संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः १०५

पातालखण्डः - अध्यायः १०५

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


मुनय ऊचुः -
अतःपरं महाभागः किं चकार स राघवः
मुनयश्च महात्मानः किमकुर्वंस्ततः परम् ॥१॥
सूत उवाच-
रामचंद्रे सुखासीने विभीषणे कपीश्वरे
शंभुमूचुर्मुनिवराः कथां पुण्यां वदस्व नः ॥२॥
तेषामाकर्ण्य वचनं पार्वतीमाह शंकरः
इदं कस्यापि विप्रस्य गृहं परमशोभनम् ॥३॥
रम्योपवनवापीभिर्वीरुद्भिरुपशोभितम्
कूजन्मधुकरश्रेण्या आहूतकुसुमायुधम् ॥४॥
मध्याह्नसंध्यामारोढुमिव सूर्यः प्रवर्त्तते
छायावापीजलस्नातौ परिधाय सुवाससी ॥५॥
मृगनाभिसमुद्घृष्टघनसारसुचंदनम्
आलिप्य सल्लकीदामदृढधम्मिल्लसंयुतौ ॥६॥
अनल्पघनसारं तु तांबूलं प्रतिखादितम्
आस्वाद्य माद्यन्मुदितौ यत्र धारागृहे शुभे ॥७॥
मयूरनादबहुले बहिर्मधुरगीतकैः
शय्यायामास्तृतायां च परस्परसुखस्थितौ ॥८॥
विशालस्मितरक्तोष्ठमाननं चुंबितं यदि
संसारफलमाघ्रातमावयोस्तु भविष्यति ॥९॥
इतीरितमथ श्रुत्वा कुपिता मुनयस्तु ते
उक्तं वा सुशुभं वाक्यमस्मासु किमिदं त्वया ॥१०॥
विप्रलापः प्रियासक्तेः कृतो नोस्मद्वचः कृतम्
अथ कोपपराच्छंभोराननात्परमाद्भुता ॥११॥
ज्वाला विनिर्गता सापि करालवदनाभवत्
कस्यचित्तु मुनेर्भार्यामाससादाथ सत्वरम् ॥१२॥
पलायनपरा चासीद्रामं दृष्ट्वा च बिभ्यती
रामोऽपि ब्राह्मणीं शुद्धां मोचयामीत्यभाषत ॥१३॥
जगाम पुष्पकेणैव ब्रुवन्मुक्तिं पुनः पुनः
बाणं च धनुषा योक्तुं न च सस्मार राघवः ॥१४॥
शंभुरप्यतिपुण्यानि वनान्यायतनानि च
पुराणि च विचित्राणि दृष्ट्वा रामं न चास्मरत् ॥१५॥
क्षणेन च तदा प्राप्तो लोकालोकं महागिरिम्
दृष्ट्वाथ राघवः शैलं गृहमार्गसमाकुलम् ॥१६॥
विप्रयोषिन्महाभागा क्व गता वदत द्विजाः
इतो गतेति ते प्रोचुस्तमोभागं गिरेरिति ॥१७॥
रामो विवर्णवदनः कष्टमित्यभिचिंतयन्
अथ शंभुर्महातेजाः प्रकाशमतुलं ददौ ॥१८॥
तत्प्रकाशप्रभावेण रामः कृत्यां ययावनु
तमोमयी महाभूमिः सर्वजंतुविवर्जिता ॥१९॥
आब्रह्मांडकटाहांता शतयोजनकोटितः
महारजतभूमिश्च तमोमध्ये व्यवस्थिता ॥२०॥
तत्र नारायणपुरं सूर्यकोटिसमप्रभम्
स राम मुनिवर्यास्तु तं दृष्ट्वा विस्मयं ययुः ॥२१॥
किमेतदिति चाचिंत्य नः प्रवेशः कथं भवेत्
किमेष प्रलयाग्निः स्यान्मायया परमात्मनः ॥२२॥
किंवा नो मरणं त्वद्य उत श्रेयो भविष्यति
इति चिंताकुलेष्वेव स रामेषु मुनिष्वथ ॥२३॥
शंभुराह शृणुष्वाद्य राघवैतद्वदामि ते
प्रकल्पिता मया माया त्वत्कृते नैतदद्भुतम् ॥२४॥
नारायणीयमेतत्तु परमं धाम भास्वरम्
उष्णशीताद्यविच्छेद्यं ज्ञानगम्यं न चाक्षुषम् ॥२५॥
तत्तु पूजयतश्चोर्ध्वं पश्य ब्रह्मपुरोगमान्
दिक्षु सर्वासु च मुनीन्पश्य पूजयतोऽमलान् ॥२६॥
चतुरो निगमान्पश्य स्तुवतः परमं पदम्
योगिनः सनकाद्यास्तु योगमास्थाय यत्नतः ॥२७॥
ध्यायंति परमं तेजस्तदिदं पश्य राघव
अमुं च रोमशं पश्य प्रदक्षिणनमस्क्रियाः ॥२८॥
कुर्वाणं कोटिकोटीश्च वालखिल्यान्मुनीश्वरान्
लक्ष्म्यादिसर्ववनिता पूज्यमानं परं पदम् ॥२९॥
साकारं च निराकारं ब्रह्म यत्परिकीर्तितम्
अज्ञानिनो न पश्यंति पश्यंति ज्ञानचक्षुषः ॥३०॥
शंभुवाक्यादतः सर्वे पूजयामासुरच्युतम्
गिरिकर्णीं च तुलसीं मल्लिकां मारुतं तथा ॥३१॥
नीलोत्पलैरंबुजैश्च कृष्णास्फुटजलैरपि
पूजयंतो महात्मानो महात्मानं जनार्दनम् ॥३२॥
नारदं खेऽथ ददृशुर्जटिलं सविपंचिकम्
नारायणपदाघोषं लंबकूर्चोपवीतिनम् ॥३३॥
स चापि मनसा दध्यौ क एष इति नारदः
स पपात प्रभोः पादे शंभोरानंदनिर्भरः ॥३४॥
शैवीं पंचाक्षरीं विद्यां जजाप मनसा मुनिः
धन्योऽस्म्यनुगृहीतोऽस्मि जन्माद्यसफलं मम ॥३५॥
ब्रह्मादिवंद्यं चागम्यं ज्ञातवानस्मि ते पदम्
नारदं तमथ प्राह शंभुर्मैवं वदेति हि ॥३६॥
यथा च मां न जानंति तथा मे कुरु वर्तनम्
गच्छ शीघ्रं हरिं ब्रूहि ममागमनमल्पतः ॥३७॥
अथ स त्वरया गत्वा सर्वं व्यज्ञापयद्धरिम्
अथ सत्वरया विष्णोरादायार्घोदकं शुभम् ॥३८॥
कमलासहितो योगी कोटिकोटिसमावृतः
निर्ययौ नारदं हस्ते गृहीत्वा गरुडध्वजः ॥३९॥
नमोनमो नमोस्त्वस्मै शंकरायेत्युदीरयन्
अर्घपाद्यादिना सर्वान्पूजयामास केशवः ॥४०॥
प्रावेशयदमेयात्मा नारायणपुरं शुभम्
गृहराजे ततः स्थित्वा नारायण उवाच ह ॥४१॥
कथमेते समायाताः कोऽयं राजा महायशाः
अमानुषप्रवेशोऽयं ब्रह्माद्यैरप्यगोचरः ॥४२॥
शंभुरुवाच-
मुनिवेषा यथा प्राप्ता वयमेते नृपस्तथा
तवांशो नृपतिश्चायं रामचंद्रः प्रतापवान् ॥४३॥
एनां संवीक्षितुं पत्नीं तव केशव कांक्षति
नारायणस्तथेत्युक्त्वा प्रविशेत्याह राघवम् ॥४४॥
अथ प्रविश्य भवनं लक्ष्मीं वीक्ष्य नमस्य च
विनयावनतो भूत्वा वाचमाह सुचारिणीम् ॥४५॥
कृतार्थोऽस्मि न संदेहो वद त्वं किं तु मन्यसे
श्रीदेव्युवाच-
त्वं युवा कामकृष्टश्च रूपवानसि राघव ॥४६॥
सीता सा चारुसर्वांगी तव पत्नी तया भवान्
वियुक्तोऽस्ति पुरा चासीदतीव विरहाकुलः ॥४७॥
ममापि वद सर्वं तदथवा न च लप्स्यसि
सहासान्यथ वाक्यानि यूनां चित्तहराणि च ॥४८॥
श्रुत्वा तु तानि सर्वाणि रामभद्रो यतात्मवान्
निर्गंतुं कांक्षते तत्र आनम्य तन्मुखांबुजम् ॥४९॥
स्मरबाणेन पद्मेन संपीड्य रघुशेखरम्
अन्वेव निर्ययौ देवी पद्मा पद्मवनप्रिया ॥५०॥
एकपत्नीव्रतं ज्ञात्वा रामं ते समुपागमन्
अथवेपितसर्वांगं स्खलत्पदगतिं नृपम् ॥५१॥
शिवनारायणौ दृष्ट्वा विस्मयं परमं गतौ
अहोऽस्य द्रढिमाचित्ते मायिनोऽप्य वशात्मनः ॥५२॥
धैर्यं पश्येह नियतं तेन रामः सुकीर्तिमान्
सर्वतः शिवमेवास्य नाशिवं विद्यते क्वचित् ॥५३॥
अथ रामो वचः प्राह गच्छेहं भगवन्प्रभो
अनुज्ञातोऽथ हरिणा पुष्पकेण स राघवः ॥५४॥
स मुनिः सहशंभुश्च सहनारायणो ययौ
लोकालोकं गतः शीघ्रं ततः स्वादूदधिं गतः ॥५५॥
ततो द्वीपसमुद्रांश्च जंबूद्वीपं पुनर्गतः
भरद्वाजाश्रमपदे तस्थिवान्गौतमीतटे ॥५६॥
अथ स्नात्वा महानद्यां भरद्वाजो मुनीश्वरः
शिष्यैः श्रीमान्परिवृतः पुष्पकं दृष्टवान्मुनिः ॥५७॥
तत्र रामं महाबाहुं शिवनारायणावृषीन्
यथावत्पूजयित्वा तु तानुवाच महामुनिः ॥५८॥
ममाश्रमपदे यूयं भोक्तुमर्हथ सत्तमाः
रामस्तु मन्वाक्येन तथेत्याह कथंचन ॥५९॥
अथ स्नात्वा महानद्यां कृत्वा देवादितर्पणम्
भोक्तुकामं तदा रामं वसिष्ठो वाक्यमुक्तवान् ॥६०॥
धर्मत्यागो भवेद्राम न श्राद्धं क्रियते यदि
श्रीराम उवाच-
अमायां ग्रहणे तीर्थे व्यतीपातेऽथ संक्रमे ॥६१॥
व्यतीतं यदि चेच्छ्राद्धं भगवन्क्रियते पुनः
नित्यश्राद्धं पुनर्नैव कुर्यादिति वचस्तव ॥६२॥
यथा ममैव मातॄणां मरणे समुपस्थिते
अशौचे च समायाते नित्यश्राद्धं न वै कृतम् ॥६३॥
व्यतीपातादिकालेषु कृतं तु वचनात्तव
वसिष्ठ उवाच-
एते हि मुनयः सर्वे तथा शंभुरयं द्विजः ॥६४॥
एतन्मुखादशेषेण निर्णयस्तु भविष्यति
सह सर्वे विनिश्चित्य मुनयः शंभुमब्रुवन् ॥६५॥
वदास्माकमशेषं त्वं द्विजवर्य महानसि
शंभुरुवाच-
त्यक्तव्यं यच्च वै श्राद्धं पुनः कर्तव्यमेव च ॥६६॥
सूतके समनुप्राप्ते विघ्नेषु च वदाम्यहम्
मासिकान्युदकुंभानि श्राद्धानि सकलानिच ॥६७॥
प्रतिसांवत्सरं श्राद्धं सूतकानंतरं विदुः
त्यक्तान्यन्यानि यावंति सूतके विघ्नसंभवे ॥६८॥
अनंतरं हि कार्याणि सर्वाणीति न संशयः
मासिकानि समस्तानि श्राद्धं प्रात्यब्दिकं तथा ॥६९॥
सूतकानंतरं कार्यं विघ्नेऽन्यस्मिन्यतोन्यथा
एकादश्यां कृष्णपक्षे कर्तव्यं शुभमिच्छता ॥७०॥
तत्र व्यतिक्रमे हेतावमायां क्रियते तु तत्
यथोत्तरदिनेष्वेव कर्तव्यं यद्यविघ्नतः ॥७१॥
कृष्णपक्षे त्वमायां तु कर्तव्यं राम नो कृतम्
मृताहस्य यदा मासो न ज्ञायेत कथंचन ॥७२॥
मार्गशीर्षेऽथवा माघे श्राद्धं तद्दिवसे स्मृतम्
यदा तु वासराज्ञानं मासस्य ज्ञानमेव च ॥७३॥
अमायामेव तन्मासे श्राद्धं सांवत्सरं भवेत्
दिनमासापरिज्ञाने प्रोषितस्य मृतस्य च ॥७४॥
तत्तिथ्यां तद्दिनं ग्राह्यं तत्र ज्ञानं यदा भवेत्
आश्विनामा च मार्गामा माघामा च दिनत्रयम् ॥७५॥
तत्र वान्यतमं ग्राह्यं दिनमासाप्रतीतितः
वृद्धिसप्तमसीमंत प्रेतश्राद्धानुमासिकम् ॥७६॥
नित्योदकुंभश्राद्धं च मासे स्युरधिकेऽपि च
ग्रहणे पुत्रजन्मादौ कर्मण्यपि च शांतिके ॥७७॥
संकल्पिते च सर्वस्मिन्नधिमासो न दुष्यति
रोगी यदा मनुष्यः स्याच्छ्राद्धकर्मण्युपस्थिते ॥७८॥
भार्यां वा भ्रातरं वापि शिष्यं वापि नियोजयेत्
तस्याभावे न हानिः स्यात्कर्मणः श्राद्धसंज्ञिनः ॥७९॥
नित्यश्राद्धे यथाशक्ति भोक्तारं तु नियोजयेत्
अमावास्या मासिकं च मृताह व्यतिरेकि यत् ॥८०॥
स्वयं कर्मण्यशक्तश्चेत्सुतं विप्रं नियोजयेत्
राजकार्यनियुक्तस्य दासग्रहणवर्तिनः ॥८१॥
व्यसनेषु समस्तेषु श्राद्धं विप्रेण कारयेत्
प्रातःकाले तु न श्राद्धं प्रकुर्वंति द्विजोत्तमाः ॥८२॥
नैमित्तिकेषु श्राद्धेषु न कालनियमः स्मृतः ॥८३॥
गृहादिव्यतिरिक्तस्य प्रक्रमः कुतुपः स्मृतः
कुतुपादथवाप्यर्वागासन्नकुतुपो भवेत् ॥८४॥
मासेमासे यथाश्राद्धेऽपराह्णस्पृग्विधीयते
अपराह्णव्यापिनी स्यादुभयत्र यदा त्वमा ॥८५॥
क्षये पूर्वा तु कर्तव्या वृद्धौ साम्ये परा स्मृता
अमावास्या तु या हि स्यादपराह्णद्वये समा ॥८६
क्षये पूर्वा परा वृद्धौ साम्येऽपि च परा भवेत्
क्षीणस्तु चंद्रमा यत्र तत्र श्राद्धं तु पार्वणम् ॥८७॥
अमाष्टभागे सूक्ष्मोऽसौ भूताष्टांशे स नास्ति चेत्
मध्याह्नव्यापिनी सा स्यादेकोद्दिष्टे तिथिर्भवेत् ॥८८
सायाह्नव्यापिनी या स्यात्पार्वणे सा तिथिर्भवेत्
अल्पापराह्णगा यामा ग्राह्या श्राद्धादिके भवेत् ॥८९॥
मृताहे त्रिमुहूर्ता च सायंकाले तिथिर्भवेत्
परेह्यस्तंगता यत्र त्रिमुहूर्तं तु पूर्ववत् ॥९०
तत्रापरेद्युः श्राद्धं स्याज्ज्येष्ठपुत्रस्य नाशनम्॥
अमाश्राद्धं यथा कुर्यान्मृताहे समुपस्थिते ॥९१॥
मध्याह्नव्यापिनी तत्र ह्य द्विजस्य विधीयते
राम उवाच-॥
श्राद्धक्रममशेषेण मर्त्यकर्मक्रमं तथा ॥९२
प्रासंगिकानां धर्माणां निर्णयं वक्तुमर्हसि॥
शंभुरुवाच-
श्राद्धस्य दिवसे प्राप्ते पूर्वेद्युर्नियमान्वितः ॥९३॥
निमंत्रयीत विप्रेंद्रान्विप्रलक्षणसंयुतान्
एकभुक्तं ब्रह्मचर्यमंत्यजाद्यैरभाषणम् ॥९४॥
दंतधावनमभ्यंग नखकेशनिकृंतनम्
कर्ता कुर्वीत पूर्वेद्युस्त्यक्त्वा चैव परेऽहनि ॥९५॥
गृह्णीतनियमानुक्तान्सर्वमेतत्परित्यजेत्
त्रिकालं चैव पूजा चेत्प्रातर्देवं यजेत्स्वकम् ॥९६॥
अरुणोदयवेलायां करोति यदि पूजनम्
अधःशायी तथा भूतः प्रातरुत्थाय कर्मवित् ॥९७॥
प्रातस्त्यमपि यत्कर्म तत्कृत्वा स्नानपूर्वकम्
ऋणत्रयविनिर्मुक्तो यास्यति ब्रह्मतत्परम् ॥९८॥
सूर्यस्योदयवेलायां शिवपूजां करोति यः
सूर्येणसम तेजस्वी शिवलोके महीयते ॥९९॥
उदिते भास्करे पश्चाद्धटिकांतरपूजनम्
रुद्रेणसम तेजस्वी शिवलोके महीयते ॥१००॥
तृतीयघटिकायां तु शिवपूजां समाचरेत्
कुबेरसम तेजस्वी शिवलोके महीयते ॥१०१॥
तृतीयघटिकायां तु शिवपूजां समाचरेत्
कुबेरसम तेजस्वी शिवलोके महीयते ॥१०२॥
चतुर्थीपंचमीषष्ठीसप्तमी घटिकासु यः
शिवं पूजयते भक्त्या शिवलोके मरुत्समः ॥१०३॥
तत्काल एव क्रियते पूजा यत्कालनोदिता
यथा प्रतिज्ञमथवा गृहीत नियमो यजेत् ॥१०४॥
उपचारेषु शक्त्या वै नियमं परिपालयेत्
नियमातिक्रमे वापि यागश्च स्याद्विभोर्यदि ॥१०५॥
श्रीराम उवाच-
क्व पूजा देवदेवस्य शंकरस्यामितौजसः
स्मरणात्पापनाशस्य स्मरणान्मोक्षदस्य च ॥१०६॥
शिवस्य शिवरूपस्य शिवतत्त्वार्थवेदिनः
सोमस्य सोमभूषस्य सोमनेत्रस्य राजितुः ॥१०७॥
वेदमूर्तेरमूर्तेश्च वेदसारस्य वेदिनः
वेदवेदांगवित्तस्य वेद्यावेद्यस्य योगिनः ॥१०८॥
गोक्षीरसमदेहस्य गोक्षीरस्नानमोदिनः
गोपालिनस्त्रिनेत्रस्य त्रयीनेत्रस्य मायिनः ॥१०९॥
प्रश्नमध्ये तथा रामं शिवज्ञानमथादिशत्
स्थाणुभूतइवासीनो नासाग्रन्यस्तलोचनः ॥११०॥
आनंदनिष्यंदविलोचनाश्रु प्रवाहसंस्पृष्टकपोलदेशः
दधार देवं गिरिशं हृदंबुजे गोक्षीरसुस्निग्धसुचारुगात्रम् ॥१११॥
प्रतिबिंबमथो गात्रे रामस्य समदृश्यत
दृष्ट्वैव बिंबितं शंभुं चतुर्बाहुं त्रिलोचनम् ॥११२॥
विस्मयं परमं याताः सर्वे मुनिहरीश्वराः
शंभोर्वक्षःस्थितं रामं दृष्ट्वा दीप्ताकृतिं शुभम् ॥११३॥
तूष्णीं बभूवुर्यामार्द्धमथ राममुदैक्षत
स्वप्रश्नमनुसंधाय प्राह सर्वं वदेति च ॥११४॥
शंभुरुवाच-
अचले या सदा पूजा चले वापि यथेच्छया
लिंगसंपूजनं मुख्यमलाभे प्रतिमादिषु ॥११५॥
अधिकारविशेषेण तत्रतत्रापि पूजनम्
विगुणं सगुणं वापि सफलं लिंगपूजनम् ॥११६॥
प्रतिमादिकृतापूजा विगुणा सफला नहि
अचले वा चले वापि पूजा लिंगे प्रशस्यते ॥११७॥
चलस्य पूजनं वक्ष्ये स्थापनोद्वासने तथा
ते उभेन विजानाति कश्चिन्मुनिरपि क्वचित् ॥११८॥
स्थापयंति हृदब्जे वै गोपयंति यजंति च
उद्वासयंति देवेशं शंकरं योगिनः सदा ॥११९॥
क्रिया चातीव होतॄणां वह्नौ देवं त्रियंबकम्
पूजकानामशेषाणां शिवलिंगे महेश्वरम् ॥१२०॥
लिंगस्य स्थापनं पूजा उद्वासनमथैव च
धारणं शंकरस्यैव लिंगमेव महेश्वरम् ॥१२१॥
सज्जिकं परमोत्कृष्टं स्वर्णं चैव विनिर्मितम्
राजतैर्वा दलैः कार्यं राजतैर्वैणवैस्तु यत् ॥१२२॥
लतासूत्रैरथो वापि रचितं दारुणाथवा
वस्त्रेण वाथ रचितं मृदाविरचितं भवेत् ॥१२३॥
तत्र संवेष्ट्य वस्त्रेण सुगंधेन समन्विते
धौतवस्त्रयुगे शुद्धे मृद्वासन समन्विते ॥१२४॥
शीतोष्णरहिते पादचतुष्टयसमन्विते
प्रावृतिच्छेदनोपेते क्रिमिकीटविवर्जिते ॥१२५॥
धौतेन मृदुवस्त्रेण सर्वतो वेष्ट्य तं शिवम्
विन्यस्य सज्जिकामध्ये प्रावृत्य च पुनर्विभुम् ॥१२६॥
एषा हि सज्जिका राम देवस्याग्रेति कीर्तिता
तस्य च स्थापनं पाठो रहस्ये च महेशितुः ॥१२७॥
अथवा भित्तिमूले स्याद्देववेद्यामथापि वा
सुरक्षिते तथा देशे रक्षकं च नियोजयेत् ॥१२८॥
प्राणादेरविनाभावं कुर्वीत नियमैः सह
एतद्धि राजसं प्रोक्तं स्थापनं परमात्मनः ॥१२९॥
सात्विकं स्वसमीपस्थं धारणं तामसं पुनः
धारणं गात्रसंस्पर्शमशेषदेहगोपनम् ॥१३०॥
मस्तके धारणं मुख्यं ब्रह्मणा च तथा कृतम्
विन्यस्य मुकुटस्यांते धारणं शुभमुच्यते ॥१३१॥
ललाटे धारणं शस्तं यथा लक्ष्म्या धृतं शुभम्
बाणेन च धृतं मूर्ध्नि दक्षिणोरसि वा पुनः ॥१३२॥
कर्णे च हरकर्णेन मुनिना परमर्षिणा
विनिर्भिद्य तथा गात्रं लोहस्थानं प्रकल्प्य च ॥१३३॥
धारयंति तथा लिंगं राक्षसाः केचिदुत्तमाः
अनिकेतन मर्त्यानामशक्तानां शिरोधृतिः ॥१३४॥
अधमाधममाख्यातं नीवीबंधादिधारणम्
तेषु तूच्छिष्टसंप्राप्तौ मस्तके धारणं भवेत् ॥१३५॥
अधमाधमवृत्तीनां सदा वै लिंगधारणम्
पापिनामपि चाश्चर्यं यमलोके न विद्यते ॥१३६॥
श्रीराम उवाच-
चित्रगुप्तेन लिखिता ललाटे या लिपिर्दृढा
तया तु लिप्या नियतं नरकं कथमन्यथा ॥१३७॥
करोति पूजनं शंभोः पापं नाशयते कथम्
शंभुरुवाच-
पापं नाशयते कृत्स्नमपि जन्मशतार्जितम् ॥१३८॥
भर्त्सनात्सर्वपापानां स्मरणाच्च महेशितुः
भस्मेति पदमाख्यातं तस्य धारणमुत्तमम् ॥१३९॥
यथाविधि ललाटे वै वह्निवीर्यप्रधारणात्
नाशयेल्लिखितां यामीं पटस्थामिव हव्यभुक् ॥१४०॥
कर्णोपरिकृतं पापं नष्टं स्यान्मुखधारणे
कंठे च धारणात्कंठभोगादिकृतपातकम् ॥१४१॥
बाह्वोर्बाहुकृतं पापं वक्षसि मनसा कृतम्
नाभ्यां शिश्नकृतं पापं पृष्ठे गुदकृतं तथा ॥१४२
पार्श्वयोर्धारणाद्राम परस्त्र्यालिंगनादिजम्
तद्भस्मधारणं शस्तं सर्वत्रैव त्रिपुंड्रकम् ॥१४३
ब्रह्मविष्णुमहेशानां त्रय्यग्नीनां च धारणम्
गुप्त्यै लोकत्रयाणां च धारणं तेन वै कृतम् ॥१४४॥
धृतं पंचदशस्थाने शुद्धं भस्माभिमंत्रितम्
कोष्ठयुग्मे बाहुयुग्मे कोष्ठोपरि युगे तथा ॥१४५॥
धारणं सर्वदेहानां पूजायै धर्मसंमतम्
भस्माशना भस्मशय्या भस्मोद्धूलितविग्रहाः ॥१४६॥
भस्मस्नानाः सदापापैर्मुच्यंते नात्र संशयः
आदौ ब्राह्मणदीक्षायां त्रियायुषमिति स्मृतम् ॥१४७॥
प्रसवे च मनुष्याणां भूतावेशेऽपि रक्षकम्
सर्पादिविषहान्यर्थं सर्वेषां साधनं त्विदम् ॥१४८॥
अपि वा वैष्णवो मर्त्य अथवापीतरो जनः
भस्मस्नायी भस्मयुक्तः कर्मस्वधिकरोति वै ॥१४९॥
श्रीराम उवाच-
भस्ममाहात्म्यमादौ मे भस्मायुष्यं हि कस्य वै
कथं हि रक्षते ह्येतत्सर्वमेतद्वदस्व मे ॥१५०॥
शंभुरुवाच-
आयुष्यवर्द्धने हेतुस्त्रिविधस्यापि देहिनः
पापघ्नं शीतमुष्णं च स्पर्शाच्छिवपदप्रदम् ॥१५१॥
अत्र ते कीर्तयिष्यामि चेतिहासं पुरातनम्
आसीद्वासिष्ठवंश्यस्तु धनंजय इति द्विजः ॥१५२॥
तस्य भार्याशतं चासीद्रूपलावण्यसंयुतम्
तासामेका तु सुषुवे शामाकाकरुणं मुने ॥१५३॥
भार्याणां संख्यया राम सुताश्चासंस्तपस्विनः
पित्रा विभागस्तेषां च विषमः परिकल्पितः ॥१५४॥॥
भ्रातॄणां च तदा ह्येव वैरबंधो महानभूत्
नराणामेकजातीनां वैरं नियतमेव तु ॥१५५॥
अथासौ करुणो गत्वा भवनाशिनिका तटे
नानामुनिगणैः सार्द्धं नरसिंहदिदृक्षया ॥१५६॥
नृसिंहदर्शनार्थं तु ब्राह्मणेन तु केनचित्
उत्कृष्टफलितंवीरमानीतं रूपगंधवत् ॥१५७॥
करुणस्तु तदादाय व्यजिघ्रत्फलमुत्तमम्
तत्रस्थिता द्विजगणाः शापेन तमयोजयन् ॥१५८॥
मक्षिका भव पापात्मन्वर्षाणां शतमप्यतः
शापावसानं भविता दधीचेन महात्मना ॥१५९॥
अथ मक्षिकतां प्राप्तो भार्यामिदमभाषत
मक्षिकात्वमहं प्राप्तो मां शुभे पालयस्व भोः ॥१६०॥
इत्युक्त्वा स तथा भूतो बभ्राम च ततस्ततः
अथैवंविधमाज्ञाय ज्ञातयः पापनिश्चयाः ॥१६१॥
तद्वधे यत्नमास्थाय तैलमध्ये ह्यपातयन्
मृतं पतिमथादाय दुःखिता सा कृशोदरी ॥१६२॥
तद्दुःखशमनार्थाय प्राह देवीत्वरुंधती
अमुं संजीवयाम्यद्य भस्मनैव शुचिस्मिते ॥१६३॥
अथाग्निहोत्रजं भस्म अरुंधत्यै न्यवेदयत्
मृत्युंजयेन मंत्रेण मृतजं तौ तथाक्षिपत् ॥१६४॥
मंदवायुं तथा चक्रे व्यजनेन शुचिस्मिता
उदतिष्ठत्ततो जंतुर्भस्मनोऽस्य प्रभावतः ॥१६५॥
ततो वर्षशते पूर्णे ज्ञातिरेको ह्यमारयत्
मृते भर्तरि सा साध्वी दुःखिता च शुचिस्मिता ॥१६६॥
दधीचं नाम विप्रेंद्रं महामाहेश्वरं मुनिम्
जगाम शरणं साध्वी प्राह विप्रस्तपोधनः ॥१६७॥
त्रियायुषा विहीनं तु जमदग्निं तपोनिधिम्
भस्मैव जीवयामास कश्यपं च तथाविधम् ॥१६८॥
देवानपि तथाभूतान्मामप्येतादृशं पुरा
तस्मात्तु भस्मना जंतुं जीवयामि तवानघे ॥१६९॥
इत्येवमुक्त्वा भगवान्दधीचो महेश्वरं वै शरणं जगाम
भस्माभिमंत्र्याथ करे गृहीत्वा संजीवयामास धवं सुसाध्व्याः ॥१७०॥
महेशस्य करस्पर्शाद्विशापः करुणोऽभवत्
स्वरूपं च ततो गत्वा स्वमाश्रमपदं ययौ ॥१७१॥
दधीचमपि सा साध्वी गृहमानीय भोजने
प्रार्थयामास विप्रर्षिं भुक्तवानथ स द्विजः ॥१७२॥
भुक्तवत्यथ विप्रेंद्रे कोटिशिष्याः समागताः
अथ देवाः समायाता भस्मोद्धूलितविग्रहाः ॥१७३॥
नमस्कृत्य दधीचं तु पप्रच्छुः शिवकांक्षया
देवा ऊचुः -
अस्माकं तु पुरा ज्ञानं नष्टमासीन्महामते ॥१७४॥
गौतमस्य तु भार्यां वै दृष्ट्वा कामातुरा वयम्
तथा च धर्षिता देवी विवाहकृतमंगला ॥१७५॥
तां वै कामयमानानां नष्टं ज्ञानमभूच्च नः
ततः सर्वे वयं भूता गता दुर्वाससं मुनिम् ॥१७६॥
स उवाचाधुना सर्वमपनेष्यामि वोमलम्
शतरुद्रियमंत्रेण मंत्रितं शंभुना स्वयम् ॥१७७॥
ममापि दत्तं तेनैव ब्रह्महत्यादिशांतये
इत्येवमुक्त्वा दुर्वासा दत्तवान्भस्मचोत्तमम् ॥१७८॥
अथ तद्वचनात्सर्वे वयं विकृतचेतनाः
शतरुद्रियमंत्रेण भस्मोद्धूलितविग्रहाः ॥१७९॥
निर्धूतपातकाः सर्वे संवृत्तास्तत्क्षणेन हि
आश्चर्यमेतज्जानीमो भस्मसामर्थ्यमीदृशम् ॥१८०॥
दधीच उवाच-
शैवस्य भस्मनः शक्तिं संक्षेपेण वदामि वः
विस्तरेण न शक्येत वक्तुं वर्षशतैरपि ॥१८१॥
अत्र वः कीर्तयिष्यामि पुरावृत्तं तु देवयोः
हरिशंकरयोः सर्वे ब्रह्महत्यादिनाशनम् ॥१८२॥
पुरा चैकार्णवे घोरे ब्रह्मणः प्रलये सति
महाविष्णुस्तु भगवाञ्छेते स्म प्रलयांभसि ॥१८३॥
तस्य पार्श्वद्वयं प्राप्य ब्रह्मांडानां शतद्वयम्
विंशतिः पादयोः पार्श्वे विंशतिर्मस्तकांतरे ॥१८४॥
नासामौक्तिकभावेन ब्रह्मांडमदधात्प्रभुः
तन्नाभिमंडले केचिल्लोमशाद्या मुनीश्वराः ॥१८५॥
तपस्तपंतः सुमहदीश्वरं पर्युपासते
अथ विष्णुर्महातेजाश्चिंतामाप सिसृक्षया ॥१८६॥
ध्यानयोगपरो भूत्वा न किंचित्पर्यपश्यत
अथ दुःखेन महता रुरोदोच्चैः पुनः पुनः ॥१८७॥
एतस्मिन्नंतरे दीप्तिः काचिल्लोकविलक्षणा
दृष्ट्वा च हरिणा भीत्या लोचने च निमीलिते ॥१८८॥
आगम्यमानो गोक्षीरसमतेजाः स गात्रवान्
संग्रथ्य कोटिब्रह्मांडदामयुग्मं करद्वये ॥१८९॥
दधानमुरसा धामकोटिब्रह्मांडकल्पितम्
ब्रह्मांडमेकं निपतदुत्पतच्च करद्वये ॥१९०॥
सर्वाभरणसंयुक्तं तथाभूतं तमव्ययम्
विष्णुस्तुष्टाव चादृष्ट्वा दर्शनाय च तस्य वै ॥१९१॥
विष्णुरुवाच-
नमस्ते देवदेवेश नमस्ते शाश्वताव्यय
न जानेऽहं भवंतं भोस्त्वं च वेत्सि नमोनमः ॥१९२॥
जानामि न च ते भावं दुर्निरीक्ष्या च ते द्युतिः
माणिक्यकुंडलं हेमदामजालविभूषितम् ॥१९३॥
रत्नांगुलीयं सुभगं बाहुकोष्ठविभूषणम्
तनुरक्तोत्तमाकीर्ण दीप्तायतविलोचनम् ॥१९४॥
बाणलोचनसंकाशं भाललोचनमव्ययम्
कंदर्पकार्मुकभ्रांतिजनक भ्रुवमीश्वरम् ॥१९५॥
स्निग्धाधोन्नतचार्वंग नासमच्छकपोलकम्
मंदस्मितं प्रसन्नास्यं विभुं बालेंदुदर्शनम् ॥१९६॥
विज्ञानरक्तवसनं वेदकल्पितभूषणम्
शरणं त्वां प्रपन्नोऽस्मि चक्षुर्मे दीयतां विभो ॥१९७॥
दीनांधकृपणाज्ञाननष्टस्य शरणं भव
अथ दिव्यं ददौ चक्षुः स्वात्मदर्शनशक्तिमत् ॥१९८॥
अथ दृष्ट्वा हरिः शंभुं त्रिनेत्रं पुरतः स्थितम्
को भवानित्युवाचाथ न जाने त्वां महायशः ॥१९९॥
प्रणामं केवलं कर्तुं शक्तोऽस्मि न हि वेदितुम्
सदाशिव उवाच-
तव ज्ञानं प्रदास्यामि कुरु स्नानं च वारुणम् ॥२००॥
भस्मस्नानं ततः पश्चात्ततो ज्ञानं वदाम्यहम्
श्रीभगवानुवाच-
मत्स्नानयोग्यं सलिलं न चतिष्ठति कुत्रचित् ॥२०१॥
इत्युक्तोथ निषण्णस्तु ब्रह्मांडासक्तविग्रहः
ऊरुदघ्नजले स्नातुं न योग्यमभवद्धरेः ॥२०२॥
शंभुर्जहास स्नानाय जलमत्यधिकं त्वहो
दधीच उवाच-
अथ देवः शिवो विष्णुं भालाक्षेण व्यलोकयत् ॥२०३॥
विलीनसूक्ष्मावयवं वामाक्षेण व्यलोकयत्
ततः सूक्ष्मतनुर्विष्णुः शीतदेहश्च शंभुना ॥२०४॥
उक्तश्च स्नाहि भो विष्णो ह्रद एष विकल्पितः
ततो ह्रदे हरिः स्नातुं हरांके कल्पिते तदा ॥२०५॥
प्रवेष्टुं न शशाकाथ गंभीरे तद्ध्रदस्य तु
हरिराह च नो पंथा ह्रदस्यास्य प्रवेशने ॥२०६॥
मार्गो मे दीयतां देव तमथो शंभुरब्रवीत्
कोटियोजनगंभीरं जलमेतन्महत्पुरा ॥२०७॥
निविष्टस्यैव भवत ऊरुदघ्नं जलं विभो
इदानीं तिष्ठतश्चापि न प्रवेशो ह्रदे कथम् ॥२०८॥
अष्टांगुलप्रमाणोऽयमूरुस्तस्मिन्ह्रदे च मे
पश्यामि प्रविश त्वं च पादस्पर्शं ददामि ते ॥२०९॥
वाक्यमेकं तु सोपानं वेदं मद्वाक्यनिस्सृतम्
हरिरुवाच-
शब्दारोहणसामर्थ्यं कस्यापीह न विद्यते ॥२१०॥
मूर्तस्य ग्रहणं शक्यं ग्रहणं वा कथं श्रुतेः
शंभुरुवाच-
पुंसः शक्तिर्न वस्तूनां धारणारोहणादिषु ॥२११॥
गृहाणेमं महावेदं जग्राह हरिरप्यथ
नम्रकरश्चाशक्तेर्हि पतन्निव जनार्द्दनः ॥२१२॥
न च शक्यं मया धर्तुमिति प्राह शिवं हरिः
शिवः प्रहस्य निपती पात्यतीव महाह्रदे ॥२१३॥
तत्सोपानमथारुह्य स्नातुमर्हसि केशव
दधीच उवाच-
वेदे सोपानभूते हि ऊरुदघ्नोपलब्धिनि ॥२१४॥
तत्र स्नात्वा स विधिना बहिरुत्तीर्य चोक्तवान्
स्नातोऽस्मि किमतः कार्यं शंभुराह हरिं ततः ॥२१५॥
ध्यायसे हृदये किं त्वं न च किंचिद्वदस्व मे
हरिर्न किंचिदित्याह तमथो शंभुरुक्तवान् ॥२१६॥
भस्मस्नानेन संशुद्धो वेत्स्यसे परमं शुभम्
दीक्षितस्य हि तच्छस्तं तद्रक्षां करवाण्यहम् ॥२१७॥
दधीच उवाच-
स्ववक्षः स्थितभस्मैकं नखेनादाय शंकरः
प्रणवेनाभिमंत्र्याथ गायत्र्या ब्रह्मभूतया ॥२१८॥
अंगुलिभ्यामुपादाय शिवः पंचाक्षरेण वै
हरिमस्तकगात्रेषु सर्वेष्वपि समाक्षिपत् ॥२१९॥
शांतदृष्ट्या निरीक्ष्याथ जीवेत्याह हरिं हरः
ध्यायस्व किं ते हृदये स च ध्यानपरोऽभवत् ॥२२०॥
अपश्यद्धृदये दीपं दीर्घाकारमतिप्रभम्
हरिराह शिवं साक्षाद्दीपो दृष्टो मयेति च ॥२२१॥
शिवः प्राह न ते ज्ञानं परिपक्वमथो हरे
भस्म भक्षय ते ज्ञानं समग्रं संभविष्यति ॥२२२॥
हरिरुवाच-
भक्षयिष्ये शुभं भस्म स्नातोऽहं भस्मना पुरा
दृष्ट्वेश्वरं भक्तिगम्यं भस्माभक्षयदच्युतः ॥२२३॥
तत्राश्चर्यमतीवासीत्पक्वबिंबसमद्युतिः
वासुदेवः शुद्धमुक्ताफलवर्णोऽभवत्क्षणात् ॥२२४॥
ततःप्रभृति शुक्लोऽसौ वासुदेवः प्रसन्नवान्
पुनर्ध्यानपरो भूत्वा दीपमध्ये च पूरुषम् ॥२२५॥
शुद्धस्फटिकसंकाशं त्रिनेत्रं द्विभुजं शिवम्
वरदं दक्षिणे हस्ते वामे चाभयदं विभुम् ॥२२६॥
पंचवर्षीयवपुषं शरच्चंद्रायुतद्युतिम्
माणिक्यकुंडलं हेम दामजालविभूषितम् ॥२२७॥
रत्नांगुलीयसुभगं बाहुकोष्ठसुभूषणम्
तनुरक्तोष्ठमाकर्ण दीर्घायतविलोचनम् ॥२२८॥
बाणलोचनसंकाशं भाललोचनमव्ययम्
कंदर्पकार्मुकभ्रांतिजनकभ्रुवमीश्वरम् ॥२२९॥
स्निग्धोन्नत सुचार्वंग नासमच्छकपोलकम्
मंदस्मितं प्रसन्नास्यं बालेंदुदर्शनं विभुम् ॥२३०॥
विज्ञानरक्तवसनं वेदकल्पितनूपुरम्
वामांगुलीयमध्यस्थमतिप्रणवमव्ययम् ॥२३१॥
दृष्टवानथ तं विष्णुः कृतकृत्योऽभवत्तदा
अथाह शंभुर्भो विष्णो हृदि दृष्टं त्वया किमु ॥२३२॥
हरिराह पुरा दृष्टः पुरुषः शांतविग्रहः
इत्युदीर्य महाविष्णुः शिवपादे पपात ह ॥२३३॥
हरिरुवाच-
न शक्तिं भस्मनो जाने प्रभावं वा कुतस्तव
नमस्तेऽस्तु नमस्तेऽस्तु त्वामेव शरणं गतः ॥२३४॥
सदाशिव उवाच-
वरं वृणु महाभाग मनसा यं त्वमिच्छसि
शिववाचमथाकर्ण्य हरिर्वव्रे वरोत्तमम् ॥२३५॥
हरिरुवाच-
त्वत्पादयुगले शंभो भक्तिरस्तु सदा मम
अथ दत्वा वरं शंभुरिदमाह वचो हरिम् ॥२३६॥
भस्मधारणसंपन्नो मम भक्तो भविष्यसि
दधीच उवाच-
इत्थमुक्तं महाज्ञानं भस्मसंभवमादितः ॥२३७॥
तस्माद्यूयं सुराः सर्वे धारयध्वं तदादरात्
विस्मयोत्फुल्लनयना देवाश्चासंस्तदस्त्विति ॥२३८॥
य इदं शृणुयान्नित्यं पुण्याख्यानमनुत्तमम्
विमुक्तः सर्वपापेभ्यो यात्यसौ शांकरं पदम् ॥२३९॥
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे भस्ममाहात्म्ये
पंचोत्तरशततमोऽध्यायः ॥१०५॥

N/A

References : N/A
Last Updated : November 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP