संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः| अध्यायः ५७ पातालखण्डः वि्षयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ पातालखण्डः - अध्यायः ५७ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ५७ Translation - भाषांतर वात्स्यायन उवाचजगत्पवित्रसत्कीर्ति जानक्या वाच्यवाचनम्कथं समकरोत्स्वामी तन्मे कथय सुव्रत ॥१॥यथा मे मनसः सौख्यं भविष्यति सुशोभनम्तथा कुरुष्व शेषाद्य त्वन्मुखान्निःसृतामृतम्पिबतस्तृप्तिरेव स्याद्यया संसृतिकृं तनम् ॥२॥शेष उवाचमिथिलायां महापुर्यां जनको नाम भूपतिःतस्यां करोति सद्राज्यं धर्मेणाराधयन्प्रजाः ॥३॥तस्य संकर्षतो भूमिं सीतया दीर्घमुख्ययासीरध्वजस्य निरगात्कुमारी ह्यतिसुंदरी ॥४॥तदात्यंतं मुदं प्राप्तः सीरकेतुर्महीपतिःसीता नामाकरोत्तस्या मोहिन्या जगतः श्रियः ॥५॥सैकदोद्यानविपिने खेलंती सुमनोहराअपश्यत्स्वमनःकांतं शुकशुक्योर्युगं वदत् ॥६॥अत्यंतं हर्षमापन्नमत्यंतं कामलोलुपम्परस्परं भाषमाणं स्नेहेन शुभया गिरा ॥७॥रममाणं तदा युग्मं नभसि क्षिप्रवेगतःसमुत्पतन्नगोपस्थे स्थितं शब्दं चकार तत् ॥८॥रामो महीपतिर्भूमौ भविष्यति मनोहरःतस्य सीतेति नाम्ना तु भविष्यति महेलिका ॥९॥स तया सह वर्षाणां सहस्राण्येकयुग्दशराज्यं करिष्यते धीमान्कर्षन्भूमिपतीन्बली ॥१०॥धन्या सा जानकी देवी धन्योऽसौ रामसंज्ञितःयौ परस्परमापन्नौ पृथिव्यां रंस्यतो मुदा ॥११॥इति संभाष्यमाणं तु शुकयुग्मं तु मैथिलीज्ञात्वेदं देवतायुग्मं वाणीं तस्य विलोक्य च ॥१२॥मदीयास्तु कथा रम्याः कुरुते शुकयोर्युगम्एतद्गृहीत्वा पृच्छामि सर्वं वाक्यं गतार्थकम् ॥१३॥एवं विचार्य सा स्वीयाः सखीः प्रतिजगाद हगृह्णंतु शनकैरेतत्पक्षियुग्मं मनोहरम् ॥१४॥सख्यस्तास्तद्गिरिं गत्वा गृह्णन्पक्षियुगं वरम्निवेदयामासुरिदं स्वसख्याः प्रियकाम्यया ॥१५॥बहुधा विविधाञ्छब्दान्कुर्वद्वीक्ष्य मनोहरम्आश्वासयामास तदा पप्रच्छ तदिदं वचः ॥१६॥सीतोवाचमा भैषातां युवां रम्यौ कौ वां कुत्र समागतौको रामः का च सा सीता तज्ज्ञानं तु कुतः स्मृतम् ॥१७॥तत्सर्वं शंसतं क्षिप्रं मत्तो वां व्येतु यद्भयम्इति पृष्टं तया पक्षियुगं सर्वमशंसत ॥१८॥पक्षियुग्ममुवाचवाल्मीकिरास्ते सुमहानृषिर्धर्मविदुत्तमःआवां तदाश्रमस्थाने सर्वदा सुमनोहरे ॥१९॥सशिष्यान्गापयामास भावि रामायणं मुनिःप्रत्यहं तत्पदस्मारी सर्वभूतहिते रतः ॥२०॥तदावाभ्यां श्रुतं सर्वं भावि रामायणं महत्मुहुर्मुहुर्गीयमानमायातं परिपाठतः ॥२१॥शृण्वावां तेऽभिधास्यावो यो रामो या च जानकीयद्यद्भविष्यते तस्या रामेण क्रीडितात्मना ॥२२॥ऋष्यशृंगकृतेष्ट्यां च चतुर्धा त्वंगतो हरिःप्रादुर्भविष्यति श्रीमान्सुरस्त्रीगीतसत्कथः ॥२३॥स कौशिकेन मिथिलां प्राप्स्यते भ्रातृसंयुतःधनुष्पाणिस्तदा दृष्ट्वा दुर्ग्राह्यमन्यभूभुजाम् ॥२४॥धनुर्भंक्त्वा जनकजां प्राप्स्यते सुमनोहराम्तया सह महद्राज्यं करिष्यति श्रुतं वरे ॥२५॥एतदन्यच्च तत्रस्थैः श्रुतमस्माभिरुद्गतैःकथितं तव चार्वंगि मुंचावां गंतुकामुकौ ॥२६॥इति वाक्यं तयोर्धृत्वा श्रोत्रयोः सुमनोहरम्पुनरेवजगादेदं वाक्यं पक्षियुगं प्रति ॥२७॥स रामः कुत्र वर्तेत कस्य पुत्रः कथं तु ताम्परिग्रहीष्यति वरः कीदृग्रूपधरो नरः ॥२८॥मया पृष्टमिदं सर्वं कथयंतु यथातथम्पश्चात्सर्वं करिष्यामि प्रियं युष्मन्मनोहरम् ॥२९॥तच्छ्रुत्वा तां तु कामेन पीडितां वीक्ष्य सा शुकीजानकीं हृदये ज्ञात्वा पपाठ पुरतस्ततः ॥३०॥सूर्यवंशध्वजो धीमान्राजा पंक्तिरथो बलीयं देवाः श्रित्य सर्वारीन्विजेष्यंति च सर्वशः ॥३१॥तस्य भार्यात्रयं भावि शक्रमोहनरूपधृक्तस्मिन्नपत्य चातुष्कं भविष्यति बलोन्नतम् ॥३२॥सर्वेषामग्रजो रामो भरतस्तदनुस्मृतःलक्ष्मणस्तदनु श्रीमाञ्छत्रुघ्नः सर्वतो बली ॥३३॥रघुनाथ इति ख्यातिं गमिष्यति महामनाःतेषामनंतनामानि रामस्य बलिनः सखि ॥३४॥पद्मकोश इव शोभनं मुखंपंकजाभनयने सुदीर्घकेउन्नता पृथुमनोहरा नसावल्गुसंगत मनोहरे भ्रुवौ ॥३५॥जानुलंबित मनोहरौ भुजौकंबुशोभिगलकोऽतिह्रस्वकःसत्कपाटतलविस्तृतश्रिकंवक्ष एतदमलं सलक्ष्मकम् ॥३६॥शोभनोरुकटिशोभया युतंजानुयुग्मममलं स्वसेवितम्पादपद्ममखिलैर्निजैः सदासेवितं रघुपतिं सुशोभनम् ॥३७॥एतद्रूपधरो रामो मया किं तु स वर्ण्यतेशताननोपि नो याति पक्षिणः किमु मादृशाः ॥३८॥यद्रूपं वीक्ष्य ललिता मनोहरवपुर्धरालक्ष्मीर्मुमोह भुविका वर्तते या न मोहति ॥३९॥महाबलो महावीर्यो महामोहनरूपधृक्किं वर्णयामि श्रीरामं सर्वैश्वर्यगुणान्वितम् ॥४०॥धन्या सा जानकीदेवी महामोहनरूपधृक्रंस्यते येन सहिता वर्षाणामयुतं मुदा ॥४१॥त्वं कासि किं तु नामासि बत सुंदरि यत्तु माम्परिपृच्छसि वैदग्ध्याद्रामकीर्तनमादरात् ॥४२॥एतद्वाक्यं समाकर्ण्य जानकी पक्षिणोर्युगम्उवाच जन्मललितं शंसंती स्वस्य मोहनम् ॥४३॥या त्वया जानकी प्रोक्ता साहं जनकपुत्रिकास रामो मां यदाभ्येत्य प्राप्स्यते सुमनोहरः ॥४४॥तदा वां मोचयाम्यद्धानान्यथा वाक्यलोभितालालयामि सुखेनास्तां मद्गेहे मधुराक्षरौ ॥४५॥इत्युक्तं तत्समाकर्ण्य वेपतुर्भयतां गतौपरस्परं प्रक्षुभितौ जानकीमित्यवोचताम् ॥४६॥वयं वै पक्षिणः साध्वि वनस्था वृक्षगोचराःपरिभ्रमाम सर्वत्र नो सुखं नो भवेद्गृहे ॥४७॥अंतर्वत्नी स्वके स्थाने गत्वा संसूय पुत्रकान्त्वत्स्थानमागमिष्यामि सत्यं मे ह्युदितं वचः ॥४८॥एवं प्रोक्ता तया सा तु न मुमोच शुकीं स्वयम्तदापतिस्तां प्रोवाच विनीतवदनुत्सुकः ॥४९॥सीते मुंच कथं भार्यां रक्षसे मे मनोहरीम्आवां गच्छाव विपिने विचरावः सुखं वने ॥५०॥अंतर्वत्नी तु वर्तेत भार्या मम मनोरमातस्याः प्रसूतिं कृत्वा त्वामागमिष्यामि शोभने ॥५१॥इत्युक्ता निजगादेमं सुखं गच्छ महामतेएतां रक्षामि सुखिनीं मत्पार्श्वे प्रियकारिणीम् ॥५२॥इत्युक्तो दुःखितः पक्षी तामूचे करुणान्वितःयोगिभिः प्रोच्यते यद्वै तद्वचस्तथ्यमेव हि ॥५३॥न वक्तव्यं न वक्तव्यं मौनमाश्रित्य तिष्ठताम्नोचेत्स वाक्यदोषेण प्राप्नोत्यालानमुन्मदः ॥५४॥वयं चेदत्र वाक्यं नाकरिष्याम नगोपरिबंधनं कथमावां स्यात्तस्मान्मौनं समाचरेत् ॥५५॥इत्युक्त्वा तां प्रत्युवाच नाहं जीवामि सुंदरिएतया भार्यया सीते तस्मान्मुंच मनोहरे ॥५६॥अनेकविधवाक्यैः सा बोधिता नामुचत्तदाकुपिता दुःखिता भार्या शशाप जनकात्मजाम् ॥५७॥यथा त्वं पतिना सार्धं वियोजयसि मामितःतथा त्वमपि रामेण वियुक्ता भव गर्भिणी ॥५८॥इत्युक्तवत्यां तस्यां तु दुःखितायां पुनः पुनःप्राणा निरगमन्दुःखात्पतिदुःखेन पूरितात् ॥५९॥रामं रामं स्मरंत्याश्च वदंत्यांश्च पुनः पुनःविमानमागतं सुष्ठु पक्षिणी स्वर्गता बभौ ॥६०॥तस्यां मृतायां दुःखार्तो भर्ता तस्याः स पक्षिराट्परमं क्रोधमापन्नो जाह्नव्यां दुःखितोऽपतत् ॥६१॥तथा भवामि रामस्य नगरे जनपूरितेमद्वाक्यादियमुद्विग्ना वियोगेन सुदुःखिता ॥६२॥इत्युक्त्वा स पपातोदे जाह्नव्या भ्रमशोभितेदुःखितः कुपितो भीतस्तद्वियोगेन कंपितः ॥६३॥क्रुद्धत्वाद्दुःखितत्वाच्च सीताया अपमाननात्अंत्यजत्वं परं प्राप्तो रजकः क्रोधनाभिधः ॥६४॥यः क्रोधाच्च स्वकान्प्राणान्महतां दुष्टमाचरन्संत्यजेत्स मृतो याति अंत्यजत्वं द्विजोत्तमः ॥६५॥तज्जातं रजकोक्त्यासौ निंदिता च वियोगितारजकस्य च शापेन वियुक्ता सा वनं गता ॥६६॥एतत्ते कथितं विप्र यत्ते पृष्टं विदेहजाम्पुनरत्र परं वृत्तं शृणुष्व निगदामि तत् ॥६७॥इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे रजकप्राग्जन्मकथनंनाम सप्तपंचाशत्तमोऽध्यायः ॥५७॥ N/A References : N/A Last Updated : November 06, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP