पातालखण्डः - अध्यायः ७५
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
पार्वत्युवाच-
वृंदावनरहस्यं च बहुधा कथितं विभो
केन पुण्यविशेषेण नारदः प्रकृतिं गतः ॥१॥
ईश्वर उवाच-
एकदाश्चर्यवृत्तांतं मया जिज्ञासितं पुरा
ब्रह्मणा कथितं गुह्यं श्रुतं कृष्णमुखांबुजात् ॥२॥
नारदः पृष्टवान्मह्यं तदाहं प्राप्तवानिदम्
अहं वक्तुं न शक्नोमि तन्माहात्म्यं कथंचन ॥३॥
किं कुर्वे शपनं तस्य स्मृत्वा सीदामि मानसे
इति श्रुत्वा मम वचो दुर्मनाः सोऽभवद्यदा ॥४॥
तदा ब्रह्माणमाहूय अहमादिष्टवान्प्रिये
त्वया यत्कथितं मह्यं नारदाय वदस्व तत् ॥५॥
ब्रह्मा तदा ममवचो निशम्य सह नारदः
जगाम कृष्णसविधं नत्वा पृच्छत्तदेव तु ॥६॥
ब्रह्मोवाच-
किमिदं द्वात्रिंशद्वनं वृंदारण्यं विशांपते
श्रोतुमिच्छामि भगवन्यदियोग्योऽस्मि मे वद ॥७॥
श्रीभगवानुवाच-
इदं वृंदावनं रम्यं मम धामैव केवलम्
यत्रेमे पशवः साक्षाद्वृक्षाः कीटा नरामराः ॥८॥
ये वसंति ममांत्ये ते मृता यांति ममांतिकम्
अत्र या गोपपत्न्यश्च निवसंति ममालये ॥९॥
योगिन्यस्तास्तु एवं हि मम देवाः परायणाः
पंचयोजनमेवं हि वनं मे देवरूपकम् ॥१०॥
कालिंदीयं सुषुम्नाख्या परमामृतवाहिनी
यत्र देवाश्च भूतानि वर्त्तंते सूक्ष्मरूपतः ॥११॥
सर्वतो व्यापकश्चाहं न त्यक्ष्यामि वनं क्वचित्
आविर्भावस्तिरोभावो भवेदत्र युगेयुगे ॥१२॥
तेजोमयमिदं स्थानमदृश्यं चर्मचक्षुषाम्
रहस्यं मे प्रभावं च पश्य वृंदावनं युगे ॥१३॥
ब्रह्मादीनां देवतानां न दृश्यं तत्कथंचन
ईश्वर उवाच-
तच्छ्रुत्वा नारदो नत्वा कृष्णं ब्रह्माणमेव च ॥१४॥
आजगाम ह भूर्लोके मिश्रकं नैमिषं वनम्
तत्रासौ सत्कृतश्चापि शौनकाद्यैर्मुनीश्वरैः ॥१५॥
पृष्टश्चाप्यागतो ब्रह्मन्कुतस्त्वमधुना वद
तच्छ्रुत्वा नारदः प्राह गोलोकादागतोऽस्म्यहम् ॥१६॥
श्रुत्वा कृष्णमुखांभोजाद्वृंदावनरहस्यकम्
नारद उवाच-
तत्र नानाविधाः प्रश्नाः कृताश्चैव पुनः पुनः ॥१७॥
समस्ता मनवस्तत्र योगाश्चैव मया श्रुताः
तानेव कथयिष्यामि यथाप्रश्नं च तत्त्वतः ॥१८॥
शौनकादय ऊचुः -
वृंदारण्यरहस्यं हि यदुक्तं ब्रह्मणा त्वयि
तदस्माकं समाचक्ष्व यद्यस्मासु कृपा तव ॥१९॥
नारद उवाच-
कदाचित्सरयूतीरे दृष्टोऽस्माभिश्च गौतमः
मनस्वी च महादुःखी चिंताकुलितचेतनः ॥२०॥
मां दृष्ट्वा गौतमो देवः पपात धरणीतले
उत्तिष्ठ वत्सवत्सेति तमुवाचाहमेव हि ॥२१॥
कथं भवान्मनस्वीति प्रोच्य तां यदि रोचते
गौतम उवाच-
श्रुतं तव मुखादेव कृष्णतत्त्वं च तादृशम् ॥२२॥
द्वारकाख्यं माथुराख्यं रहस्यं बहुशो मया
वृंदावनरहस्यं तु न श्रुतं त्वन्मुखांबुजात् ॥२३॥
यतो मे मनसः स्थैर्य्यं भविष्यति च सद्गुरो
नारद उवाच-
इदं तु परमं गुह्यं रहस्यातिरहस्यकम् ॥२४॥
पुरा मे ब्रह्मणा प्रोक्तं तादृग्वृंदावनोद्भवम्
रहस्यं वद देवेश वृंदारण्यस्य मे पितः ॥२५॥
इतिजिज्ञासितं श्रुत्वा क्षणं मौनी स चाभवत्
ततो माऽह महाविष्णुं गच्छ वत्स प्रभुं मम ॥२६॥
मयापि तत्र गंतव्यं त्वया सह न संशयः
इत्युक्त्वा मां गृहीत्वा च गतो विष्णोश्च धामनि ॥२७॥
महाविष्णौ च कथितं मयोक्तं यत्तदेव हि
तच्छ्रुत्वा च महाविष्णुः स्वयं भुवमथादिशत् ॥२८॥
त्वमेवादेशतो मह्यं नीत्वा वै नारदं मुनिम्
स्नानाय विनियुंक्ष्वामुं सरस्यमृतसंज्ञके ॥२९॥
महाविष्णुसमादिष्टः स्वयंभूर्मां तथाकरोत्
तत्रामृतसरश्चाहं प्रविश्य स्नानमाचरम् ॥३०॥
तत्क्षणात्तत्सरः पारे योषितां सविधेऽभवम्
सर्वलक्षणसपन्ना योषिद्रूपातिविस्मिता ॥३१॥
मां दृष्ट्वा ताः समायांतीमपृच्छंश्च मुहुर्मुहुः
स्त्रिय ऊचुः -
का त्वं कुतः समायाता कथयात्मविचेष्टितम् ॥३२॥
तासां प्रियकथां श्रुत्वा मयोक्तं तन्निशामय
कुतः कोऽहं समायातः कथं वा योषिदाकृतिः ॥३३॥
स्वप्नवद्दृश्यते सर्वं किं वा मुग्धोऽस्मि भूतले
तच्छ्रुत्वा मद्वचो देवी प्रोवाच मधुरस्वनैः ॥३४॥
वृंदानाम्नी पुरी चेयं कृष्णचंद्रप्रिया सदा
अहं च ललितादेवी तुर्यातीता च निष्कला ॥३५॥
इत्युक्त्वा च महादेवी करुणा सांद्रमानसा
मां प्रत्याह पुनर्देवी समागच्छ मया सह ॥३६॥
अन्याश्च योषितः सर्वाः कृष्णपादपरायणाः
ताश्च मां प्रवदंत्येवं समागच्छानया सह ॥३७॥
ततोनुकृष्णचंद्रस्य चतुर्दशाक्षरो मनुः
कृपया कथितस्तस्या देव्याश्चापि महात्मनः ॥३८॥
तत्क्षणादेव तत्साम्यमलभं विविधोपमा
ताभिः सह गतास्तत्र यत्र कृष्णः सनातनः ॥३९॥
केवलं सच्चिदानंदः स्वयंयोषिन्मयः प्रभुः
योषिदानंदहृदयो दृष्ट्वा मां प्राब्रवीन्मुहुः ॥४०॥
समागच्छ प्रिये कांते भक्त्या मां परिरंभय
रेमे वर्षप्रमाणेन तत्र चैव द्विजोत्तम ॥४१॥
तदोक्तं रमणेशेन तां देवीं राधिकां प्रति
इयं मे प्रकृतिस्तत्र चासीन्नारदरूपधृक् ॥४२॥
नीत्वामृतसरो रम्यं स्नानार्थं संनियोजय
तया मे रमणस्यांते गदितं प्रियभाषितम् ॥४३॥
अहं च ललितादेवी राधिकाया च गीयते
अहं च वासुदेवाख्यो नित्यं कामकलात्मकः ॥४४॥
सत्यं योषित्स्वरूपोऽहं योषिच्चाहं सनातनी
अहं च ललितादेवी पुंरूपा कृष्णविग्रहा ॥४५॥
आवयोरंतरं नास्ति सत्यंसत्यं हि नारद
एवं यो वेत्ति मे तत्त्वं समयं च तथा मनुम् ॥४६॥
स समाचारसंकेतं ललिता वत्स मे प्रियः
इदं वृंदावनं नाम रहस्यं मम वै गृहम् ॥४७॥
न प्रकाश्यं कदा कुत्र वक्तव्यं न पशौ क्वचित्
ततोऽनुराधिकादेवी मां नीत्वा तत्सरोवरे ॥४८॥
स्थित्वा सा कृष्णचंद्रस्य चरणांते गता पुनः
ततो निमज्जनादेव नारदोऽहमुपागतः ॥४९॥
वीणाहस्तो गानपरस्तद्रहस्यं मुहुर्मुदा
स्वयंभुवं नमस्कृत्य तत्रागां विष्णुपार्षदम् ॥५०॥
स्वयंभुवा तथा दृष्टं नोक्तं किंचित्तदा पुनः
इति ते कथितं वत्स सुगोप्यं च मया त्वयि ॥५१॥
त्वयापि कृष्णचंद्रस्य केवलं धामचित्कलम्
गोपनीयं प्रयत्नेन मातुर्जारइव प्रियम् ॥५२॥
यथा प्रोक्तं मया शिष्ये गौतमे सरहस्यकम्
तथा भवत्सु कार्त्स्न्येन कथितं चातिगोपितम् ॥५३॥
यत्र कुत्र कदाचित्तु प्रकाश्यं मुनिपुंगवाः
तदा शापो भवेद्विप्राः कृष्णचंद्रस्य निश्चितम् ॥५४॥
इमं कृष्णस्य लीलाभिर्युतमध्यायमुत्तमम्
यः पठेच्छृणुयाद्वापि स याति परमं पदम् ॥५५॥
इति श्रीपद्मपुराणे पातालखंडे वृंदावनमाहात्म्ये
नारदीयानुनये पंचसप्ततितमोऽध्यायः ॥७५॥
N/A
References : N/A
Last Updated : November 06, 2020
TOP