संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः १०६

पातालखण्डः - अध्यायः १०६

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शुचिस्मितोवाच-
आयुष्यवर्द्धनं भस्माशनं दृष्टं महामुने
परलोकगतिं दातुं शक्तमेतं वदस्व मे ॥१॥
दधीच उवाच-
अत्र ते कथयिष्यामि इतिहासं पुरातनम्
चित्रगुप्तयमाभ्यां च यद्विख्यातं बभूव ह ॥२॥
मिथिलायां पुरा कश्चिच्छुनः पर्यटते क्षुधा
पुरा जन्मशतात्पूर्वं ब्राह्मणः पापनिश्चयः ॥३॥
पूर्वेवयसि वेदाढ्यः शास्त्राढ्यश्च सुबुद्धिमान्
स स्नातुं जाह्नवीं गत्वा स्नानं कृत्वा पितॄनपि ॥४॥
देवानृषीन्समभ्यर्च्य ययौ प्रात्तलिकापुरम्
प्रतिश्रयमथो चक्रे ब्राह्मणस्य निवेशने ॥५॥
तत्रैका क्षत्रियसुता यौवनस्था हतप्रिया
भ्रष्टराज्या च षट्कोटि निष्कद्रव्येण संयुता ॥६॥
भुक्त्वाथ शयितं विप्रं सर्वावयवसुंदरम्
रात्रौ चंद्रोदये शुद्धे ज्योत्स्नाहसितदिङ्मुखे ॥७॥
ब्राह्मणाभ्याशमागत्य तमुदीक्ष्येदमब्रवीत्
कुतस्त्वमागतो विप्र कं वा देशं गमिष्यसि ॥८॥
ब्राह्मण उवाच-
अकालचर्या सर्वेषां शंकामुत्पादयेद्ध्रुवम्
वयःस्थयोर्मिथोवादो रहस्ये हास्यमंदिरे ॥९॥
क्षत्रियोवाच-
कथाप्रसंगे यात्रायां तीर्थे देशादि विप्लवे
दुर्भिक्षे ग्रामदहने रहोवादो न दूषितः ॥१०॥
प्रतिश्रयस्तु मद्गेहे भवतैव पुरा कृतः
मद्गेहवासिनी चाहं न शंका त्विह कस्यचित् ॥११॥
ब्राह्मण उवाच-
तूष्णींभावो मया कार्यो गच्छ त्वं शीघ्रमग्रतः
इत्युक्ता ब्राह्मणेनासौ मनसेदमचिंतयत् ॥१२॥
अनेन संगमो मह्यं यथाभूयात्तथाविधि
रोदनं तु करिष्यामि तथा यास्यति सांत्वितुम् ॥१३॥
मां च सांत्वयितुं प्राप्तो मां समुत्थापयिष्यति
अहमुत्तिष्ठमानैव दोर्लताकंठसंगिनी ॥१४॥
कुचयुग्मेन तद्गात्रं स्पर्शयंती विमूर्च्छिता
गतभानां हि मां दृष्ट्वा निषण्णः स्वयमेव सः ॥१५॥
उत्संगे मामकं देहं निधास्यति द्विजाग्रणीः
अचेतनेव वसनमपास्य रुदतीव च ॥१६॥
सुस्निग्धं रोमरहितं पक्वाश्वत्थदलाकृति
दर्शयिष्यामि तत्स्थानं कामगेहं सुगंधि च ॥१७॥
मयैव विलुठंत्यांगे तस्य वस्त्रमपास्यते
विलुप्यमानसं तस्य करिष्ये स्ववशं द्विजम् ॥१८॥
अदृष्टौ यादृशं चित्तं दृष्टौ नैतादृशं भवेत्
दर्शने यादृशं चित्तं संलापे नैव तादृशम् ॥१९॥
संलापे यादृशं चित्तं हास्योक्तौ नैव तादृशम्
हास्योक्तौ यादृशं चित्तं स्पर्शने नैव तादृशम् ॥२०॥
स्पर्शने यादृशं चित्तं योनिदृष्टौ न तादृशम्
तद्दृष्टौ यादृशं चित्तं योनिस्पर्शे न तादृशम् ॥२१॥
बाहुमूलकुचद्वंद्व स्वयोनिस्पर्शदर्शनात्
कस्य न स्खलते चेतो रेतः स्कन्नं च नो भवेत् ॥२२॥
दधीच उवाच-
इति संचिंत्य मनसा क्षत्रिया गृहमभ्यगात्
स्वगृहद्वारमासाद्य मंदं मंदं रुरोद वै ॥२३॥
चिरं कालं च रुदितं ब्राह्मणः करुणानिधिः ॥२४॥
स्त्रीबालवृद्धातुर राजयोगिनां विषाग्नितोयाद्रि निपातनादिना
दुःखस्य चैवोद्धरणं प्रशस्यते कूपस्यदानेन समं वदंति ॥२५॥
इत्थं विचार्य विप्रोऽसौ शुचिर्भूतः प्रसन्नधीः
तस्याः समीपमगमत्तामुवाच ततो द्विजः ॥२६॥
अलं शोकेन महता इहामुत्र विरोधिना
शरीरशोषणं ह्येतच्चित्तविध्वंसनं तथा ॥२७॥
त्यज शोकमिमं बाले न चार्थः शोचितेन वै
शोकस्य कारणं किं वा येनेत्थं रुद्यते त्वया ॥२८॥
दधीच उवाच-
एवमुक्ता द्विजेनाथ न सा किंचिदुवाच ह
मूर्च्छितेवापतद्भूमौ तमदृष्ट्वेव वीक्षते ॥२९॥
तामथोत्थापयामास ब्राह्मणः परमार्थवित्
उत्थितोत्थापिता तेन निपपात पुनः पुनः ॥३०॥
पतितां पतितां विप्रो निषद्योत्थाप्य तां पुनः
अंकमारोपयामास प्रममार्ज विलोचने ॥३१॥
अथ सा मूर्च्छितेवाशु वसनं परिमुच्य तम्
दर्शयंती स्तनौ गुह्यं बाहुमूले विलोचने ॥३२॥
आलंब्य कंठे बाहुभ्यां स्तनाभ्यामस्पृशद्द्विजम्
चंद्रातपश्च विशदो मंदमारुतसंभवः ॥३३॥
अथ चिंतापरो विप्रो नैव कार्यमिदं मम
पितुर्वा मातुरुचितं पत्युर्वाथ गुरोस्तथा ॥३४॥
असंबुद्धस्य मे सर्वं विपरीतं विभाति वै
अथ कामः समायातो रहस्ये स्थितयोस्तयोः ॥३५॥
विव्याध निशितैर्बाणैर्द्विजं कामो दुरात्मवान्
स्मरबाणातुरो विप्रश्चिंतयामास कामुकः ॥३६॥
इयं सुचारु सर्वांगी कामिनीव प्रदृश्यते
नोचेद्योनिमुखे ह्यस्याः कथं रोमांचसंभवः ॥३७॥
तदेतस्याः कुचस्पर्शात्सर्वं व्यक्तं भविष्यति
इति संचिंत्य मनसा कुचौ योनिं द्विजोऽस्पृशत् ॥३८॥
सापि मूर्च्छितरूपेव मंदस्मितमुखाभवत्
आलिलिंग द्विजं गाढमाननं च चुचुंब ह ॥३९॥
तयोरथ समायोगो वर्षाणां शतमप्यभूत्
गते वर्षशते पश्चादेकस्मिन्दिवसे द्विजः ॥४०॥
स्नातुं ययौ नदीं प्रातः सापि विप्रप्रसंगतः
स्नानं तत्र तथा चक्रे पुराणं श्रुतवानथ ॥४१॥
कौर्मं समस्तपापानां नाशनं शिवभक्तिदम्
इदं च पद्यं शुश्राव पुराणज्ञेन भाषितम् ॥४२॥
ब्रह्महा मद्यपः स्तेनस्तथैव गुरुतल्पगः
कौर्मं पुराणं श्रुत्वैव मुच्यते पातकात्ततः ॥४३॥
श्रुत्वैतद्वचनं विप्रः पौराणिकमभाषत
मया कृतानां पापानां न च संख्यास्ति काचन ॥४४॥
अशेषपापसंदोहनाशनं तदिहोच्यताम्
पौराणिक उवाच-
आराधय स्वदेवेशं शंकरं त्रिदशेश्वरम् ॥४५॥
तस्य संपूजनाद्विप्र सर्वं पापं विनश्यति
पापमेव तमः प्रोक्तं ज्ञानदीपेन नश्यति ॥४६॥
अथवा पूजया विप्र समस्ताघविनाशनम्
ज्ञानपूजाविहीनानां नरके पतनं ध्रुवम् ॥४७॥
दधीच उवाच-
अथ द्विजो ह्यभिगतः शिवालयमनुत्तमम्
द्रोणपुष्पसहस्रेण पूजयामास शंकरम् ॥४८॥
गृहं जगाम च ततो भोजनं कृतवानथ
विहाय क्षत्रियां विप्रो जगामेष्टां भुवं ततः ॥४९॥
हविष्यमन्नमादाय भुक्त्यशक्तेः शिवालयम्
गत्वा दीपस्थिताज्येन भोजनं कृतवान्बहिः ॥५०॥
अथ मृत्युवशं प्राप्तो यमलोकं जगाम वै
यम उवाच-
त्वया कृतानां पापानां केषांचिन्नाशनं पुरा ॥५१॥
त्वयैकदिवसे पूजा शंकरस्य यतः कृता
तव पापसहस्रं च प्रणष्टं भवतो द्विज ॥५२॥
स्थितानामपि पापानां फलं नरकपातनम्
वर्षकोटिद्वयं विप्र श्वानजन्मशतं पुनः ॥५३॥
शिवदीपाज्यहरणात्फलं नरकसेवनम्
नरके च स्थितिस्तस्य शतवर्षं सुभीषणम् ॥५४॥
कुंभीपाके च काष्ठत्वं भस्म भूत्वा पुनः पुनः
वर्षाणां दशकं त्वेवं कृमिभुक्तिः परं दश ॥५५॥
पुनश्च दीपवर्तित्वं वर्षाणां च तथा दश
श्लेष्मामेध्यपुरीषेषु मूत्ररेतोह्रदेषु च ॥५६॥
उन्मज्ज्य च निमज्ज्याथ श्लेष्मविण्मलभोजनम्
ततो नरकशेषेण श्वानजन्मशतं परम् ॥५७॥
यमवाक्यमिति श्रुत्वा ब्राह्मणो निपपात च
अथ तस्य प्रिया भार्या पतिचिंतापराभवत् ॥५८॥
एतस्मिन्नंतरे तस्याः समीपं नारदोऽभ्यगात्
नारदस्य पपातासौ पादयोरतिदुःखिता ॥५९॥
तामुत्थाप्य मुनिः शुद्धां गतायुषमभाषत
अयि मुग्धे विशालाक्षि भर्तारं गंतुमर्हसि ॥६०॥
भर्ता ते हि विशालाक्षि मृतो बंधुविवर्जितः
न रोदितव्यं ते भद्रे ज्वलनं प्रविशस्व भोः ॥६१॥
ब्राह्मण्युवाच-
अशक्यं यदि वा शक्यं मया गंतुं मुने वद
अग्निप्रवेशकालो वै व्यतीतो न भवेद्यथा ॥६२॥
नारद उवाच-
योजनानां शतं त्वेकमितः स्थानात्पुरं हितत्
श्वो दाहः किल विप्रस्य भविता गंतुमर्हसि ॥६३॥
अव्ययोवाच-
दूरस्थितं कायनाथं गंतुमर्हामि हे मुने
तद्वचस्तु समाकर्ण्य नारदस्तामभाषत ॥६४॥
विपंची नालसंस्था त्वं भव गच्छाम्यहं क्षणात्
इत्युदीर्य तदा गत्वा त्वरां चक्रे गतं च तत् ॥६५॥
देशं नष्टद्विजस्थानं तामुवाचाव्ययां मुनिः
रोदनं नेह कर्तव्यं यदि तत्राग्निमेष्यसि ॥६६॥
पापं यदि कृतं भद्रे परपूरुषसेवनम्
एतद्विशुद्धये पुत्रि प्रायश्चित्तं समाचर ॥६७॥
तवोपपातकव्रात नाशो वह्निप्रवेशनात्
नान्यत्पश्यामि नारीणां सर्वपापोपशांतये ॥६८॥
अग्निप्रवेशं मुक्त्वैकं प्रायश्चित्तं जगत्त्रये
दधीच उवाच-
अथ नारदवाक्येन नोदिता सा वचोऽब्रवीत् ॥६९॥
अग्निप्रवेशे नारीणां किं कर्तव्यं महामुने
नारद उवाच-
स्नानं मंगलसंस्कारो भूषणांजनधारणम् ॥७०॥
गंधपुष्पं तथा धूपं हरिद्राक्षतधारणम्
मंगलं च तथा सूत्रं पादालक्तकमेव च ॥७१॥
शक्त्या दानं प्रियोक्तिश्च प्रसन्नास्यत्वमेव च
नानामंगलवाद्यानां श्रवणं गीतकस्य च ॥७२॥
व्यभिचारकृते पापे तत्पापस्य प्रशांतये
अतीतं पातकं स्पृष्ट्वा प्रायश्चित्तं तदीरितम् ॥७३॥
कुर्यादथ स्वकां भूषां विप्राय प्रतिपादयेत्
भूषाभावे स्वकीयेन प्रायश्चित्तं तु कारयेत् ॥७४॥
नान्यथा तस्य पापस्य नाशनं वेति कुत्रचित्
अव्ययोवाच-
सर्वमेतत्करिष्यामि हरिद्रा मे न विद्यते ॥७५॥
भूषणं किमुत ब्रह्मन्सर्वमेतत्प्रदीयताम्
नारद उवाच-
न ह्यस्ति किंचित्सौभाग्यद्रव्यमन्यत्त्वपेक्षया ॥७६॥
दधीच उवाच-
अथ क्षणेनाभ्यगमत्कैलासं शिवमंदिरम्
गिरिजामथ दृष्ट्वासौ प्रणिपत्येदमब्रवीत् ॥७७॥
हरिद्रा दीयतां मातर्भूषणानि च सूत्रकम्
पार्वत्युवाच-
विधवायै मया किंचिद्भूषणं दीयतां कथम् ॥७८॥
मया दत्ते हि तस्मिन्वै वैधव्यं नोपपद्यते
नारद उवाच-
मातर्न विधवा यावद्धवांगं वर्तते स्त्रियः ॥७९॥
आदाहात्सूतकं नास्ति तिष्ठेत्सौभाग्यमुत्तमम्
पार्वत्युवाच-
न चान्यदेहो मद्भूषां हरिद्रां धर्तुमर्हति ॥८०॥
भूषणादौ मया दत्ते चिरंजीवितमिष्यते
दीयते हि जयंत्यैव सर्वमेतत्त्वयोदितम् ॥८१॥
जयंतीं स जगामाथ तया दत्तमथाहरत्
स्नपंत्या अव्ययायास्तु हरिद्रां दत्तवान्मुनिः ॥८२॥
ततः स सूक्ष्मवसनभूषणानि मुनिर्ददौ
आह चैनां तवांतेष्टिं कः करोति नियुंक्ष्व तम् ॥८३॥
अव्ययोवाच-
त्वयैव मे समस्तानां क्रियाणां कारणं मुने
पितासि सर्वं कुर्वद्य नमस्ते मुनिसत्तम ॥८४॥
दधीच उवाच-
अथ तं ब्राह्मणं दग्ध्वा नारदस्तामुवाच ह
अव्यये गच्छ दहनं प्रविश त्वं यदीच्छसि ॥८५॥
अथ सा भूषिता साध्वी त्रिःप्रदक्षिणपूर्वकम्
नारदं तु नमस्कृत्य गौरांगीमर्पयन्मनः ॥८६॥
सुसूक्ष्मं मंगलंसूत्रं हरिद्रामक्षतांस्तथा
कुसुमानि च वासांसि कस्तूरीचंदनं तथा ॥८७॥
सौवर्णकंकतिकां च फलानि विविधानि च
स्वदक्षिणादिवस्त्रांतं स्पर्शयित्वा पृथक्पृथक् ॥८८॥
पार्वतीप्रीतिकामा सा पुरंध्रीभ्योऽखिलं ददौ
ज्वालामालाभिराकाशं दहंतमिव चानलम् ॥८९॥
त्रिःप्रदक्षिणमागत्य स्थित्वाग्नेः पुरतः सती
इदं प्राह तदा वाक्यं प्रांजलिः प्रहसन्मुखी ॥९०॥
अव्ययोवाच-
इंद्रादयो दिशांपाला मातर्मेदिनि भास्कर
धर्मादयः सुराः सर्वे शृणुध्वं मम भाषितम् ॥९१॥
पाणिपीडनमारभ्य चैतदंतमहर्निशम्
वाङ्मनःकर्मभिर्भर्ता सेवितो यदि भक्तितः ॥९२॥
व्यभिचारो यथा न स्यादवस्थात्रितये मम
तेन सत्येन मे पत्या सार्द्धं यानं प्रयच्छत ॥९३॥
इत्युक्त्वाथ स्वहस्ताग्रपुष्पकं द्रुतमाक्षिपत्
प्रविष्टा ज्वलनं दीप्तमथापश्यद्विमानकम् ॥९४॥
सूर्येण सममुत्कृष्टमप्सरोगीतशोभितम्
आरुरोह विमानं सा भर्त्रा साकं दिवं ययौ ॥९५॥
यमः प्राहाथ संपूज्य वनितां तां पतिव्रताम्
अक्षयः स्वर्ग एवेह न च पापं तवास्ति वै ॥९६॥
कोटिद्वयसमास्तत्र नरके हंत पातकम्
मृष्टमेव न संदेहः किंतु पातकमेव च ॥९७॥
एकं शिवस्य दीपाज्यभक्षणेन समर्जितम्
न वापि नरके पातः श्वानजन्मशतं भवेत् ॥९८॥
अव्ययोवाच-
अग्निप्रवेशशुद्धानां पुनश्च नरकः कथम्
अग्निप्रवेशात्सर्वेषां पापानां नाशनं भवेत् ॥९९॥
यम उवाच-
शिवद्रव्यापहारस्य पातकं नैव नश्यति
इत्थमाहपुरा शंभुरन्येषां नाशनं भवेत् ॥१००॥
अथ स श्वानतामाप्य शताब्दं स्यात्ततः परम्
दधीचमंदिरं प्राप्तो मृत्योरास्य गतो हि सः ॥१०१॥
तस्य भित्तिसमीपे तु भस्मास्ते ह्यभिमंत्रितम्
भस्मनि श्वा पपाताथ ममार च गतो यमम् ॥१०२॥
यमः संपूज्यावनतो भवान्पुण्यतमो मुनिः
मद्गेहे भवतः स्थानं न योग्यं गम्यतां बहिः ॥१०३॥
अथ गत्वा बहिस्तस्थौ सारमेयो यमोदितः
संतापावस्थितं तं च नारदो दृष्टवानमुम् ॥१०४॥
पप्रच्छ च किमर्थं त्वमिह तिष्ठसि दीप्तिमान्
शिवभस्मस्थितमृतं शैवं जाने महामते ॥१०५॥
शैवानां पापिनां चापि साहसेन तनुत्यजाम्
यमलोको न चास्तीति शिवाज्ञा शिवनोदिता ॥१०६॥
दधीच उवाच-
इत्थमाभाष्य तं श्वानं कैलासमगमन्मुनिः
दंडवत्प्रणिपत्येशं व्यज्ञापयदथो हरम् ॥१०७॥
देव कश्चिद्यमपुराद्बहिरास्ते स कुक्कुरः
भस्मन्येव मृतस्तद्वद्भवलोकं स चार्हति ॥१०८॥
अथ मुख्यगणाविष्टो वीरभद्रः शिवेरितः
आनयामास तं श्वानं दिव्यरूपधरं तदा ॥१०९॥
महेशपादप्रणतं देवायाथ व्यजिज्ञपत्
आह माहेश्वरो देवं गणमेनं कुरुष्व मे ॥११०॥
तथेति च शिवः प्राह गणः श्वानमुखोऽभवत्
दधीच उवाच-
अतुल्यं भस्ममाहात्म्यं मयोक्तं ते शुचिस्मिते ॥१११॥
इतः परं हि किं भूयः श्रोतुमिच्छसि सुव्रते ॥११२॥
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे विभूतिमाहात्म्ये षडुत्तरशततमोऽध्यायः ॥१०६॥

N/A

References : N/A
Last Updated : November 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP