्रवक्ष्यामि तच्छृणुष्व महामतेमूर्त्ताकारं तु साकारं निराकारं निरामयम् ॥९६॥ब्रह्मांडं सर्वमतुलं वासितं यस्य वासनात्स तस्माद्वासुदेवस्तु प्रोच्यते नृपनंदन ॥९७॥वर्षमाणस्य मेघस्य यद्भासा तस्य तद्भवेत्सूर्यतेजःप्रतीकाशं चतुर्बाहुं सुरेश्वरम् ॥९८॥दक्षिणे शोभते शंखो हेमरत्नविभूषितःकौमोदकी गदा तस्य महासुरविनाशिनी ॥९९॥वामे च शोभते वीर हस्ते तस्य महात्मनःमहापद्मं सुगंधाढ्यं तस्य दक्षिणहस्तगम् ॥१००॥शोभमानं सदैवास्ते सायुधं कमलश्रियम्कंबुग्रीवं सुवृत्तास्यं पद्मपत्रनिभेक्षणम् ॥१०१॥राजमानं हृषीकेशं दशनैः कुंदसंनिभैःगुडाकेशस्य यस्यास्ते अधरो विद्रुमाकृतिः ॥१०२॥शोभते पुंडरीकाक्षः किरीटेनापि भास्वताविशालेनापि रूपेण केशवस्तु सुवक्षसा ॥१०३॥कौस्तुभेनांकितेनैव राजमानो जनार्दनःसूर्यतेजःप्रतीकाश कुंडलाभ्यां प्रभाति च ॥१०४॥हरिः केयूरकंकणैर्हारैर्मौक्तिकैर्ऋक्षसन्निभैः ॥१०५॥वपुषा भ्राजमानस्तु विजयो जयतां वरःभ्राजतेसोऽपि गोविंदो हेमवर्णेन वाससा ॥१०६॥मुद्रिकाभिस्तु युक्ताभिरंगुलीषु विराजतेसर्वायुधैः सुसंपूर्णैर्द्दिव्यैराभरणैर्हरिः ॥१०७॥वैनतेयसमारूढो लोककर्त्ता जगत्पतिःएवं यो ध्यायते नित्यमनन्यमनसा नरः ॥१०८॥मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छतिएतत्ते सर्वमाख्यातं ध्यानभेदं जगत्पतेः ॥१०९॥इति श्रीपद्मपुराणे पातालखंडे नारदांबरीषसंवादे वैशाखमासमाहात्म्येभगवद्ध्य्नावर्णनं नाम चतुरशीतितमोऽध्यायः ॥८४॥ N/A References : N/A Last Updated : November 06, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP