पातालखण्डः - अध्यायः २८
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
शेष उवाच
अथ पुत्रं समालोक्य पतितं व्यसुमुद्धतम्
विललाप भृशं राजा सुतदुःखेन दुःखितः ॥१॥
मूर्ध्नि संताडयामास पाणिभ्यामतिदुःखितः
कम्पमानो भृशं चाश्रूण्यमुञ्चन्नयनाब्जयोः ॥२॥
गृहीत्वा पतितं वक्त्रं चंद्रबिंबमनोरमम्
पुष्कलेषु क्षतासृग्भिः क्लिन्नं कुंडलशोभितम् ॥३॥
कुटिलभ्रूयुगं श्रेष्ठं संदष्टाधरपल्लवम्
स चुंबन्मुखपद्मेन विलपन्निदमब्रवीत् ॥४॥
हा पुत्र वीर कथमुत्सुकचेतसं मां
किं नेक्षसे विशदनेत्रयुगेन शूर
किं मद्विनोदकथयारहितस्त्वमेव
रोषोदधिप्लुतमनाः किल लक्ष्यसे च ॥५॥
वद पुत्र कथं मां त्वं प्रब्रूषे न हसन्पुनः
अमृतैर्मधुरास्वादैर्विनोदयसि पुत्रक ॥६॥
शत्रुघ्नाश्वं गृहाण त्वं सितचामरशोभितम्
स्वर्णपत्रेण शोभाढ्यं त्यज निद्रां महामते ॥७॥
एष प्रतापविशदः प्रतापाग्र्यः परंतपः
धनुर्बिभ्रत्पुरो भाति पुष्कलः परवीरहा ॥८॥
एनं वारय सत्तीक्ष्णैर्बाणैः कोदंडनिर्गतैः
कथं त्वं रणमध्ये वै शेते वीरविमोहितः ॥९॥
हस्तिनः पत्तयश्चैव रथारूढा भयार्दिताः
शरणं त्वां समायांति तानीक्षस्व महामते ॥१०॥
पुत्र त्वया विना सोढुं कथं शक्तो रणांगणे
शत्रुघ्नसायकांस्तीक्ष्णांश्चंडकोदंडनिर्गतान् ॥११॥
अतो मां तु त्वया हीनं को वा पालयितुं क्षमः
यदि त्यक्ष्यसि निद्रा त्वं जयायाहं क्षमस्तदा ॥१२॥
इत्थं विलप्य सुभृशं तताड हृदयं स्वकम्
बहुशः पाणिना राजा पुत्रदुःखेन दुःखितः ॥१३॥
तदा विचित्र दमनौ स्व स्व स्यंदनसंस्थितौ
पितुश्चरणयोर्नत्वा ऊचतुः समयोचितम् ॥१४॥
राजन्नस्मासु जीवत्सु किं दुःखं हृदि तद्वद
वीराणां प्रधने मृत्युर्वांच्छितो जायते महान् ॥१५॥
धन्योऽयं बत चित्रांगो यो वीर भुवि शोभते
सकिरीटस्तु संदष्टदंतच्छदयुगः प्रभुः ॥१६॥
कथयाशु किमद्यैव कुर्वस्ते कार्यमीप्सितम्
शत्रुघ्नवाहिनीं सर्वां हन्व आवामनाथिनीम् ॥१७॥
अद्यैव पुष्कलं भ्रातुर्वधकारिणमाहवे
पातयावो रथाच्छित्त्वा शिरोमुकुटमंडितम् ॥१८॥
त्यज शोकं सुदुःखार्तः कथं भासि महामते
आज्ञापयावां मानार्ह कुरु युद्धे मतिं तथा ॥१९॥
इति वाक्यं समाकर्ण्य पुत्रयोर्वीरमानिनोः
शोकं त्यक्त्वा महाराजो युद्धाय मतिमादधात् ॥२०॥
तावपि प्रतियोद्धारं वांच्छंतौ रणदुर्मदौ
जग्मतुः कटके शत्रोरनंतभटपूरिते ॥२१॥
रिपुतापेन दमनो नीलरत्नेन चेतरः
युयुधाते रणे वीरौ प्रावृषीव बलाहकौ ॥२२॥
राजा कनकसन्नद्धे रथे मणिविचित्रिते
रत्नकूबरशोभाढ्ये तिष्ठंश्चापधरो बली ॥२३॥
ययौ योद्धुं तु शत्रुघ्नं वीरकोटभिरावृतम्
तृणीकुर्वन्महावीरान्धनुर्विद्याविशारदान् ॥२४॥
तं योद्धुमागतं दृष्ट्वा सुबाहुं रोषपूरितम्
पुत्रनाशेन कुर्वंतं सर्वसैन्यवधादिकम् ॥२५॥
शत्रुघ्नपार्श्वसंचारी हनूमांस्तमुपाद्रवत्
नखायुधो महानादं कुर्वन्मेघ इवाहवे ॥२६॥
सुबाहुस्तं हनूमंतमागच्छंतं महारवम्
उवाच प्रहसन्वाक्यं रोषपूरितलोचनः ॥२७॥
क्व गतः पुष्कलो हत्वा मत्पुत्रं रणमंडले
पातयाम्यद्य तस्याशु शिरो ज्वलितकुंडलम् ॥२८॥
क्व शत्रुघ्नो वाहपालः क्व च रामः कुतो भटाः
प्राणहंतारमायांतं पश्यंतु प्रधने तु माम् ॥२९॥
इति तद्वाक्यमाकर्ण्य हनूमान्निजगाद तम्
शत्रुघ्नो लवणच्छेत्ता वर्तते सैन्यपालकः ॥३०॥
स कथं प्रधने युध्येत्सेवकेऽग्रे स्थिते नृप
मां विजित्य रणे तं च त्वं गंतासि नरर्षभ ॥३१॥
इत्युक्तवंतं तरसा विव्याध दशसायकैः
हृदि वानरमत्युग्रं पर्वताग्र्यमिवस्थितम् ॥३२॥
सबाणानागतांस्तांश्च गृहीत्वा करसंपुटे
चूर्णयामास तिलशः शितान्वैरिविदारणान् ॥३३॥
चूर्णयित्वा शरांस्तांस्तु निनदन्घनगर्जितैः
पुच्छेनावेष्ट्य तस्योच्चै रथं निन्ये महाबलः ॥३४॥
तदा तं नृपवर्योऽसावाकाशे स्थित एव सः
लांगूलं ताडयामास शिताग्रैः सायकैर्मुहुः ॥३५॥
स ताडितस्तु पुच्छाग्रे शरैः सन्नतपर्वभिः
मुमोच तद्रथं दिव्यं कनकेन विचित्रितम् ॥३६॥
स मुक्तस्तेन तरसा शरैस्तीक्ष्णैर्जघान तम्
हनूमंतं कपिवरं रोषसंपूरितेक्षणः ॥३७॥
हनूमान्बाणविच्छिन्नः सर्वत्ररुधिराप्लुतः
महारोषं समाधत्त नृपोपरि कपीश्वरः ॥३८॥
गृहीत्वा तस्य दंष्ट्राभी रथं हयसमन्वितम्
चूर्णयामस वेगेन तदद्भुतमिवाभवत् ॥३९॥
स्वरथं भज्यमानं तु दृष्ट्वा राजा त्वरन्बली
अन्यं रथं समास्थाय युयुधे तं महाबलम् ॥४०॥
पुच्छे मुखेऽथोरसि च भुजे चरणयोर्नृपः
जघान शरसंधानकोविदः परमास्त्रवित् ॥४१॥
तदा क्रुद्धः कपिवरस्ताडयामास वक्षसि
पादेनोत्प्लुत्य वेगेन राज्ञः सुभटशोभिनः ॥४२॥
स पदा प्रहतो भूमौ पपात किल मूर्च्छितः
मुखाद्वमन्नसृक्चोष्णं श्वासपूरप्रवेपितः ॥४३॥
तदा प्रकुपितोऽत्यंतं हनूमान्प्रधनांगणे
अश्वान्वीरान्गजांश्चापि चूर्णयामास वेगतः ॥४४॥
तदा सुकेतुस्तद्भ्राता तथा लक्ष्मीनिधिर्नृपः
उभावपि सुसन्नद्धौ युद्धाय समुपस्थितौ ॥४५॥
राजानं मूर्च्छितं दृष्ट्वा प्रपलाय्य गता नराः
इतस्ततो बाणसंघैः क्षताः पुष्कलवर्षितैः ॥४६॥
तद्भज्यमानं स्वबलं वीक्ष्य राजात्मजो बली
दमनः स्तंभयामास सेतुर्वार्धिमिवोच्चलम् ॥४७॥
तदा तु मूर्च्छितो राजा स्वप्नमेकं ददर्श ह
रणमध्ये कपिवरप्रपदाघातताडितः ॥४८॥
रामचंद्रस्त्वयोध्यायां सरयूतीरमंडपे
ब्राह्मणैर्याज्ञिकश्रेष्ठैर्बहुभिः परिवारितः ॥४९॥
तत्र ब्रह्मादयो देवास्तत्र ब्रह्मांडकोटयः
कृतप्राञ्जलयस्तं वै स्तुवंति स्तुतिभिर्मुहुः ॥५०॥
रामं श्यामं सुनयनं मृगशृंगपरिग्रहम्
गायंति नारदाद्याश्च वीणोल्लसितपाणयः ॥५१॥
नृत्यंत्यप्सरसस्तत्र घृताची मेनकादयः
वेदा मूर्तिधरा भूत्वा उपतिष्ठंति राघवम् ॥५२॥
यच्च किंचिद्वस्तुजातं सर्वशोभासमन्वितम्
तस्य दातारमखिलं भक्तानां भोगदायकम् ॥५३॥
इत्येवमादिसंपश्यञ्जाग्रत्संज्ञामवाप सः
ब्रह्मशापहतज्ञानः किं दृष्टमिति वै वदन् ॥५४॥
उत्थाय प्रययौ पद्भ्यां शत्रुघ्नचरणं प्रति
भृत्यकोटिपरीवारो रथकोटिपरीवृतः ॥५५॥
सुकेतुं तु समाहूय विचित्रं दमनं तथा
युद्धं कर्तुं समुद्युक्तान्वारयामास धर्मवित् ॥५६॥
उवाच तान्महाराजो धर्मात्मा धर्मसंयुतः
भ्रातःपुत्रौ शृणुत मे वाक्यं धर्मसमन्वितम् ॥५७॥
मा युद्धं कुरुत क्षिप्रमनयस्तु महानभूत्
यद्रामचंद्रवाहं त्वमगृह्णाद्दमनोर्ज्जितम् ॥५८॥
एष रामः परंब्रह्म कार्यकारणतः परम्
चराचरजगत्स्वामी न मानुषवपुर्धरः ॥५९॥
एतद्धि ब्रह्मविज्ञानमधुना ज्ञातवानहम्
पुरासितांगशापेन हृतज्ञानधनोऽनघाः ॥६०॥
अहं पुरा तीर्थयात्रां गतस्तत्त्वविवित्सया
तत्रानेके मया दृष्टा मुनयो धर्मवित्तमाः ॥६१॥
असितांगं मुनिमहं गतवाञ्ज्ञातुमिच्छया
तदा प्रोवाच मां विप्रः कृपां कृत्वा ममोपरि ॥६२॥
योऽसावयोध्याधिपतिः स परब्रह्मशब्दितः
तस्य या जानकी देवी साक्षात्सा चिन्मयी स्मृता ॥६३॥
एनं तु योगिनः साक्षादुपासते यमादिभिः
दुस्तरा पारसंसारवारिधिं संतितीर्षवः ॥६४॥
स्मृतमात्रो महापापहारी स गरुडध्वजः
य एनं सेवते विद्वान्स संसारं तरिष्यति ॥६५॥
तदाहमहसं विप्रं कोऽयं रामस्तु मानुषः
केयं सा जानकी देवी हर्षशोकसमाकुला ॥६६॥
अजन्मनः कथं जन्म अकर्तुः कृत्यमत्र किम्
जन्मदुःखजरातीतं कथयस्व मुने मम ॥६७॥
इत्युक्तवंतं मां क्रुद्धः शशाप स मुनीश्वरः
अज्ञात्वा तत्स्वरूपं त्वं प्रतिब्रूषे ममाधम ॥६८॥
एनं निंदसि रामं त्वं मानुषोऽयमिदं हसन्
तस्मात्त्वं तत्त्वसंमूढो भविष्यस्युदरंभरिः ॥६९॥
तदाहं तस्य चरणावगृह्णं सदया युतः
दृष्ट्वा मे विनयं मां तु प्रावोचत्करुणानिधिः ॥७०॥
त्वं रामस्य मखे विघ्नं करिष्यसि यदा नृप
तदा हनूमानंघ्रिं त्वां ताडयिष्यति वेगतः ॥७१॥
तदा त्वं ज्ञास्यसे राजन्नान्यथा स्वमनीषया
पुराहमुक्तस्तेनैवं तद्दृष्टमधुना मया ॥७२॥
यदा मां हनुमान्क्रुद्धस्ताडयामास वक्षसि
तदाऽदर्शं रमानाथं पूर्णब्रह्मस्वरूपिणम् ॥७३॥
तस्मादश्वं तु शोभाढ्यमानयंतु महाबलाः
धनानि चैव वासांसि राज्यं चेदं समर्पये ॥७४॥
रामं दृष्ट्वा कृतार्थः स्यामहं यज्ञेति पुण्यदे
आनयंतु हयं मह्यं रोचते तु तदर्पणम् ॥७५॥
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे
सुबाहुपराजयोनाम अष्टाविंशतितमोऽध्यायः ॥२८॥
N/A
References : N/A
Last Updated : November 04, 2020
TOP