संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ८०

पातालखण्डः - अध्यायः ८०

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


पार्वत्युवाच-
घोरे कलियुगे प्राप्ते विषयग्राहसंकुले
पुत्रदारधनाद्यार्तैस्तत्कथं धार्यते विभो ॥१॥
तदुपायं महादेव कथयस्व कृपानिधे
ईश्वर उवाच-
हरेर्नाम हरेर्नाम हरेर्नामैव केवलम् ॥२॥
हरेराम हरेकृष्ण कृष्णकृष्णेति मंगलम्
एवं वदंति ये नित्यं न हि तान्बाधते कलि ॥३॥
अंतरांतरकर्माणि कृत्वा नामानि च स्मरेत्
कृष्णकृष्णेति कृष्णेति कृष्णेत्याह पुनः पुनः ॥४॥
मन्नाम चैव त्वन्नाम योजयित्वा व्यतिक्रमात्
सोऽपि पापात्प्रमुच्येत तूलराशेरिवानलः ॥५॥
जयाद्येतत्त्वया वाप्यथवा श्रीशब्दपूर्वकम्
तच्च मे मंगलं नाम जपन्पापात्प्रमुच्यते ॥६॥
दिवानिशि च संध्यायां सर्वकालेषु संस्मरेत्
अहर्निशं स्मरन्रामं कृष्णं पश्यति चक्षुषा ॥७॥
अशुचिर्वा शुचिर्वापि सर्वकालेषु सर्वदा
नामसंस्मरणादेव संसारान्मुच्यते क्षणात् ॥८॥
नानापराधयुक्तस्य नामापि च हरत्यघम्
यज्ञव्रततपोदानं सांगं नैव कलौ युगे ॥९॥
गंगास्नानं हरेर्नाम निरपायमिदं द्वयम् ॥१०॥
हत्यायुतं पापसहस्रमुग्रं गुर्वंगनाकोटिनिषेवणं च
स्तेयान्यथान्यानि हरेः प्रियेण गोविंदनाम्ना न च संति भद्रे ॥११॥
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा
यः स्मरेत्पुंडीकाक्षं स बाह्याभ्यंतरः शुचिः ॥१२॥
नामसंस्मरणादेव तथा तस्यार्थचिंतनात्
सौवर्णीं राजतीं वापि तथा पैष्टीं स्रगाकृतिम् ॥१३॥
पादयोश्चिह्नितां कृत्वा पूजां चैव समारभेत्
दक्षिणस्य पदोंगुष्ठमूले चक्रं बिभर्ति यः ॥१४॥
तत्र नम्रजनस्यापि संसारच्छेदनाय च
मध्यमांगुलिमूले तु धत्ते कमलमच्युतः ॥१५॥
ध्यातृचित्तद्विरेफाणां लोभनायातिशोभनम्
पद्मस्याधोध्वजं धत्ते सर्वानर्थजयध्वजम् ॥१६॥
कनिष्ठामूलतो वज्रं भक्तपापौघभेदनम्
पार्श्वमध्येंऽकुशं भक्तचित्ते रभसकारणम् ॥१७॥
भोगसंपन्मयं धत्ते यवमंगुष्ठपर्वणि
मूले गदां च पापाद्रिभेदनीं सर्वदेहिनाम् ॥१८॥
सर्वविद्याप्रकाशाय धत्ते स भगवानजः
पद्मादीन्यपि चिह्नानि तत्र दक्षेण यत्पुनः ॥१९॥
वामपादे वसेत्सोऽयं बिभर्त्ति करुणानिधिः
तस्माद्गोविंदमाहात्म्यमानंदरससुंदरम् ॥२०॥
शृणुयात्कीर्त्तयेन्नित्यं स निर्मुक्तो न संशयः
मासकृत्यं प्रवक्ष्यामि विष्णोः प्रीतिकरं परम् ॥२१॥
ज्येष्ठे तु स्नापनं कुर्याच्छ्रीविष्णोर्यत्नतः शुचिः
दैनंदिनं तु दुरितं पक्षमासर्त्तुवर्षजम् ॥२२॥
ब्रह्महत्यासहस्राणि ज्ञाता ज्ञातकृतानि च
स्वर्णस्तेयसुरापान गुरुतल्पायुतानि च ॥२३॥
कोटिकोटिसहस्राणि ह्युपपापानि यानि च
सर्वाण्यथ प्रणश्यंति पौर्णमास्यां तु वासरे ॥२४॥
आसिंचेदच्युतं मूर्ध्नि तदैतत्कलशोदकम्
पुरुषसूक्तेन मंत्रेण पावमानीभिरेव च ॥२५॥
नालिकेरोदकेनाथ तथा तालफलांबुना
रत्नोदकेन गंधेन तथा पुष्पोदकेन च ॥२६॥
पंचोपचारैराराध्य यथाविभवविस्तरैः
घं घंटायै नम इति घंटावाद्यं प्रदापयेत् ॥२७॥
पतितस्य महाध्वानन्यस्तपातकसंचये
पाहि मां पापिनं घोरसंसारार्णवपातिनम् ॥२८॥
य एवं कुरुते विद्वान्ब्राह्मणः श्रोत्रियः शुचिः
सर्वपापैः प्रमुच्येत विष्णुलोकं स गच्छति ॥२९॥
आषाढशुक्लैकादश्यां कुर्यात्स्वापमहोत्सवम्
आषाढे च रथं कुर्याच्छ्रावणे श्रवणाविधिम् ॥३०॥
भाद्रे च जन्मदिवस उपवासपरो भवेत्
प्रसुप्तस्य परीवर्तमाश्विने मासि कारयेत् ॥३१॥
उत्थानं श्रीहरेः कुर्यादन्यथा विष्णुद्रोहकृत्
शुभे चैवाश्विने मासि महामायां च पूजयेत् ॥३२॥
सौवर्णीं राजतीं वापि विष्णुरूपां बलिं विना
हिंसाद्वेषौ न कर्तव्यौ धर्मात्मा विष्णुपूजकः ॥३३॥
कार्तिके पुष्यमासे च कामतः पुण्यमाचरेत्
दामोदराय दीपं च प्रांशुस्थाने प्रदापयेत् ॥३४॥
सप्तवर्तिप्रमाणेन दीपः स्याच्चतुरंगुलः
पक्षांते च प्रकर्तव्या दीपमालावलि शुभा ॥३५॥
मार्गशीर्षे सिते पक्षे षष्ठ्यां च सितवस्त्रकैः
पूजयेज्जगदीशं च ब्रह्माणं च विशेषतः ॥३६॥
पौषे पुष्पाभिषेकं च वर्जयेच्चंदनं श्लथम्
संक्रांत्यां माघमासे च साधिवासित तंडुलात् ॥३७॥
नैवेद्यं विष्णवे दद्यादिमं मंत्रमुदीरयेत्
ब्राह्मणान्भोजयेद्भक्त्या देवदेवपुरः स्थितान् ॥३८॥
अभ्यर्च्य भगवद्भक्तान्द्विजांश्च भगवद्धिया
एकस्मिन्भोजिते भक्ते कोटिर्भवति भोजिता ॥३९॥
विप्रभोजनमात्रेण व्यंगं सांगं ध्रुवं भवेत्
पंचम्यां शुक्लपक्षे तु स्नापयित्वा च केशवम् ॥४०॥
पूजयित्वा विधानेन चूतपल्लवसंयुतैः
फलचूर्णैश्च विविधैर्वासितैः पटसाधितैः ॥४१॥
काननं रमणीयं च प्रदीप्तं दीपदीपितम्
द्राक्षेक्षु रंभा जंबीर नागरंगं च पूगकम् ॥४२॥
नालिकेरं च धात्रीं च पनसं च हरीतकीम्
अन्यैश्च वृक्षखंडैश्च सर्वर्तुकुसुमान्वितैः ॥४३॥
अन्यैश्च विविधैश्चैव फलपुष्पसमन्वितैः
वितानैः कुसुमोद्दामैर्वारिपूर्णघटैस्तथा ॥४४॥
चूतशाखोपशाखाभिः शोभितं छत्रचामरैः
जयकृष्णेति संस्मृत्य प्रदक्षिणपुरस्सरम् ॥४५॥
विशेषतः कलियुगे दोलोत्सवो विधीयते
फाल्गुने च चतुर्दश्यामष्टमे यामसंज्ञके ॥४६॥
अथवा पौर्णमास्यां तु प्रतिपत्संधिसंज्ञके
पूजयेद्विधिवद्भक्त्या फल्गुचूर्णैश्चतुर्विधैः ॥४७॥
सितरक्तैर्गौरपीतैः कर्पूरादि विमिश्रितैः
हरिद्रारागयोगाच्च रंगरूपैर्मनोहरैः ॥४८॥
अन्यैर्वा रंगरूपैश्च प्रीणयेत्परमेश्वरम्
एकादश्यां समारभ्य पंचम्यां तं समापयेत् ॥४९॥
पंचाहानि त्र्यहानि वा दोलोत्सवो विधीयते
दक्षिणाभिमुखं कृष्णं दोलमानं सकृन्नराः ॥५०॥
दृष्ट्वापराधनिचयैर्मुक्तास्ते नात्र संशयः
निक्षिप्य जलपात्रे च मासि माधवसंज्ञके ॥५१॥
सौवर्णपात्रे रौप्ये वा ताम्रे वाप्यथ मृण्मये
तोयस्थं योऽर्चयेद्देवं शालग्रामसमुद्भवम् ॥५२॥
प्रतिमां वा महाभागे तस्य पुण्यं न गण्यते
दमनारोपणं कृत्वा श्रीविष्णौ च समर्पयेत् ॥५३॥
वैशाखे श्रावणे भाद्रे कर्तव्यं वा तदर्पणम्
पूर्वेपूर्वे तु वातस्थे दमनादिषु कर्मसु ॥५४॥
प्रकर्तव्यं विधानेन अन्यथा निष्फलं भवेत्
वैशाखे च तृतीयायां जलमध्ये विशेषतः ॥५५॥
अथवा मंडले कुर्यान्मंडपे वा बृहद्वने
सुगंधचंदनेनांगं सुपुष्टं च दिनेदिने ॥५६॥
यथाप्रयत्नतः कुर्यात्कृशांगस्येव पुष्टिदम्
चंदनागुरु ह्रीबेर कृष्णकुंकुम रोचना ॥५७॥
जटामांसी मुरा चैव विष्णोर्गंधाष्टकं विदुः
तैस्तैर्गंधयुतैश्चापि विष्णोरंगानि लेपयेत् ॥५८॥
धृष्टं च तुलसीकाष्ठं कर्पूरागुरुयोगतः
अथवा केसरैर्योज्यं हरिचंदनमुच्यते ॥५९॥
यात्राकाले च ये कृष्णं भक्त्या पश्यंति मानवाः
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥६०॥
सुगंधमिश्रितैस्तोयैर्देवदेवं गलंति ये
अथवा पुष्पमध्ये तु स्थापयेज्जगदीश्वरम् ॥६१॥
वृंदावनं तत्र गत्वा उपस्कृत्य फलानि च
विष्णुभक्तेन योग्येन भोजयेत्तदशेषतः ॥६२॥
नारिकेलफलं बीजकोशं चोद्धृत्य दापयेत्
घोंटाफलं च पनसं कोशमुद्धृत्य दापयेत् ॥६३॥
दध्ना विमिश्रितं चान्नं घृतेनाप्लुत्य दापयेत्
पाचितं पिष्टकं पूपमष्टादशघृतेन च ॥६४॥
तैलैश्च तिलसंमिश्रैः फलं पक्वं प्रदापयेत्
यद्यदेवात्मनः प्रीतं तत्तदीशाय दापयेत् ॥६५॥
दत्वा नैवेद्यवस्त्रादि नाददीत कथंचन
त्यक्तं च विष्णुमुद्दिश्य तद्भक्तेभ्यो विशेषतः ॥६६॥
इति ते कथितं किंचित्समासेन महेश्वरि
गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति ॥६७॥
श्रीकृष्णरूपगुणवर्णन शास्त्रवर्गबोधाधिकार इह चेदलमन्यपाठैः
तत्प्रेमभावरसभक्तिविलास नामहारेषु चेत्खलु मनः किमु कामिनीभिः ॥६८॥
तच्चेतसा प्रभजतां व्रजबालकेंद्रं वृंदावनक्षितितलं यमुनाजलं च
तल्लोकनाथपदपंकजधूलिमिश्रलिप्तं वपुः किल वृथागरुचंदनाद्यैः ॥६९॥
इति श्रीपद्मपुराणे पातालखंडे उमामहेश्वरसंवादे वृंदावनमाहात्म्ये अशीतितमोऽध्यायः ॥८०॥

N/A

References : N/A
Last Updated : November 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP