संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ७८

पातालखण्डः - अध्यायः ७८

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


पार्वत्युवाच-
वैष्णवानां च यद्धर्मं सर्वं तथ्यं च मे वद
यत्कृत्वा मानवाः सर्वे भवांभोधिं तरंति हि ॥१॥
ईश्वर उवाच-
अथ द्वादशधा शुद्धिर्वैष्णवानामिहोच्यते
गृहोपलेपनं चैव तथानुगमनं हरेः ॥२॥
भक्त्या प्रदक्षिणा चैव पादयोः शोधनं पुनः
पूजार्थं पत्रपुष्पाणां भक्त्यैवोत्तोलनं हरेः ॥३॥
करयोः सर्वशुद्धीनामियं शुद्धिर्विशिष्यते
तन्नामकीर्तनं चैव गुणानामपि कीर्त्तनम् ॥४॥
भक्त्या श्रीकृष्णदेवस्य वचसः शुद्धिरिष्यते
तत्कथाश्रवणं चैव तस्योत्सवनिरीक्षणम् ॥५॥
श्रोत्रयोर्नेत्रयोश्चैव शुद्धिः सम्यगिहोच्यते
पादोदकं च निर्माल्यं मालानामपि धारणम् ॥६॥
उच्यते शिरसः शुद्धिः प्रणतस्य हरेः पुरः
आघ्राणं तस्य पुष्पादेर्निर्माल्यस्य तथा प्रिये ॥७॥
विशुद्धिः स्यादंतरस्य घ्राणस्यापि विधीयते
यत्र पुष्पादिकं यच्च कृष्णपादयुगार्पितम् ॥८॥
तदेकं पावनं लोके तद्धि सर्वं विशोधयेत्
पूजा च पंचधा प्रोक्ता तासां भेदं शृणुष्व मे ॥९॥
अभिगमनमुपादानं योगः स्वाध्याय एव च
इज्या पंचप्रकारार्चा क्रमेण कथयामि ते ॥१०॥
तत्वाभिगमनं नाम देवतास्थानमार्जनम्
उपलेपं च निर्माल्यदूरीकरणमेव च ॥११॥
उपादानं नाम गंध पुष्पादिचयनं तथा
योगो नाम स्वदेवस्य स्वात्मनैवात्मभावना ॥१२॥
स्वाध्यायो नाम मंत्रार्थानुसंधापूर्वको जपः
सूक्तस्तोत्रादिपाठश्च हरेः संकीर्त्तनं तथा ॥१३॥
तत्त्वादिशास्त्राभ्यासश्च स्वाध्यायः परिकीर्तितः
इज्या नाम स्वदेवस्य पूजनं च यथार्थतः ॥१४॥
इति पंचप्रकारार्चा कथिता तव सुव्रते
सार्ष्टि सामीप्य सालोक्य सायुज्य सारूप्यदा क्रमात् ॥१५॥
प्रसंगात्कथयिष्यामि शालग्रामशिलार्चनम्
केशवादेश्चतुर्बाहोर्दक्षिणोर्ध्वकरक्रमात् ॥१६॥
शंखचक्रगदापद्मी केशवाख्यो गदाधरः
नारायणः पद्मगदाचक्रशंखायुधैः क्रमात् ॥१७॥
माधवश्चक्रशंखाभ्यां पद्मेन गदया भवेत्
गदाब्जशंखचक्री च गोविंदाख्यो गदाधरः ॥१८॥
पद्मशंखारि गदिने विष्णुरूपाय ते नमः
सशंखाब्ज गदाचक्र मधुसूदन मूर्तये ॥१९॥
नमो गदारिशंखाब्जयुक्तत्रिविक्रमाय च
सारिकौमोदकी पद्मशंख वामन मूर्त्तये ॥२०॥
चक्राब्जशंखगदिने नमः श्रीधरमूर्त्तये
हृषीकेशसारिगदाशंखपद्मिन्नमोस्तु ते ॥२१॥
साब्जशंखगदाचक्रपद्मनाभ स्वमूर्त्तये
दामोदरशंखगदाचक्रपद्मिन्नमोस्तु ते ॥२२॥
शंखाब्जचक्रगदिने नमः संकर्षणाय च
सारिशंखगदाब्जाय वासुदेव नमोस्तुते ॥२३॥
शंखचक्रगदाब्जाय धृत प्रद्युम्नमूर्त्तये
नमोऽनिरुद्धाय गदाशंखाब्जारिविधारिणे ॥२४॥
साब्जशंखगदाचक्रपुरुषोत्तममूर्त्तये
नमोऽधोक्षजरूपाय गदाशंखारि पद्मिने ॥२५॥
नृसिंहमूर्त्तये पद्मगदाशंखारिधारिणे
पद्मारिशंखगदिने नमोस्त्वच्युतमूर्त्तये ॥२६॥
सगदाब्जारिशंखाय नमः श्रीकृष्णमूर्त्तये
शालग्रामशिलाद्वारगतलग्नद्विचक्रधृक् ॥२७॥
शुक्लाभरेखः शोभाढ्यः सदेवः श्रीगदाधरः
लग्नद्विचक्रो रक्ताभः पूर्वभागस्तु पुष्कलः ॥२८॥
संकर्षणोऽथ प्रद्युम्नः सूक्ष्मचक्रस्तु पीतकः
सुदीर्घसुषिरच्छिद्रो ह्यनिरुद्धस्तु वर्त्तुलः ॥२९॥
नीलो द्वारे त्रिरेखश्च अथ नारायणोऽसितः
मध्ये गदाकृती रेखा नाभिपद्मं महोन्नतम् ॥३०॥
पृथुचक्रो नृसिंहो यः कपिलो यस्त्रिबिंदुकः
अथवा पंचबिंदोस्तु पूजनं ब्रह्मचारिणः ॥३१॥
वराहः स त्रिलिंगो यो विषमद्वयचक्रकः
नीलस्त्रिरेखः स्थूलोऽथ कूर्ममूर्तिः सबिंदुकः ॥३२॥
कृष्णः सवर्तुलावर्त्त पांडुरो धृतपृष्ठकः
श्रीधरः पंचरेखश्च वनमाली गदांकितः ॥३३॥
वामनो वर्तुलो नाम मध्यचक्रः सनीलकः
नानावर्णानेकमूर्ति नागभोगी त्वनंतकः ॥३४॥
स्थूलो दामोदरो नीलो मध्ये चक्रः सनीलकः
संकर्षणद्वारकोव्यादथ ब्रह्मा सुलोहितः ॥३५॥
सुदीर्घरेखासुषिर एकचक्रांबुजः पृथुः
पृथुचक्रः स्थूलछिद्रः कृष्णो बिंदुश्च बिंदुमान् ॥३६॥
ह्यग्रीवोंऽकुशाकारः पंचरेखः सकौस्तुभः
वैकुंठो मल्लवद्भाति एकचक्रमयोसितः ॥३७॥
मत्स्यो दीर्घांबुजाकारो दीर्घरेखश्च पांडुरः
रामचक्रो दक्षरेखो यः श्यामः स त्रिविक्रमः ॥३८॥
शालग्रामद्वारकायां स्थिताय गदिने नमः
एकेन लक्षितो योव्याद्गदाधारी सुदर्शनः ॥३९॥
लक्ष्मीनारायणो द्वाभ्यां त्रिभिश्चैव त्रिविक्रमः
चतुर्भिश्च चतुर्व्यूहो वासुदेवश्च पंचभिः ॥४०॥
प्रद्युम्नः षड्भिरेवाव्यात्संकर्षणश्च सप्तभिः
पुरुषोत्तमोऽष्टभिश्च स्यान्नवव्यूहो नवो हितः ॥४१॥
दशावतारो दशभिरनिरुद्धोऽवतादथ
द्वादशात्मा द्वादशभिरतऊर्द्ध्वमनंतकः ॥४२॥
ब्रह्मा चतुर्मुखो दंडी कमंडलुस्रगुन्नतः
महेश्वरः पंचवक्त्रो दशबाहुर्वृषध्वजः ॥४३॥
यथायुधस्तथागौरी चंडिका च सरस्वती
महालक्ष्मीर्मातरश्च पद्महस्तो दिवाकरः ॥४४॥
गजास्यश्च गजस्कंधः षण्मुखोनेकधा गणाः
एते स्थिताः स्थापिता स्युः प्रसादेवाथ पूजिताः ॥४५॥
धर्मार्थकाममोक्षा हि प्राप्यंते पुरुषेण च ॥४६॥
इति श्रीपद्मपुराणे पातालखंडे शालग्रामनिर्णयो-
नामाष्टसप्ततितमोऽध्यायः ॥७८॥

N/A

References : N/A
Last Updated : November 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP