पातालखण्डः - अध्यायः १११
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
श्रीराम उवाच-
महेशनाममाहात्म्यं पूजामाहात्म्यमेव च
नमस्कारस्य माहात्म्यं दृष्टिमाहात्म्यमेव च ॥१॥
जलदानस्य माहात्म्यं धूपदानस्य सत्तम
दीपगंधादिदानस्य माहात्म्यं वद मे गुरो ॥२॥
शंभुरुवाच-
एकैकनाममाहात्म्यं विस्तरान्न हि शक्यते
संक्षेपेण च ते वच्मि शृणु राघव सादरम् ॥३॥
पुरा त्रेतायुगे राजा विधृतो नाम वीर्यवान्
मृते पितरि बालोसौ भूमिराज्येभिषेचितः ॥४॥
समानवयसः सर्वान्समीपस्थांश्चकार सः
ये वृद्धा ये च विद्वांसस्ते च तस्य न संमताः ॥५॥
युवानः संमता दुष्टा अकार्यकरणास्तथा
सुस्त्र्यानयनदक्षाश्च चोरकर्मविशारदाः ॥६॥
भांडवार्तारता लास्यनिपुणास्तस्य संमताः
वशीकरणमंत्रज्ञा वस्त्रौषधविदस्तथा ॥७॥
गीतनर्तनशीलाश्च धूर्त्ता द्यूतविदः प्रियाः
पितृसंमतकर्तॄणां त्यागं चक्रे स पार्थिवः ॥८॥
विचार्य स च तैः सार्द्धं दुष्टैः कार्यमकारयत्
एतादृशांस्तथा चान्यान्दुष्टान्सह युयोज ह ॥९॥
एतदुक्तिमुपालंब्य शिष्टं सुहृदमत्यजत्
उरोमुष्टिं च फेत्कारं ये कुर्युस्तस्य ते प्रियाः ॥१०॥
भगलक्षणतत्त्वज्ञा रतितंत्रविशारदाः
राजनीतिविहीनं तद्राज्यं समभवत्तदा ॥११॥
गजाश्वरथमुष्ट्राजं गोमहिष्यादिकं च यत्
तत्सर्वं नाशमापन्नमपहारायतस्ततः ॥१२॥
रत्नानि वसुधान्यानि न दृश्यंते पुरे तदा
अथ भूपांतरेणासौ निर्जितः प्रपलायितः ॥१३॥
महारण्यमथो गत्वा गिरिदुर्गमकल्पयत्
तत्र चाल्पपरीवारश्चोरवृत्तिं समाश्रितः ॥१४॥
सुवर्णवस्त्रधान्यादि रत्नगंधादिकं तथा
तत्रतत्र विनिर्दिश्य चोरानायानवंचकान् ॥१५॥
बंधाद्यकारयत्तैस्तु द्रव्याहरणकर्मणि
यदाहारो न विद्येत तदाहारमकल्पयत् ॥१६॥
गोमहिष्यादिमांसेन यद्यन्नं नोपलभ्यते
अश्वीय नरमांसेन भोजनं पर्य्यकल्पयत् ॥१७॥
एतादृशमभूद्वृत्तं संध्योपासादिवर्जितम्
एकस्तु सचिवस्तस्य सुरापो नाम राक्षसः ॥१८॥
नियुंक्ते सर्वकालं तमाहरप्रहरेति च
एवं रक्षोमते स्थित्वा नानादेशगतान्नरान् ॥१९॥
नृसहस्रपरीवारो ह्यादद्यादकृपालयः
स्वस्याभिमतयोषास्तु ज्ञात्वा ज्ञात्वा समाहरत् ॥२०॥
किंचित्कालं च ता भुक्त्वा तासां मांसमभक्षयत्
एवं हत्वा नरान्नारी राज्यं चक्रे सुदुःसहम् ॥२१॥
एवं वर्षसहस्रं तु राज्यं कृत्वा नराधमः
जराशिथिलसर्वांगो वलीपलितदूषितः ॥२२॥
निर्जीवमभवत्स्थानं समंताद्दशयोजनम्
अथ मृत्युदिनं प्राप्तं राज्ञस्तस्य महात्मनः ॥२३॥
मृत्युकालेथ संप्राप्ते स्नातं भूमिगतं नृपम्
तस्य चानुचराः सर्वे परिवार्योपतस्थिरे ॥२४॥
सुरापः सचिवः प्राह किं कार्यं मम चादिश
अथ राजा तथा शक्तो निर्गतायुस्तदार्दितः ॥२५॥
नाभेरधस्तु क्षीणासुः कथंचिद्वाक्यमुक्तवान्
त्वं सर्वकाले दैत्येंद्र प्रहरप्राहराहर ॥२६॥
इत्यथोक्त्वा ममारासौ यमदूताः समाययुः
विचित्रं बंधने यत्नं चक्रुस्ताडनतत्पराः ॥२७॥
चूर्णिता बंधपाशाश्च हेतिदंडाश्च चूर्णिताः
तद्गात्रस्पर्शमात्रे च तदद्भुतमिवाभवत् ॥२८॥
अथायातः स्वयं मृत्युः पाशेनैनमयोजयत्
मृत्युपाशमपिच्छिन्नं वीक्ष्य मृत्युरचिंतयत् ॥२९॥
सर्वमर्त्यमृतिर्दृष्टा दृष्टा नैतादृशी क्वचित्
इति चिंतापरे मृत्यौ ज्वालावक्त्रः प्रतापवान् ॥३०॥
वीरभद्रेण निर्दिष्टः सहसायाच्च शूलभृत्
ज्वालावक्त्रमथालोक्य मृत्युस्तूर्णं पलाययौ ॥३१॥
पलायमानं तं दृष्ट्वा मृत्युं वह्निमुखस्तदा
अरे रे चोर चोर त्वं तिष्ठतिष्ठ क्व यास्यसि ॥३२॥
एनसो मुच्यते चोरः शूलारोपणमात्रतः
एवमाभाष्य मृत्युं तं शूलप्रोतमकल्पयत् ॥३३॥
शूलं स्कंधगतं कृत्वा दूतान्संग्रथ्य रज्जुना
पादशृंखलविन्यस्तानादाय नृपमध्यगात् ॥३४॥
विमानवरमारोप्य गीतवाद्यसुशोभितम्
वीरांतिकमथो गत्वा सर्वमस्मै न्यवेदयत् ॥३५॥
वीरभद्रोपि तत्सर्वं शंकरायामितात्मने
नानामुनिगणैर्देवैर्ब्रह्मविष्णुपुरः सुरैः ॥३६॥
सेव्यमानाय देवाय पार्वतीसहिताय च
प्रणिपत्य निवेद्याथ शूलस्थंमृत्युमेव च ॥३७॥
तूष्णीं बभूव विश्वात्मा वीरभद्रः प्रतापवान्
अग्न्याननं वीक्ष्य शिवो विगर्हयन्कथं त्वयैतद्गणसाहसं कृतम्
बिभेषि मृत्योर्न कथं यमाधिकाद्वदस्व सर्वं परमार्थतो मे ॥३८॥
प्रणम्य तं वह्निमुखोऽतिरोषो मृत्युं समालोक्य ननर्त हर्षात्
उवाच चौर्यं कृतमेव मृत्युना तदेष शूलेऽपि मया प्ररोहितः ॥३९॥
विमोचयामास शिवोपि मृत्युं दूतानशेषान्निरुजश्चकार
मृत्युं समालोक्य शिवो बभाषे मन्नाम एषां मरणे समास्ते ॥४०॥
मच्चेतसामन्यधियां च नामहीनाक्षरं वाधिकवर्णयुक्तम्
ममैव लोकं प्रददामि सत्यं ह्यनेन नाम प्रहरेति भाषितम् ॥४१॥
प्रशब्दमात्रं त्वधिकं हरेतिपदप्रदं वै पदमीरयंति
आरादमूंस्त्वं जपतो नमस्व मदीयवाक्यं च यमं वदस्व ॥४२॥
नतिं यतिं कीर्तिमुपास्तिमाश्रिता दास्यं च कैंकर्य्यमथ श्रुतिंवदाः
पंचाक्षरोक्तिं शतरुद्रियोक्तिं शिवस्य कुर्वंति न ते विचार्याः ॥४३॥
मन्नामरुद्राक्षविभूतिधारणो ममाग्रतो यस्तु पुराणवक्ता
सर्वेषु पापेष्वपि तेषु सत्सु प्रशास्म्यहं नैव यमाधिकारः ॥४४॥
ये चापि पापान्वितमायिनो नराः परान्नवस्त्रादिवधूभुजश्च
वाराणसीमृत्युपराश्च ये वै श्रीशैलमर्त्याश्च न ते विचार्याः ॥४५॥
यूकाश्च दंशा अपि मत्कुणाश्च मृगादयः कीटपिपीलिकाश्च
सरीसृपा वृश्चिकशूकराश्च काशीमृताः शंकरमाप्नुवंति ॥४६॥
इदं नामगृणन्ध्यायेद्यो वै हृत्पद्ममंदिरे
त्रियंबकं विरूपाक्षं सोमं सोमार्द्धभूषणम् ॥४७॥
त्रिनेत्रकं त्रयीनेत्रं सोमसूर्याग्निलोचनम्
तं नमस्कृत्य दूरस्थो भवमृत्यो ममाज्ञया ॥४८॥
अथाकर्ण्य शिवप्रोक्तं मृत्युस्तुष्टाव शंकरम्
नमस्ते देवतानाथ नमस्ते देवमूर्तये ॥४९॥
सर्वज्ञाय नमस्तुभ्यं पशूनां पतये नमः
अथ देवो महादेवो मृत्युं प्राह वरं वृणु ॥५०॥
स्तोत्रेणानेन तुष्टोस्मि मृत्युर्वरमयाचत
त्वदीयं पालय विभो मां च शंकर पापिनम् ॥५१॥
तथेत्युक्त्वा मृत्युमीशो गच्छ वत्सेति चाब्रवीत्
यमलोकं गतः सोपि यमायाशेषमुक्तवान् ॥५२॥
शंभुरुवाच-
य इदं शृणुयान्नित्यं पुण्याख्यानमनुत्तमम्
विमुक्तः सर्वपापेभ्यो याति शंकरसन्निधिम् ॥५३॥
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे
एकादशोत्तरशततमोऽध्यायः ॥१११॥
N/A
References : N/A
Last Updated : November 13, 2020
TOP