पातालखण्डः - अध्यायः ३३
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
शेष उवाच
गच्छत्सु रथिवर्येषु शत्रुघ्नादिषु भूरिषु
महाराजेषु सर्वेषु रथकोटियुतेषु च ॥१॥
अकस्मादभवन्मार्गे तमः परमदारुणम्
यस्मिन्स्वीयो न पारक्यो लक्ष्यते ज्ञातिभिर्नरैः ॥२॥
रजसा व्यावृतं व्योम विद्युत्स्तनितसंकुलम्
एतादृशे तु संमर्दे महाभयकरे ततः ॥३॥
मेघा वर्षंति रुधिरं पूयामेध्यादिकं बहु
अत्याकुला बभूवुस्ते वीराः परमवैरिणः ॥४॥
आकुलीकृतलोके तु किमिदं किमिति स्थितिः
तमोव्याप्तानि लोकानां चक्षूंषि प्रथितौजसाम् ॥५॥
जहाराश्वं रावणस्य सुहृत्पातालसंस्थितः
विद्युन्मालीति विख्यातो राक्षसश्रेणिसंवृतः ॥६॥
कामगे सुविमाने तु सर्वायसनिषेविणि
आरूढोऽश्वं तु वीराणां भयं कुर्वञ्जहार ह ॥७॥
मुहूर्तात्तत्तमो नष्टमाकाशं विमलं बभौ
वीराः शत्रुघ्नमुख्यास्ते प्रोचुः कुत्र हयोऽस्ति सः ॥८॥
ते सर्वे हयराजं तु लोकयंतः परस्परम्
ददृशुर्न यदा वाहं हाहाकारस्तदाभवत् ॥९॥
कुत्राश्वो हयमेधस्य केन नीतः कुबुद्धिना
इति वाचमवोचंस्ते तावत्स दनुजेश्वरः ॥१०॥
ददृशे सुभटैः सर्वै रथस्थैः शौर्यशोभितैः
विमानवरमारूढै राक्षसाग्र्यैः समावृतः ॥११॥
दुमुर्खा विकरालास्या लंबदंष्ट्रा भयानकाः
राक्षसास्तत्र दृश्यंते सैन्यग्रासाय चोद्यताः ॥१२॥
तदा तं वेदयामासुः शत्रुघ्नं नृवरोत्तमम्
हयो नीतो न जानीमः खे विमानविलासिना ॥१३॥
तमसा व्याकुलान्कृत्वा वीरानस्मान्समाययौ
जग्राह नृपशार्दूल हयं कुरु यथोचितम् ॥१४॥
शत्रुघ्नस्तद्वचः श्रुत्वा महारोषसमावृतः
कोऽस्त्येष राक्षसो यो मे हयं जग्राह वीर्यवान् ॥१५॥
विमानं तत्पतत्वद्य मद्बाणव्रजनिर्हतम्
पतत्वद्य शिरस्तस्य क्षुरप्रैर्मम वैरिणः ॥१६॥
सज्जीयंतां रथाः सर्वैर्महाशस्त्रास्त्रपूरिताः
यांतु तं प्रतिसंहर्तुं योद्धारो वाजिहारिणम् ॥१७॥
इत्युक्त्वा रोषताम्राक्ष उवाच निजमंत्रिणम्
नयानयविदं शूरं युद्धकार्यविशारदम् ॥१८॥
शत्रुघ्न उवाच
मंत्रिन्कथय के योज्या राक्षसस्य वधोद्यताः
महाशस्त्रा महाशूराः परमास्त्रविदुत्तमाः ॥१९॥
कथयाशु विचार्यैवं तत्करोमि भवद्वचः
वीरान्कथय तस्यैवं योग्यान्सर्वास्त्रकोविदान् ॥२०॥
एतच्छ्रुत्वा तु सचिवः प्राह वाक्यं यथोचितम्
वीरान्रणवरे योग्यान्दर्शयंस्तरसा नतान् ॥२१॥
सुमतिरुवाच
जेतुं गच्छतु तद्रक्षः समरे विजयोद्यतः
महाशस्त्रास्त्रसंयुक्तः पुष्कलः परतापनः ॥२२॥
तथा लक्ष्मीनिधिर्यातु शस्त्रसंघसमन्वितः
करोतु तस्य यानस्य भंगं तीक्ष्णैः स्वसायकैः ॥२३॥
हनूमान्धृष्टकर्मात्र राक्षसैर्योधितुं क्षमः
करोतु मुखपुच्छाभ्यां ताडनं रक्षसां प्रभो ॥२४॥
वानरा अपि ये वीरा रणकर्मविशारदाः
गच्छंतु तेऽखिला योद्धुं तववाक्यप्रणोदिताः ॥२५॥
सुमदश्च सुबाहुश्च प्रतापाग्र्यश्च सत्तमाः
गच्छंतु सायकैस्तीक्ष्णैस्तान्योद्धुं राक्षसाधमान् ॥२६॥
भवानपि महाशस्त्रपरिवारो रथे स्थितः
करोतु युद्धे विजयं राक्षसं हंतुमुद्यतः ॥२७॥
एतन्मम मतं राजन्ये योधास्तत्प्रमर्दनाः
ते गच्छंतु रणे शूराः किमन्यैर्बहुभिर्भटैः ॥२८॥
इत्युक्तवति वीराग्र्येऽमात्ये सुमतिसंज्ञिके
शत्रुघ्नः कथयामास वीरान्संग्रामकोविदान् ॥२९॥
भो वीराः पुष्कलाद्या ये सर्वशस्त्रास्त्रकोविदाः
ते वदंतु प्रतिज्ञां वै मत्पुरो राक्षसार्दने ॥३०॥
कृत्वा प्रतिज्ञां विपुलां स्वपराक्रमशोभिनीम्
गच्छंतु रणमध्ये हि भवंतो बलसंयुताः ॥३१॥
इति वाक्यं समाकर्ण्य शत्रुघ्नस्य महाबलाः
स्वां स्वां प्रतिज्ञां महतीं चक्रुस्ते तेजसान्विताः ॥३२॥
तत्रादौ पुष्कलो वीरः श्रुत्वा वाक्यं महीपतेः
परमोत्साहसंपन्नः प्रतिज्ञामूचिवानिमाम् ॥३३॥
पुष्कल उवाच
शृणुष्व नृपशार्दूल मत्प्रतिज्ञां पराक्रमात्
विहितां सर्वलोकानां शृण्वतां परमाद्भुताम् ॥३४॥
चेन्न कुर्यां क्षुरप्राग्रैस्तीक्ष्णैः कोदंडनिर्गतैः
दैत्यं मूर्च्छासमाक्रांतं कीर्णकेशाकुलाननम् ॥३५॥
कन्या स्वभोक्तुर्यत्पापं यत्पापं देवनिंदने
तत्पापं मम वै भूयाच्चेत्कुर्यां स्ववचोऽनृतम् ॥३६॥
यदिमद्बाणनिर्भिन्नाः सैनिकाः सुमहाबलाः
न पतंति महाराज प्रतिज्ञां तत्र मे शृणु ॥३७॥
विष्ण्वीशयोर्विभेदं यः शिवशक्त्योः करोत्यपि
तत्पापं मम वै भूयाच्चेन्न कुर्यामृतं वचः ॥३८॥
सर्वं मद्वाक्यमित्युक्तं रघुनाथपदांबुजे
भक्तिर्मे निश्चला यास्ति सैव सत्यं करिष्यति ॥३९॥
पुष्कलस्य प्रतिज्ञां तां श्रुत्वा लक्ष्मीनिधिर्नृपः
प्रतिज्ञां व्यदधात्सत्यां स्वपराक्रमशोभिताम् ॥४०॥
लक्ष्मीनिधिरुवाच
वेदानां निंदनं श्रुत्वा आस्ते यो मौनिवन्नरः
मानसे रोचयेद्यस्तु सर्वधर्मबहिष्कृतः ॥४१॥
ब्राह्मणो यो दुराचारो रसलाक्षादिविक्रयी
विक्रीणाति च गां मूढो धनलोभेन मोहितः ॥४२॥
म्लेच्छकूपोदकं पीत्वा प्रायश्चित्तं तु नाचरेत्
तत्पापं मम वै भूयाद्विमुखश्चेद्भवाम्यहम् ॥४३॥
तत्प्रतिज्ञामथाश्रुत्य हनूमान्रणकोविदः
रामांघ्रिस्मरणं कृत्वा प्रोवाच वचनं शुभम् ॥४४॥
मत्स्वामीहृदये नित्यं ध्येयो वै योगिभिर्मुहुः
यं देवाः सासुराः सर्वे नमंति मणिमौलिभिः ॥४५॥
रामः श्रीमानयोध्यायाः पतिर्लोकेशपूजितः
तं स्मृत्वा यद्ब्रुवे वाक्यं तद्वै सत्यं भवष्यिति ॥४६॥
राजन्कोयं लघुर्दैत्यो दुर्बलः कामगे स्थितः
कथयाशु मया कार्यमेकेन विनिपातनम् ॥४७॥
मेरुं देवेंद्रसहितं लांगूलाग्रेण तोलये
जलधिं शोषये सर्वं सांवर्तं वा पिबाम्यहम् ॥४८॥
राज्ञः श्रीरघुनाथस्य जानक्याः कृपया मम
तन्नास्ति भूतले राजन्यदसाध्यं कदा भवेत् ॥४९॥
एतद्वाक्यं मया प्रोक्तमनृतं स्याद्यदि प्रभो
तदैव रघुनाथस्य भक्तिदूरो भवाम्यहम् ॥५०॥
यः शूद्रः कपिलां गां वै पयोबुद्ध्यानुपालयेत्
तस्य पापं ममैवास्तु चेत्कुर्यामनृतं वचः ॥५१॥
ब्राह्मणीं गच्छते मोहाच्छूद्रः कामविमोहितः
तस्य पापं ममैवास्तु चेत्कुर्यामनृतं वचः ॥५२॥
यद्घ्राणान्नरकं गच्छेत्स्पर्शनाच्चापि रौरवम्
तां पिबेन्मदिरां यो वा जिह्वास्वादेन लोलुपः ॥५३॥
तस्य यज्जायते पापं तन्ममैवास्तु निश्चितम्
चेन्न कुर्यां प्रतिज्ञातं सत्यं रामकृपाबलात् ॥५४॥
एवमुक्ते महावीरैर्योद्धारस्तरसा युताः
चक्रुः प्रतिज्ञां महतीं स्वपराक्रमशालिनीम् ॥५५॥
शत्रुघ्नोऽपि व्यधात्तत्र प्रतिज्ञां पश्यतां नृणाम्
साधुसाधु प्रशंसन्वै तान्वीरान्युद्धकोविदान् ॥५६॥
कथयामि पुरो वः स्वां प्रतिज्ञां सत्त्वशोभिताम्
तच्छृण्वंतु महाभागा युद्धोत्साहसमन्विताः ॥५७॥
चेत्तस्य शिर आहत्य पातयामि न सायकैः
विमानाच्च कबंधाच्च भिन्नं छिन्नं च भूतले ॥५८॥
यत्पापं कूटसाक्ष्येण यत्पापं स्वर्णचौर्यतः
यत्पापं ब्रह्मनिंदायां तन्ममास्त्वद्य निश्चयात् ॥५९॥
इति शत्रुघ्नसद्वाक्यं श्रुत्वा ते वीरपूजिताः
धन्योसि राघवभ्रातः कस्त्वदन्यो परो भवेत् ॥६०॥
त्वया वै निहतो दैत्यो देवदानवदुःखदः
लवणो नाम लोकेश मधुपुत्रो महाबलः ॥६१॥
कोयं वै राक्षसो दुष्टः क्व चास्य बलमल्पकम्
करिष्यसि क्षणादेव तस्य नाशं महामते ॥६२॥
इत्युक्त्वा ते महावीराः सज्जीभूता रणांगणे
प्रतिज्ञां स्वामृतां कर्तुं ययुस्ते राक्षसं मुदा ॥६३॥
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे
वीरप्रतिज्ञाकथनंनाम त्रयस्त्रिंशत्तमोऽध्यायः ॥३३॥
N/A
References : N/A
Last Updated : November 04, 2020
TOP