संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः १२

पातालखण्डः - अध्यायः १२

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शेष उवाच
इत्युक्तवंतं स्वपतिं वीक्ष्य प्रेम्णा सुनिर्भरम्
प्रत्युवाच हसंतीव किंचिद्गद्गदभाषिणी ॥१॥
नाथ ते विजयोभूयात्सर्वत्र रणमंडले
शत्रुघ्नाज्ञा प्रकर्तव्या हयरक्षा यथा भवेत् ॥२॥
स्मरणीया हि सर्वत्र सेविका त्वत्पदानुगा
कदापि मानसं नाथ त्वत्तो नान्यत्र गच्छति ॥३॥
परमायोधने कांत स्मर्तव्याहं न जातुचित्
सत्यां मयि तव स्वांते युद्धे 3विजयसंशयः ॥४॥
पद्मनेत्र तथा कार्यमूर्मिलाद्या यथा मम
हास्यं नैव प्रकुर्वंति मां वीक्ष्य करताडनैः ॥५॥
इयं पत्नी महाभीरोः संग्रामे प्रपलायितुः
कातरा यर्हि युद्ध्यंति शूराणां समयः कुतः ॥६॥
इत्येवं न हसंत्युच्चैर्यथा मे देवरांगनाः
तथा कार्यं महाबाहो रामस्य हयरक्षणे ॥७॥
योद्धा त्वमादौ सर्वत्र परे ये तव पृष्ठतः
धनुष्टंकारबधिराः क्रियंतां बलिनः परे ॥८॥
तवप्रोद्यत्करांभोज करवालभिया बलम्
परेषां भवतात्क्षिप्रमन्योन्य भयव्याकुलम् ॥९॥
कुलं महदलं कार्यं परान्विजयता त्वया
गच्छ स्वामिन्महाबाहो तव श्रेयो भवत्विह ॥१०॥
इदं धनुर्गृहाणाशु महद्गुणविभूषितम्
यस्य गर्जितमाकर्ण्य वैरिवृंदं भयातुरम् ॥११॥
इमौ ते त्विषुधी वीर बध्येतां शं यथा भवेत्
वैरिकोटिविनिष्पेष बाणकोटि सुपूरितौ ॥१२॥
कवचं त्विदमाधेहि शरीरे कामसुंदरे
वज्रप्रभा महादीप्ति हतसंतमसंदृढम् ॥१३॥
शिरस्त्राणं निजोत्तंसे कुरु कांत मनोरमम्
इमेव तंसे विशदे मणिरत्नविभूषिते ॥१४॥
इति सुविमलवाचं वीरपुत्रीं प्रपश्यन्
नयनकमलदृष्ट्या वीक्षमाणस्तंदंगम्
अधिगतपरिमोदो भारतिः शत्रुजेता
रणकरणसमर्थस्तां जगादातिधीरः ॥१५॥
पुष्कल उवाच
कांते यत्त्वं वदसि मां तथा सर्वं चराम्यहम्
वीरपत्नी भवेत्कीर्तिस्तव कांतिमतीप्सिता ॥१६॥
इति कांतिमतीदत्तं कवचं मुकुटं वरम्
धनुर्महेषुधीखड्गं सर्वं जग्राह वीर्यवान् ॥१७॥
परिधाय च तत्सर्वं बहुशो भासमन्वितः
शुशुभेऽतीव सुभटः सर्वशस्त्रास्त्रकोविदः ॥१८॥
तमस्त्रशस्त्रशोभाढ्यं वीरमालाविभूषितम्
कुंकुमागुरुकस्तूरी चंदनादिकचर्चितम् ॥१९॥
नानाकुसुममालाभिराजानुपरिशोभितम्
नीराजयामास मुहुस्तत्र कांतिमती सती ॥२०॥
नीराजयित्वा बहुशः किरंती मौक्तिकैर्मुहुः
गलदश्रुचलन्नेत्रा परिरेभे पतिं निजम् ॥२१॥
दृढं सपरिरभ्यैतां चिरमाश्वासयत्तदा
वीरपत्नि कांतिमति विरहं मा कृथा मम ॥२२॥
एष गच्छामि सविधे तव भामे पतिव्रते
इत्युक्त्वा तां निजां पत्नीं रथमारुरुहे वरम् ॥२३॥
तं प्रयांतं पतिं श्रेष्ठं नयनैर्निमिषोज्झितैः
विलोकयामास तदा पतिव्रतपरायणा ॥२४॥
स ययौ जनकं द्रष्टुं जननीं प्रेमविह्वलाम्
गत्वा पितरमंबां च ववंदे शिरसा मुदा ॥२५॥
माता पुत्रं परिष्वज्य स्वांकमारोपयत्तदा
मुंचंती बाष्पनिचयं स्वस्त्यस्त्विति जगाद सा ॥२६॥
पितरं प्राह भरतं रामो यज्ञकरः परः
पालनीयो लक्ष्मणेन भवद्भिश्च महात्मभिः ॥२७॥
आज्ञप्तोऽसौ जनन्या च पित्रा हृषितया गिरा
ययौ शत्रुघ्नकटकं महावीरविभूषितम् ॥२८॥
रथिभिः पत्तिभिर्वीरैः सदश्वैः सादिभिर्वृतः
ययौ मुदा रघूत्तंस महायज्ञहयाग्रणीः ॥२९॥
गच्छन्पांचालदेशांश्च कुरूंश्चैवोत्तरान्कुरून्
दशार्णाञ्छ्रीविशालांश्च सर्वशोभासमन्वितः ॥३०॥
तत्र तत्रोपशृण्वानो रघुवीरयशोऽखिलम्
रावणासुरघातेन भक्तरक्षाविधायकम् ॥३१॥
पुनश्च हयमेधादि कार्यमारभ्य पावनम्
यशो वितन्वन्भुवने लोकान्रामोऽविता भयात् ॥३२॥
तेभ्यस्तुष्टो ददौ हारान्रत्नानि विविधानि च
महाधनानि वासांसि शत्रुघ्नः प्रवरो महान् ॥३३॥
सुमतिर्नाम तेजस्वी सर्वविद्याविशारदः
रघुनाथस्य सचिवः शत्रुघ्नानुचरो वरः ॥३४॥
ययौ तेन महावीरो ग्रामाञ्जनपदान्बहून्
रघुनाथप्रतापेन न कोपि हृतवान्हयम् ॥३५॥
देशाधिपाये बहवो महाबलपराक्रमाः
हस्त्यश्वरथपादात चतुरंगसमन्विताः ॥३६॥
संपदो बहुशो नीत्वा मुक्तामाणिक्यसंयुताः
शत्रुघ्नं हयरक्षार्थमागतं प्रणता मुहुः ॥३७॥
इदं राज्यं धनं सर्वं सपुत्रपशुबांधवम्
रामचंद्रस्य सर्वं हि न मदीयं रघूद्वह ॥३८॥
एवं तदुक्तमाकर्ण्य शत्रुघ्नः परवीरहा
आज्ञां स्वां तत्र संज्ञाप्य ययौ तैः सहितः पथि ॥३९॥
एवं क्रमेण संप्राप्तः शत्रुघ्नो हयसंयुतः
अहिच्छत्रां पुरीं ब्रह्मन्नानाजनसमाकुलाम् ॥४०॥
ब्रह्मद्विजसमाकीर्णां नानारत्नविभूषिताम्
सौवर्णैः स्फाटिकैर्हर्म्यैर्गोपुरैः समलंकृताम् ॥४१॥
यत्र रंभा तिरस्कारकारिण्यः कमलाननाः
दृश्यंते सर्वहर्म्येषु ललना लीलयान्विताः ॥४२॥
यत्र स्वाचारललिताः सर्वभोगैकभोगिनः
धनदानुचरायद्वत्तथा लीलासमन्विताः ॥४३॥
यत्र वीरा धनुर्हस्ताःशरसंधानकोविदाः
कुर्वंति तत्र राजानं सुहृष्टं सुमदाभिधम् ॥४४॥
एवंविधं ददर्शासौ नगरं दूरतः प्रभुः
पार्श्वे तस्य पुरश्रेष्ठमुद्यानं शोभयान्वितम् ॥४५॥
पुन्नागैर्नागचंपैश्च तिलकैर्देवदारुभिः
अशोकैः पाटलैश्चूतैर्मंदारैःकोविदारकैः ॥४६॥
आम्रजंबुकदंबैश्च प्रियालपनसैस्तथा
शालैस्तालैस्तमालैश्च मल्लिकाजातियूथिभिः ॥४७॥
नीपैः कदंबैर्बकुलैश्चंपकैर्मदनादिभिः
शोभितं सददर्शाथशत्रुघ्नःपरवीरहा ॥४८॥
हयोगतस्तद्वनमध्यदेशे
तमालतालादि सुशोभिते वै
ययौ ततः पृष्ठत एव वीरो
धनुर्धरैः सेवितपादपद्मः ॥४९॥
ददर्श त रचितं देवायतनमद्भुतम्
इंद्रनीलैश्च वैडूर्यैस्तथा मारकतैरपि ॥५०॥
शोभितं सुरसेवार्हं कैलासप्रस्थसन्निभम्
जातरूपमयैः स्तंभैःशोभितं सद्मनां वरम् ॥५१॥
दृष्ट्वातद्रघुनाथस्य भ्राता देवालयं वरम्
पप्रच्छ सुमतिं स्वीयं मंत्रिणं वदतांवरम् ॥५२॥
शत्रुघ्न उवाच
वदामात्य वरेदं किं कस्यदेवस्य केतनम्
का देवता पूज्यतेऽत्र कस्य हेतोः स्थितानघ ॥५३॥
एवमाकर्ण्य यथावदिहसर्वशः ॥५४॥
कामाक्षायाः परं स्थानं विद्धि विश्वैकशर्मदम्
यस्या दर्शनमात्रेण सर्वसिद्धिः प्रजापते ॥५५॥
देवासुरास्तु यां स्तुत्वा नत्वा प्राप्ताखिलां श्रियम्
धर्मार्थकाममोक्षाणां दात्री भक्तानुकंपिनी ॥५६॥
याचिता सुमदेनात्राहिच्छत्रा पतिना पुरा
स्थिता करोति सकलं भक्तानां दुःखहारिणी ॥५७॥
तां नमस्कुरु शत्रुघ्न सर्ववीर शिरोमणे
नत्वाशु सिद्धिं प्राप्नोषि ससुरासुरदुर्ल्लभाम् ॥५८॥
इति श्रुत्वाथ तद्वाक्यं शत्रुघ्नः शत्रुतापनः
पप्रच्छ सकलां वार्तां भवान्याः पुरुषर्षभः ॥५९॥
शत्रुघ्न उवाच
कोऽहिच्छत्रापती राजा सुमदः किं तपः कृतम्
येनेयं सर्वलोकानां माता तुष्टात्र संस्थिता ॥६०॥
वद सर्वं महामात्य नानार्थपरिबृंहितम्
यथावत्त्वं हि जानासि तस्माद्वद महामते ॥६१॥
सुमतिरुवाच
हेमकूटो गिरिः पूतः सर्वदेवोपशोभितः
तत्रास्ति तीर्थं विमलमृषिवृंदसुसेवितम् ॥६२॥
सुमदो हि तपस्तेपे हतमातृपितृप्रजः
अरिभिः सर्वसामंतैर्जगाम तपसे हि तम् ॥६३॥
वर्षाणि त्रीणि सपदा त्वेकेन मनसा स्मरन्
जगतां मातरं दध्यौ नासाग्रस्तिमितेक्षणः ॥६४॥
वर्षाणि त्रीणि शुष्काणां पर्णानां भक्षणं चरन्
चकार परमुग्रं स तपः परमदुश्चरम् ॥६५॥
अब्दानि त्रीणि सलिले शीतकाले ममज्ज सः
ग्रीष्मे चचार पंचाग्नीन्प्रावृट्सु जलदोन्मुखः ॥६६॥
त्रीणि वर्षाणि पवनं संरुध्य स्वांतगोचरम्
भवानीं संस्मरन्धीरो न च किंचन पश्यति ॥६७॥
वर्षे तु द्वादशेऽतीते दृष्ट्वैतत्परमं तपः
विभाव्य मनसातीव शक्रः पस्पर्ध तं भयात् ॥६८॥
आदिदेश सकामं तु परिवारपरीवृतम्
अप्सरोभिः सुसंयुक्तं ब्रह्मेंद्रादिजयोद्यतम् ॥६९॥
गच्छ कामसखे मह्यं प्रियमाचर मोहन
सुमदस्य तपोविघ्नं समाचर यथा भवेत् ॥७०॥
इति श्रुत्वा महद्वाक्यं तुरासाहः स्वयंप्रभुः
उवाच विश्वविजये प्रौढगर्वो रघूद्वह ॥७१॥
काम उवाच
स्वामिन्कोऽसौ हि सुमदः किं तपः स्वल्पकं पुनः
ब्रह्मादीनां तपोभंगं करोम्यस्य तु का कथा ॥७२॥
मद्बाणबलनिर्भिन्नश्चंद्रस्तारां गतः पुरा
त्वमप्यहल्यां गतवान्विश्वामित्रस्तु मेनिकाम् ॥७३॥
चिंतां मा कुरु देवेंद्र सेवके मयि संस्थिते
एष गच्छामि सुमदं देवान्पालय मारिष ॥७४॥
एवमुक्त्वा कामदेवो हेमकूटं गिरिं ययौ
वसंतेन युतः सख्या तथैवाप्सरसांगणैः ॥७५॥
वसंतस्तत्र सकलान्वृक्षान्पुष्पफलैर्युतान्
कोकिलान्षट्पदश्रेण्या घुष्टानाशु चकार ह ॥७६॥
वायुः सुशीतलो वाति दक्षिणां दिशमाश्रितः
कृतमालासरित्तीर लवंगकुसुमान्वितः ॥७७॥
एवंविधे वने वृत्ते रंभानामाप्सरोवरा
सखीभिः संवृता तत्र जगाम सुमदांतिकम् ॥७८॥
तत्रारभत गानं सा किन्नरस्वरशोभना
मृदंगपणवानेकवाद्यभेदविशारदा ॥७९॥
तद्गानमाकर्ण्य नराधिपोऽसौ
वसंतमालोक्य मनोहरं च
तथान्यपुष्टारटितं मनोरमं
चकार चक्षुः परिवर्तनं बुधः ॥८०॥
तं प्रबुद्धं नृपं वीक्ष्य कामः पुष्पायुधस्त्वरन्
चकार सत्वरं सज्यं धनुस्तत्पृष्ठतोऽनघ ॥८१॥
एकाप्सरास्तत्र नृपस्य पादयोः
संवाहनं नर्तितनेत्रपल्लवा
चकार चान्या तु कटाक्षमोक्षणं
चकार काचिद्भृशमंगचेष्टितम् ॥८२॥
अप्सरोभिस्तथाकीर्णः कामविह्वलमानसः
चिंतयामास मतिमाञ्जितेंद्रियशिरोमणिः ॥८३॥
एता मे तपसो विघ्नकारिण्योऽप्सरसां वराः
शक्रेण प्रेषिताः सर्वाः करिष्यंति यथातथम् ॥८४॥
इति संचिंत्य सुतपास्ता उवाच वरांगनाः
का यूयं कुत्र संस्थाः किं भवतीनां चिकीर्षितम् ॥८५॥
अत्यद्भुतं जातमहो यद्भवत्योऽक्षिगोचराः
यास्तपोभिः सुदुष्प्राप्यास्ता मे तपस आगताः ॥८६॥
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे कामाक्षो-
पाख्यानं नाम द्वादशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : November 04, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP