पातालखण्डः - अध्यायः ६५
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
शेष उवाच
क्षणान्मूर्च्छां जहौ वीरः शत्रुघ्नः समरांगणे
अन्येऽपि वीराबलिनो मूर्च्छां प्राप्ताः सुजीविताः ॥१॥
शत्रुघ्नो वाजिनां श्रेष्ठं ददर्श पुरतः स्थितम्
आत्मानं च शिरस्त्राणरहितं सैन्यजीवितम् ॥२॥
वीक्ष्य चित्रमिदं स्वांते चकारच जगाद ह
सुमतिं मंत्रिणां श्रेष्ठं मूर्च्छाविरहितं तदा ॥३॥
कृपां कृत्वा हयं प्रादाद्बालो यज्ञस्य पूर्तये
गच्छाम रामं तरसा हयागमनकांक्षिणम् ॥४॥
इत्युक्त्वा स रथे स्थित्वा हयमादाय वेगतः
ययौ तदाश्रमाद्दूरं भेरीशंखविवर्जितः ॥५॥
तत्पृष्ठतो महासैन्यं चतुरंगसमन्वितम्
चचाल कुर्वन्संभग्नं स्वभारेण फणीश्वरम् ॥६॥
जवेन जाह्नवीं तीर्त्वा कल्लोलजलशालिनीम्
जगाम विषये स्वीये स्वकीयजनशोभिते ॥७॥
पुष्कलेन युतो राजा सुरथेन समन्वितः
रथे मणिमये तिष्ठन्महत्कोदंडधारकः ॥८॥
हयं तं पुरतः कृत्वा रत्नमालाविभूषितम्
श्वेतातपत्रं तस्यैव मूर्ध्नि चामरभूषितम् ॥९॥
अनेकरथसाहस्रैः परितो बलिभिर्नृपैः
उद्यत्कोदंडललितैर्वीरनादविभूषितैः ॥१०॥
क्रमेण नगरीं प्राप सूर्यवंशविभूषिताम्
अनेकैः केतुभिः श्रेष्ठैर्भूषितां दुर्गराजिताम् ॥११॥
रामः श्रुत्वा हयं प्राप्तं शत्रुघ्नेन सहामुना
पुष्कलेन च वीरेण ययौ हर्षमनेकधा ॥१२॥
कटकं निर्दिदेशासौ चतुरंगं महाबलम्
लक्ष्मणं प्रेषयामास भ्रातरं बलिनां वरम् ॥१३॥
लक्ष्मणः सैन्यसहितो गत्वा भ्रातरमागतम्
परिरेभे मुदाक्रांतः क्षतशोभितगात्रकम् ॥१४॥
सर्वत्र कुशलं पृष्टो वार्तां चात्र चकार सः
परमं हर्षमापन्नः शत्रुघ्नः संगतो मुदा ॥१५॥
सौमित्रिः स्वरथे स्थित्वा भ्रात्रा सह महामनाः
सैन्येन महता वीरो ययौ स्वनगरीं प्रति ॥१६॥
सरयूः पुण्यसलिला पवित्रित जगत्त्रया
रामपादरजः पूता शरच्चंद्रसमप्रभा ॥१७॥
हंसकारंडवाकीर्णा चक्रवाकोपशोभिता
विचित्रतरवर्णैश्च पक्षिभिर्नादिता भृशम् ॥१८॥
मंडपास्तत्र बहुशो रामचंद्रेणकारिताः
ब्राह्मणानां वेदविदां पृथक्पाठनिनादकाः ॥१९॥
क्षत्रियास्तत्र बहवो धनुःपाणि सुशोभिताः
ज्याटंकारेण बहुना नादयंतो महीतलम् ॥२०॥
भुंजते ब्राह्मणा यत्र विचित्रान्नैर्मनोहरैः
परस्परं प्रपश्यंतो वार्तां चक्रुर्मनोहराम् ॥२१॥
पायसान्नानि शुभ्राणि चंद्रकांतिसमानि च
क्षीराज्यबहुयुक्तानि शर्करामिश्रितानि च ॥२२॥
अपूपास्तत्र बहुलाश्चंद्रबिंबसमाः श्रिया
कर्पूरादिसुगंधेन वासिताः सुमनोहराः ॥२३॥
फेनिकाघटकाः स्निग्धाः शतच्छिद्रा विरंध्रकाः
शष्कुल्यो मंडकामृष्टा मधुरान्नसमन्विताः ॥२४॥
भक्तं कुमुदसंकाशं मुद्गदालिविमिश्रितम्
सुगंधेन समायुक्तमत्यंतं प्रीतिदायकम् ॥२५॥
ओदनो दधिना युक्तो भीमसेनसमन्वितः
स्वादुपाककरैः सृष्टः पात्रे मुक्तः प्रवेषकैः ॥२६॥
तत्र केचिद्द्विजाः पात्रे निक्षिप्तं वीक्ष्य पायसम्
परस्परं ते प्रत्यूचुः किमिदं दृश्यतेऽद्भुतम् ॥२७॥
किं चंद्रबिंबं नभसः पतितं तमसो भयात्
अमृतं तु भवत्यत्र मृत्युनाशकमद्भुतम् ॥२८॥
तच्छ्रुत्वा रोषताम्राक्षः प्रोवाचान्यो द्विजोत्तमः
नभवत्येव चंद्रस्य बिंबं त्वमृतविप्लुतम् ॥२९॥
एकमिंदोर्वपुस्त्वेतद्दृश्यते सदृशं कथम्
ब्राह्मणानां सहस्रस्य पात्रे पात्रे पृथक्पृथक् ॥३०॥
ततो जानीहि कुमुदं कर्पूरं वा भविष्यति॥
मा जानीहि मृगांकस्य बिंबं शुभ्रश्रियान्वितम् ॥३१॥
तावदन्यो रुषाक्रांतो धुन्वन्स्वं मस्तकं तथा
न जानंति द्विजा मूढाः स्वादुज्ञाना विचक्षणाः ॥३२॥
इदं तु क्षौद्रकंदस्यरसेन परिपाचितम्
जानीहि शतपत्रस्य पुष्पाणि मधुराणि च ॥३३॥
एवं परस्परं विप्राः कंदमूलफलाशिनः
तर्कयंति मुने प्रीता रसज्ञानेऽतिलोलुपाः ॥३४॥
तावदन्यो द्विजः प्राह क्षत्त्रियाणां वरं जनुः
भोक्ष्यंते तादृशं त्वन्नं महत्पुण्यैरुपस्कृतम् ॥३५॥
तदा तं प्राब्रवीद्विप्रो दत्तस्य फलमीदृशम्
ये ददत्यग्रजन्मभ्यः प्राप्नुवंति त ईप्सितम् ॥३६॥
यैरर्चितो नैव हरिर्नैवेद्यैर्विविधैर्मुहुः
तेषामेतादृशं भोज्यं न भवेदक्षिगोचरम् ॥३७॥
यैर्नरैरग्रजन्मानो भोजिता विविधै रसैः
भुंजते ते स्वादुरसं पापिनां चक्षुरुज्झितम् ॥३८॥
एवंविधैरसैर्मिष्टैर्भोजिता द्विजसत्तमाः
मंडपे विपठंतस्ते शब्दब्रह्मविचक्षणाः ॥३९॥
नृत्यंत्येके हसन्त्येके नदन्त्येके प्रहर्षिताः
उत्सवो बहुरुद्भाति तत्र शत्रुघ्न आगमत् ॥४०॥
रामः शत्रुघ्नमायांतं पुष्कलेन समन्वितम्
निरीक्ष्यमुदमुद्भूतां रक्षितुं नाशकत्तदा ॥४१॥
यावदुत्तिष्ठते रामो भ्रातरं हयपालकम्
तावद्रामपदेलग्नः शत्रुघ्नो भ्रातृवत्सलः ॥४२॥
पादयोः पतितं वीक्ष्य भ्रातरं विनयान्वितम्
परिरेभे दृढं प्रीतः क्षतसंशोभितांगकम् ॥४३॥
अश्रूणि बहुधा मुंचन्हर्षाच्छिरसि राघवः
अत्यंतं परमां प्राप मुदं वचनदूरगाम् ॥४४॥
पुष्कलं स्वीयपदयोर्नम्रं विनयविह्वलः
सुदृढं भुजयोर्मध्ये विनीयापीडयद्भृशम् ॥४५॥
हनूमंतं तथा वीरं सुग्रीवं चांगदं तथा
लक्ष्मीनिधिं जनकजं प्रतापाग्र्यं रिपुंजयम् ॥४६॥
सुबाहुं सुमदं वीरं विमलं नीलरत्नकम्
सत्यवंतं वीरमणिं सुरथं रामसेवकम् ॥४७॥
अन्यानपि महाभागान्रघुनाथः स्वयं तदा
परिरेभे दृढं स्निग्धान्पादयोः प्रणतान्नृपान् ॥४८॥
सुमतिः श्रीरघुपतिं भक्तानुग्रहकारकम्
परिरभ्य दृढं प्रीतः संमुखे तिष्ठदुन्नतः ॥४९॥
तदा रामो निजामात्यं वीक्ष्य सान्निध्यमागतम्
उवाच परमप्रीत्या मंत्रिणं वदतां वरः ॥५०॥
सुमते मंत्रिणां श्रेष्ठ शंश मे वाग्मिनां वर
क एते भूमिपाः सर्वे कथमत्र समागताः ॥५१॥
कुत्रकुत्र हयः प्राप्तः केनकेन नियंत्रितः
कथं वै मोचितो भ्रात्रा महाबलसुशालिना ॥५२॥
शेष उवाच
इत्युक्तो मंत्रिणां श्रेष्ठः सुमतिः प्राह राघवम्
प्रहसन्मेघगंभीर नादेन च सुबुद्धिमान् ॥५३॥
सुमतिरुवाच
सर्वज्ञस्य पुरस्तेऽद्य मया कथमुदीर्यते
पृच्छसि त्वं लोकरीत्या सर्वं जानासि सर्वदृक् ॥५४॥
तथापि तव निर्देशं शिरस्याधाय सर्वदा
ब्रवीमि तच्छृणुष्वाद्य सर्वराजशिरोमणे ॥५५॥
त्वत्प्रसादादहो स्वामिन्सर्वत्र जगतीतले
परिबभ्राम ते वाहो भालपत्रसुशोभितः ॥५६॥
न कश्चित्तं निजग्राह स्वनामबलदर्पितः
स्वं स्वं राज्यं समर्प्याथ प्रणेमुस्ते पदांबुजम् ॥५७॥
को वा रावण दैत्येंद्र निहंतुर्वाजिसत्तमम्
गृह्णाति विजयाकांक्षी जरामरणवर्जितः ॥५८॥
अहिच्छत्रां गतस्तावत्तव वाजी मनोरमः
तद्राजा सुमदः श्रुत्वा हयं प्राप्तं तव प्रभो ॥५९॥
सपुत्रः प्रबलः सर्वसैन्येन बलिना वृतः
सर्वं समर्पयामास राज्यं निहतकंटकम् ॥६०॥
यो राजा जगतां नेत्रीं मातरं जगदंबिकाम्
प्रसाद्य चिरमायुष्यं लेभे राज्यमकंटकम् ॥६१॥
स एष त्वां प्रणमति सुमदः प्रभुसेवितम्
तं गृहाण कृपादृष्ट्या चिराद्दर्शनकांक्षकम् ॥६२॥
ततः सुबाहुभूपस्य नगरे बलपूरिते
दमनस्तस्य वै पुत्रः प्रजग्राह हयोत्तमम् ॥६३॥
तेन साकं महद्युद्धं बभूव दमनेन च
पुष्कलो जयमापेदे संमूर्छ्य सुभुजात्मजम् ॥६४॥
ततः सुबाहुः संक्रुद्धो रणे पवनजं बलात्
युयुधे तव पादाब्जसेवकं बलिनां वरम् ॥६५॥
तस्य पादाहतो ज्ञानं प्राप्य शापतिरस्कृतम्
तुभ्यं समर्प्य सकलं वाजिनः पालकोऽभवत् ॥६६॥
एष त्वां सुभुजो राजा प्रणमत्युन्नतांगकः
कृपादृष्ट्याभिषिंच त्वं सुबाहुं नयकोविदम् ॥६७॥
ततो मुक्तो हयो रेवाह्रदे स निममज्ज ह
तत्र प्राप्तं मोहनास्त्रं शत्रुघ्नेन बलीयसा ॥६८॥
ततो देवपुरे प्रागाच्छिववासविभूषिते
तत्रत्यं तु विजानासि यतस्त्वं तत्र चागतः ॥६९॥
विद्युन्माली हतो दैत्यः सत्यवान्संगतस्ततः
सुरथेन समं युद्धं जानासि त्वं महामते ॥७०॥
ततः कुंडलकान्मुक्तो हयो बभ्राम सर्वतः
न कश्चित्तं निजग्राह स्ववीर्यबलदर्पितः ॥७१॥
वाल्मीकेराश्रमे रम्ये हयः प्राप्तो मनोरमः
तत्र यत्कुतुकं जातं तच्छृणुष्व नरोत्तम ॥७२॥
तत्रार्भस्तव सारूप्यं बिभ्रत्षोडशवार्षिकः
जग्राह वीक्ष्य पत्रांकं वाजिनं बलवत्तमः ॥७३॥
तत्र कालजिता युद्धं महज्जातं नरोत्तम
निहतस्तेन वीरेण शितधारेण हेतिना ॥७४॥
अनेके निहताः संख्ये पुष्कलाद्या महाबलाः
मूर्च्छितं चापि शत्रुघ्नं चक्रे वीरशिरोमणिः ॥७५॥
तदा राजा महद्दुःखं विचार्य हृदिसंयुगे
कोपेन मूर्च्छितं चक्रे वीरो हि बलिनां वरः ॥७६॥
स यावन्मूर्च्छितो राज्ञा तावदन्यः समागतः
तेनैतेन च संजीव्य नाशितं कटकं तव ॥७७॥
सर्वेषां मूर्च्छितानां तु शस्त्राण्याभरणानि च
गृहीत्वा वानरौ बद्धौ जग्मतुः स्वाश्रमं प्रति ॥७८॥
कृपां कृत्वा पुनस्तेन दत्तोऽश्वो यज्ञियो महान्
जीवनं प्रापितं सर्वं कटकं नष्टजीवितम् ॥७९॥
वयं गृहीत्वा तं वाहं प्राप्तास्तव समीपतः
एतदेव मया ज्ञातं तदुक्तं ते पुरोवचः ॥८०॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
सुमतिनिवेदनंनाम पंचषष्टितमोऽध्यायः ॥६५॥
N/A
References : N/A
Last Updated : November 06, 2020
TOP