संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ८७

पातालखण्डः - अध्यायः ८७

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सूतउवाच-
इति तस्य वचः श्रुत्वा नारदस्य स भूपतिः
प्रणम्य विस्मितः प्राह चिन्तयन्मनसा हरिम् ॥१॥
अंबरीष उवाच-
कथमेतद्विमुह्यामः स्वल्पायासेन वै मुने
प्राप्यते स्नानमात्रेण फलं चैवातिदुर्ल्लभम् ॥२॥
नारद उवाच-
सत्यमुक्तं त्वया राजन्नल्पायासेन यन्महत्
फलं संप्राप्यते तत्र श्रद्धत्स्व विधिभाषितम् ॥३॥
धर्मस्य गतयः सूक्ष्मा दुर्ज्ञेया हीश्वरैरपि
मुह्यंते चात्र विद्वांसोऽचिंत्यशक्ति हरेः कृतौ ॥४॥
विश्वामित्रादयो राजन्धर्माधिक्येन बाहुजाः
ब्राह्मण्यं समुपायाताः सूक्ष्मा धर्मगतिस्त्वतः ॥५॥
अजामिलोऽपि भूपाल दासीपतिरिति श्रुतः
धर्मपत्नीपरित्यागी नित्यं पापपथिस्थितः ॥६॥
म्रियमाणः सुतस्नेहात्प्रोच्य नारायणेति च
तद्ध्याननामग्रहणात्पदं लेभे सुदुर्ल्लभम् ॥७॥
अनिच्छयापि दहति स्पृष्टो हुतवहो यथा
तथा दहति गोविंद नामव्याजादपीरितम् ॥८॥
कानीनस्य मुनेः पौत्रा भ्रातृजायाभिगामिनः
गोलकस्य च वै पंडोः पुत्राः कुंडाः स्वयं तथा ॥९॥
ते पंचापि च भूपाल पांडवा द्रौपदीरताः
तेषां च पुण्यश्लोकत्वं सूक्ष्माधर्मगतिस्ततः ॥१०॥
विचित्राणि च कर्माणि विचित्रा भूतभावनाः
विचित्राणि च भूता निविचित्राः कर्मशक्तयः ॥११॥
कदाचित्सुकृतं कर्म कूटस्थं यदवस्थितम्
केनचित्कर्मणा भूप शुभेन परिवर्धते ॥१२॥
फलं ददाति सुमहत्कस्मिन्नपि च जन्मनि
सूक्ष्मो धर्मोऽतिगहनो मीयते न यथा तथा ॥१३॥
नैतस्य फलदानस्य श्रूयते भूपनिश्चयः
यत्किंचित्सुकृतं कर्मच्छन्नं पापांतरैरपि ॥१४॥
तदागत्य कुतः क्वापि स्वं फलं च प्रयच्छति
कृतस्य नेह नाशोऽस्ति पुण्यस्य दुरितस्य च ॥१५॥
तथापि बहुभिः पुण्यैर्दुरितं याति दारुणम्
यदुक्तं भवता राजन्नायासाधिक्यतो भवेत् ॥१६॥
महत्पुण्यं च तत्रापि कारणं मे निशामय
स्वल्पायासमहायासौ यद्यल्पत्व महत्त्वयोः ॥१७॥
महापुण्यास्ततस्ते स्युः संततं कर्षकादयः
मंत्रोच्चारं च सिंहादेरायासं बहुलं त्वतः ॥१८॥
पंचगव्यं प्रशस्तं हि व्रतांगत्वेन नो भवेत्
इति कर्तव्यबाहुल्यं महत्त्वं च तदल्पता ॥१९॥
जलाग्न्यादिप्रवेशस्य प्रसज्येत व्रतांतरात्
इदमल्पं महच्चैतदिति नैव नियामकम् ॥२०॥
फलं यच्चोदितं शास्त्रे तदेव स्यान्महन्नृप
यथाल्पनाशो महता महन्नाशस्तथाल्पतः ॥२१॥
किं त्वल्पविस्फुलिंगेन तृणराशिः प्रदह्यते ॥२२॥
हत्यायुतं पापसहस्रमुग्रं गुर्वंगनाकोटिनिषेवणं च
स्तेयादि पापानि च कृष्णभक्तैरज्ञानजातानि लयं ह्रियंते ॥२३॥
विष्णुभक्तिमतावीर यत्किंचित्क्रियतेऽल्पकम्
सुकृतं साधुविदुषा तदक्षयफलं लभेत् ॥२४॥
संदेहो नात्र कर्त्तव्यो माधवेमासि माधवम्
समाराध्य नरो भक्त्या तत्तद्वांच्छितमाप्नुयात् ॥२५॥
अपत्यं द्रविणं रत्नं दाराहर्म्यं हया गजाः
सुखानि स्वर्गमोक्षौ च न दूरे हरिभक्तितः ॥२६॥
एवं शास्त्रोक्तविधिना स्वल्पेनापि न संशयः
पापस्य महतोऽपि स्यात्क्षयो वृद्धिः सुकर्मणः ॥२७॥
फलाधिक्यं भवेद्भूप त्वाधिक्याद्भावकर्मणोः
सूक्ष्मा धर्मस्य विज्ञेया गतिस्तु विविधैरपि ॥२८॥
प्रियो माधवमासोऽयं माधवस्य महात्मनः
एकोप्यनुष्ठितो लोकैः समग्रेप्सितदायकः ॥२९॥
पुण्येन गांगेन जलेन काले देशेऽपि यः स्नानपरोऽपि भूप
आजन्मतो भावहतोऽपि दाता न शुद्धिमेतीति मतं ममैतत् ॥३०॥
गंगादितीर्थेषु वसंति जीवा देवालये पक्षिगणाश्च नित्यम्
विनाशमायांति कृतोपवासा भावोज्झिता नैव गतिं लभंते ॥३१॥
भावं ततो हृत्कमले निधाय श्रीमाधवं माधवमासि भक्त्या
यजेत यः स्नानपरो विशुद्धः पुण्यं न शक्ता वयमस्य वक्तुम् ॥३२॥
प्रज्वाल्य वह्निं घृततैलसिक्तं प्रदक्षिणावर्तशिखं स्वकाले
प्रविश्य दग्धः किल भावदुष्टो न स्वर्गमाप्नोति फलं न चान्यत् ॥३३॥
श्रद्धत्स्वभूप तस्मात्त्वं माधवस्य फलं प्रति
स्वल्पं चापि शुभं कर्म विकर्मशतनाशनम् ॥३४॥
यथा हरेर्नामभयेन भूप नश्यंति सर्वे दुरितस्य वृंदाः
नूनं रवौ मेषगते विभाते स्नानेन तीर्थे च हरिस्तवेन ॥३५॥
तेजसा वैनतेयस्य पाप्मानः पन्नगा इव
विद्रवंति च वैशाखस्नानेनोषसि निश्चितम् ॥३६॥
गंगायां नर्मदायां वा स्नात्वा मेषगते रवौ
पापप्रशमनस्तोत्रं यः पठेद्भक्तिभावतः ॥३७॥
एककालं द्विकालं वा त्रिसंध्यमपि भूपते
स याति परमं स्थानं सर्वपापविवर्जितः ॥३८॥
अंबरीष महत्पुण्यप्राप्तये कुरु वीक्षणम्
माधवेमासि वै स्नानं प्रातर्नियमसंस्थितः ॥३९॥
यदानर्त्तपुरे प्रोक्तं वसतां वर्षकोटिभिः
तत्प्रातर्माधवे मासि स्नानेनैकेन लभ्यते ॥४०॥
इहार्थे यत्पुरावृत्तं तदाकर्णय भूपते
भार्यया सह संवादं देवशर्मद्विजन्मनः ॥४१॥
रेवातीरे सुपुण्ये च तीर्थे चामरकंटके
कौशिकस्य सुतो जातो देवशर्मा द्विजोत्तमः ॥४२॥
धनपुत्रविहीनस्तु बहुदुःखसमन्वितः
दारिद्रेण सुदुःखेन सर्वदैवप्रपीडितः ॥४३॥
पुत्रोपायं धनस्यापि दिवारात्रौ प्रचिंतयेत्
एकदा तु प्रिया तस्य सुमना नाम सुव्रता ॥४४॥
भर्तारं चिंतयोपेतमधोमुखमलक्षयत्
समालोक्य तदा कांतं तमुवाच यशस्विनी ॥४५॥
दुःखजालैरसंख्यैस्तु तव चित्तं प्रकर्षितम्
व्यामोहेन प्रमूढोसि त्यज चिंतां महामते ॥४६॥
मम दुःखं समाचक्ष्व स्वस्थो भव सुखं व्रज
नास्ति चिंतासमं दुःखं कायशोषणमेव हि ॥४७॥
तां संत्यज्य प्रवर्तेत स सुखेन प्रमोदते
चिंतायाः कारणं विप्र कथयस्व मम प्रभो ॥४८॥
नारद उवाच-
प्रियावाक्यं स संश्रुत्य देवशर्मा महामतिः
उवाच वचनं प्रीतो दुःखितोऽपि सतीसखः ॥४९॥
देवशर्मोवाच-
यत्त्वया चिंतितं भद्रे किंचिद्दुःखस्य कारणम्
तत्सर्वं तु प्रवक्ष्यामि श्रुत्वा चैवावधार्यताम् ॥५०॥
न जाने केन पापेन धनहीनोऽस्मि सुव्रते
तथा पुत्रविहीनोऽस्मि एतद्दुःखस्य कारणम् ॥५१॥
सुमनोवाच-
श्रूयतामभिधास्यामि सर्वसंदेहनाशनम्
स्वरूपमुपदेशस्य सर्वविज्ञानदर्शनम् ॥५२॥
संतोष एव परमं पुण्यं सौख्यादिकारणम्
असंतोषः परं पापमित्याह भगवान्हरिः ॥५३॥
लोभः पापस्य बीजोऽयं मोहो मूलं च तस्य वै
असत्यं तस्य हि स्कंधो महाशाखा सुविस्तरात् ॥५४॥
मदकौटिल्य पत्राणि कुबुद्ध्या पुष्पितः सदा
अनृतं तस्य सौगंध्यमज्ञानं फलमेव च ॥५५॥
कुड्यं पाषंडचौराश्च क्रूराः कूटाश्च पापिनः
पक्षिणो मोहवृक्षस्य महाशाखासमाश्रिताः ॥५६॥
अज्ञानं सुफलं तस्य रसो धर्मं फलस्य हि
भावोदकेन संवृद्धिस्तस्य श्रद्धा क्रतु प्रिया ॥५७॥
अधर्मेषु रसस्तस्य उत्क्लेदैर्मधुरायते
तादृशैश्च फलैश्चैवसफलो लोभपादपः ॥५८॥
तस्यच्छायां समाश्रित्य यो नरः परिवर्तते
फलानि तस्य सोऽश्नाति स्वपक्वानि दिनेदिने ॥५९॥
फलानां च रसेनापि अधर्मेण तु पोषितः
स संपुष्टो भवेन्मर्त्यः पतनाय प्रयच्छति ॥६०॥
तस्माच्चिंतां परिश्रित्य स्वामि लोभं न कारयेत्
धनपुत्रकलत्राणां चिंतामेतां न कारयेत् ॥६१॥
यो हि विद्वान्नचेत्कांत मूर्खाणां पथमेव हि
मृषा चिंतयते नित्यं दिवारात्रौ विमोहितः ॥६२॥
शुभार्थं च प्रविंदामि कथं पुत्रानहं लभे
एवं चिंतयते नित्यं दिवारात्रौ विमोहितः ॥६३॥
क्षणमेकं प्रपश्येत्स चिंतामध्ये महत्सुखम्
पुनश्चैतन्यमायाति महादुःखेन पीड्यते ॥६४॥
चिंतामोहौ परित्यज्य अनुवर्तस्व तं द्विज
संसारे नास्ति संबंधः केन सार्धं महामते ॥६५॥
मित्राश्च बांधवाः पुत्राः पितामाता सुतास्तथा
स्वसंबंधा भवंत्येते कलत्रादि तथैव च ॥६६॥
देवशर्मोवाच-
संबंधः कीदृशो भद्रे तन्मे विस्तरतो वद
येन जायंति ते सर्वे धनपुत्रादि बांधवाः ॥६७॥
सुमनोवाच-
भर्तः पंचविधाः पुत्रा जायंते तान्वदाम्यहम्
न्यासापहारकं चैकमृणसंबंधिनं परम् ॥६८॥
रिपुं लभ्यमुदासीनमिति कांत भवंति ते
लक्षणानि प्रवक्ष्यामि तेषामीश पृथक्पृथक् ॥६९॥
पुत्रा मित्राः प्रिया भार्या पिता माता च बांधवाः
स्वेनस्वेन हि जायंते संबंधेन महीतले ॥७०॥
न्यासापहारभावेन यस्य येन हृतं भुवि
न्यासस्वामी भवेत्पुत्रो गुणवान्रूपवान्भुवि ॥७१॥
येन ह्यपहृतं न्यासं तस्य गेहे न संशयः
न्यासापहारणं दुःखं स दत्त्वा दारुणं गतः ॥७२॥
न्यासस्वामी सुपुत्रोऽभून्न्यासापहारकस्य च
गुणवान्रूपवांश्चैव सर्वलक्षणसंयुतः ॥७३॥
भक्तिं च दर्शयेत्तस्य पुत्रो भूत्वा दिनेदिने
प्रियवाङ्मधुरोवाग्मी बहुस्नेहं विदर्शयेत् ॥७४॥
स्वीयं द्रव्यं समुद्ग्राह्य प्रीतिमुत्पाद्य चातुलाम्
यथा तेन प्रदत्तं तन्न्यासापहरणात्परम् ॥७५॥
दुःखमेवं महाभाग दारुणं प्राणनाशनम्
तादृशं तस्य सो दद्यात्पुत्रो भूत्वा महागुणः ॥७६॥
अल्पायुषस्तथा भूत्वा मरणं चोपगच्छति
दुःखं दत्वा प्रयात्येवं प्रहृत्यैवं पुनःपुनः ॥७७॥
यदाह पुत्रपुत्रेति प्रलापं हि करोति यः
तदा हास्यं करोत्येष कस्तु पुत्रो हि कस्य च ॥७८॥
अनेनापहृतं न्यासं मदीयं पापचारिणा
द्रव्यापहारणेनापि मम प्राणागताः किल ॥७९
दुःखेन महता चैव असह्येन च वै पुरा
तदा दुःखं मया दत्वाद्रव्यमुद्ग्राह्यमुत्तमम् ॥८०
इति श्रीपद्मपुराणे पातालखंडे वैशाखमाहात्म्ये
सप्ताशीतितमोऽध्यायः ॥८७॥

N/A

References : N/A
Last Updated : November 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP