संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः| अध्यायः ९६ पातालखण्डः वि्षयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ पातालखण्डः - अध्यायः ९६ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ९६ Translation - भाषांतर ऋषय ऊचुः -सूतसूतमहाप्राज्ञ जीवजीव शतंसमाःयद्वयं पुण्यसमयं श्राविता जगतो हितम् ॥१॥वद भूयोऽपि भूयिष्ठं पिबामस्तावकं वचःपायंपायं न तृप्यामो वयं सूत तदुत्तमम् ॥२॥सूत उवाच-अत्राप्युदाहरंतीममितिहासं पुरातनम्संवादमादिलोकस्य जगतां जगदीशितुः ॥३॥षट्सहस्राणिचोच्छ्रायो विस्तारेण पुनस्त्रयम्एवं नवसहस्राणि योजनानां विधाय च ॥४॥वामया दंष्ट्रया गृह्य उद्धृतादौ वसुंधरादिव्यवर्षसहस्रं वै दंष्ट्रया धारिता मही ॥५॥धर्माख्यानप्रसंगेन सोवाच विनयाद्विभुम्पृथिव्युवाच-एते द्वादश मासा वै षष्टिर्दिनशतत्रयम् ॥६॥एषां किमुत्तमं पुण्यं प्रियं च तव केशवपवित्रः कार्तिको मासस्तुलासंस्थे दिवाकरे ॥७॥मकरस्थे रवौ मासः पुराणे पावनः स्मृतःमेषस्थे माधवो मासो भास्करे पठ्यते बुधैः ॥८॥मार्गशीर्षोऽपि मासानां पावनः परिकीर्तितःएवं मासाः पवित्रास्ते वासराः केपि कीर्तिताः ॥९॥युगादयो युगांताश्च तथा कल्पादयोऽपि चसर्वेभ्योऽप्यधिकं मासमेतेभ्यो वद पावनम् ॥१०॥सर्वयज्ञमय श्रीमन्नेकं निश्चित्य मे वदवराह उवाच-विधिनाविधिनाचैव ये यजंति नराधमाः ॥११॥माधवे मासि मां भक्त्या तैश्च पूज्योऽस्म्यहं सदाहिरण्याक्षो वरारोहे माधवे तु मधुर्हत ॥१२॥आदिदैत्यावुभावेतौ हत्वा त्वं तु समुद्धृतात्रेतायुगे त्रयी धर्मो ज्ञानवर्णव्यवस्थितिः ॥१३॥माधवे मासि संभूता तेन मे माधवःप्रियःत्रेतायुगं तृतीयायां शुक्लायां मासि माधवे ॥१४॥प्रवृत्तं च त्रयी धर्माः प्रवृत्तास्ते प्रवर्द्धिताःअक्षया सोच्यते लोके तृतीया हरिवल्लभा ॥१५॥स्नाने दानार्चने श्राद्धे जपे पूर्वजतर्प्पणेयेऽर्चयंति यवैर्विष्णुं श्राद्धं कुर्वंति यत्नतः ॥१६॥तेषां ददाम्यहं सर्वं यन्मनोऽभीष्टमुत्तमम्ये ददंत्यपि दानानि धन्यास्ते धार्मिका नराः ॥१७॥ये यजंति हरेर्नित्यमध्वरैर्विविधैरपिमाधवे यजते यो मां तेभ्यस्तदधिकं फलम् ॥१८॥स्नानं दानं जपो होमस्तपो यज्ञ व्रतादिकम्वैशाखे यत्कृतं देवि तस्य पुण्यफलं शृणु ॥१९॥मन्वंतराणां कोट्यस्तु दशपंच च सप्त चमत्सान्निध्यगतास्तेपि तिष्ठंति भयवर्जिताः ॥२०॥यद्यपि स्युर्ग्रहाः सर्वे क्रूरा जन्मव्ययाष्टकाःप्रातःस्नानेन वैशाखे सर्वे सौम्या भवंति ते ॥२१॥वैशाखे मासि यो विप्रान्भोजयेद्भक्तितत्परःसिक्थेसिक्थे भवेत्तृप्तिः पितॄणां युगसंख्यया ॥२२॥यच्छंति तत्र मधुराधिकभोजनानि ये वायवाशन तिलोदक भोजनानिछत्रांबराणि चरणोचितरक्षणानि धन्यास्त एव परितोषकराहि विष्णोः ॥२३॥विशेषादिह दातव्यास्तिला मधुसमन्विताःधर्माय बृहते दीर्घ दुरितक्षय हेतवे ॥२४॥एवंकृते तु यत्पुण्यं प्राप्यते मनुजैश्च तैःतत्कैर्गणयितुं शक्यं वर्षकोटिशतैरपि ॥२५॥पुत्रपौत्रादिसंपत्ति दीर्घायूंषि यथेप्सितम्इहाप्नोति परत्रापि मामेव प्रतिपद्यते ॥२६॥अनेकजन्मार्जित पातकावली विलीयते माधव मज्जनेनजनस्य तत्रोषसि पुण्यतीर्थे यथाविधानं श्रयते तथा वा ॥२७॥यः परित्यज्य वैशाखं व्रतमन्यदुपाचरेत्स करस्थं महारत्नं हित्वा लोष्टं हि याचते ॥२८॥सूतउवाच-एवं स भगवान्पूर्वमादिदेवो वदद्विभुःमाधवं मासमुद्दिश्य जगत्यां जगतीधरः ॥२९॥किमत्र बहुनोक्तेन न तदस्ति महीसुराःयदप्राप्यं भवेन्मासि माधवे माधवार्चनात् ॥३०॥शृणुध्वं च पुरावृत्तमिहार्थे परमाद्भुतम्ब्राह्मणस्य च संवादं यमस्य च महात्मनः ॥३१॥मध्यदेशे महाग्रामो ब्राह्मणानां बभूव हगंगायमुनयोर्मध्ये यामुनस्य गिरेरधः ॥३२॥विद्वांसस्तत्र भूयिष्ठा ब्राह्मणाश्चावसंस्तदाअथ प्राह यमः कंचित्पुरुषं कृष्णपिंगलम् ॥३३॥रक्ताक्षमूर्द्ध्वरोमाणं काकजंघाक्षिनासिकम्गच्छ त्वं भो महाग्रामं गत्वा ब्राह्मणमानय ॥३४॥वसिष्ठगोत्रसंभूतं नामतो यज्ञदत्तकम्शमे निविष्टं विद्वांसं यज्ञकर्मविशारदम् ॥३५॥नचान्यमानयेथास्त्वं सगोत्रं तस्य पार्श्वतःसहितादृग्गुणस्तेन तुल्योऽध्ययन जन्मना ॥३६॥आकृत्या च तथा चिह्नैः समस्तेनैव सत्तमःतमानय यथोद्दिष्टा पूजा कार्या हि तस्य मे ॥३७॥स गत्वा प्रतिकूलं तु चकार यमशासनम्तमेव मानयामास प्रतिषिद्धो यमेन यः ॥३८॥तस्मै यमः समुत्थाय पूजां कृत्वा च धर्मवित्प्रोवाच नीयतामेष सोऽन्य आनीयतामिति ॥३९॥सूत उवाच-एवमुक्ते तु वचने धर्मराजेन स द्विजःउवाच धर्मराजं तं निर्विण्णो गमनाय वै ॥४०॥ब्राह्मण उवाच-कस्मादहमिहानीतः कस्मात्प्रेरयसे पुनःगंतुं नैवोत्सहे तत्र मर्त्यलोकं पुनः प्रभो ॥४१॥यम उवाच-इह क्षीणायुषां पुंसां वासः पुण्यवतां भवेत्अयं वै धर्मराजस्य लोको धर्मः प्रकीर्तितः ॥४२॥सौख्यभूमिरियं सर्वा धर्मराजोऽहमीश्वरःपुण्यापुण्यानुसारेण जंतूनां सुखदुःखदः ॥४३॥पापिनां यमरूपोऽस्मि नृणां निरयदायकःतथा पुण्यवतां सौख्य स्वर्गदो धर्म मूर्तिमान् ॥४४॥गच्छ विप्र त्वमद्यैव निलयं स्वं यथागतःअद्यापि दशवर्षाणामायुस्ते परिवर्तते ॥४५॥क्षये तवायुषः प्राप्तिर्लोकस्यास्य भविष्यतिप्रष्टव्यं च त्वया ह्यन्यत्पृच्छस्व प्रब्रवीमि ते ॥४६॥ब्राह्मण उवाच-यत्कृत्वा सुमहत्पुण्यं स्वर्गः स्याद्ब्रूहि तन्ममसर्वस्य हि प्रमाणंत्वं धर्माधर्मविनिश्चये ॥४७॥यदि देव मया सम्यग्गंतव्यं निजमंदिरेतद्ब्रूहि कर्मणा केन पतंति नरके नराः ॥४८॥व्रजंति केन वै स्वर्गं तत्सर्वं कृपया वदयम उवाच-कर्मणा मनसा वाचा ये धर्मविमुखा नराः ॥४९॥विष्णुभक्तिविहीना ये ते वै निरयगामिनःपश्यंति भेदबुद्ध्या ये ब्रह्माणं शंकरं हरिम् ॥५०॥विरक्ता विष्णुविद्यासु नरा निरयगामिनःकुलदेशोचितं कर्म यस्त्यक्त्वान्यत्समाचरेत् ॥५१॥कामाद्वा यदि वा मोहात्स याति नरकं नरःअयाज्ययाजकश्चैव याज्यानां च विवर्जकः ॥५२॥विरतो विष्णुविद्यासु स भुंक्ते नरकान्बहून्अदत्वा पितृदेवेभ्यो विप्रेभ्यो मर्त्यबंधुषु ॥५३॥सधनो म्रियते पापः स याति नरकान्बहून्सर्वाण्यन्नानि सिद्धानि पाकभेदं करोति यः ॥५४॥अवैश्वदेवं भुंजीत स याति नरकं चिरम्बहुद्रोहेण भूतानां येऽजयंति धनं द्विज ॥५५॥धनवंतो निरयगा दांभिका दुःखभागिनःनास्तिक्यादथ वा लोभान्मोहात्काले यथोदिते ॥५६॥भक्त्या न श्राद्धदा ये स्युः पच्यंते नरकेषु तेदीयमानस्य वित्तस्य ब्राह्मणेभ्यस्तु पापकृत् ॥५७॥विघ्नमाचरते योऽसौ नरो निरयगो भवेत्सामान्य दक्षिणां लब्ध्वा गृह्णात्येको विमोहतः ॥५८॥नास्तिक्यभावनिरतो नरः स्यान्नरकालयेअसहिष्णुतया तस्य गुणानां कारणं भवेत् ॥५९॥महत्पापं समुत्पन्नं कारणं नरकस्य तत्निर्दोषां सुहृदां भार्यां त्यजन्कालेन याति यः ॥६०॥न वहेत यशस्तेषां स नरो नरके पतेत्अधर्मं धर्ममिति यो वदन्मोहवशं गतः ॥६१॥हैतुको नास्तिको यस्तु स नरो निरयालयःमनसा योऽन्यभावेन वचसा चान्यथा वदेत् ॥६२॥हृदयं कलुषं कुर्यात्स नरो नरके वसेत्अवमन्य च ये यांति भगवत्कीर्तनं नराः ॥६३॥ते यांति नरकं घोरं तेन पापेन कर्मणापश्यंतो भगवद्द्वारं नामशास्त्र परिच्छदम् ॥६४॥अकृत्वा तत्प्रणामादि ते यांति नरकौकसःविनापराधेन नराः कृत्वा पत्न्यधिवेदनम् ॥६५॥त्यजंति सुकलत्रं ये ते यांति नरके नराःन शृणोति गुरोर्वाक्यं धर्मशास्त्रं च यो नरः ॥६६॥परेषां चेतसः क्लेशकारी निरयगो भवेत्पश्यतां बंधु बालानां प्रकर्षी मिष्टमश्नुते ॥६७॥स याति नरकं घोरं केवलोदरपूरकःतुला मकर मेषेषु प्रातः स्नानं न यश्चरेत् ॥६८॥नद्यादिषु च नास्तिक्यस्तस्य स्यान्नरकालयःवैष्णवं जनमालोक्य नाभ्युत्थानं करोति यः ॥६९॥प्रणयादरतो विप्र स नरो नरकातिथिःकाष्ठैर्वा शंकुभिर्वापि शूलैरश्मभिरेव च ॥७०॥ये मार्गांश्चैव रुंधंति ते वै निरयगामिनःआद्यं पुरुषमीशानं सर्वलोकमहेश्वरम् ॥७१॥न चिन्तयंति ये विष्णुं ते वै निरयगामिनःक्षेत्रवृत्ति गृहच्छेदं प्रीतिच्छेदं च ये नराः ॥७२॥आशाच्छेदं च कुर्वंति ते नरा नरकौकसःआगतान्भोजनार्थं च ब्राह्मणान्वृत्तिकर्शितान् ॥७३॥यः परीक्षेत मूढात्मा स ज्ञेयो नरकातिथिःअनाथं वैष्णवं दीनं रोगार्तं वृद्धमेव च ॥७४॥नानुकंपंति ये मूढास्ते वै निरयगामिनःनियमांस्तु समादाय ये पश्चादजितेंद्रियाः ॥७५॥विलोपयंति तान्भूयस्ते वै निरयगामिनःशृणु विप्र यथा यांति नराः स्वर्गं दयालवः ॥७६॥समासेनैव वक्ष्यामि किंचित्ते गौरवादहम्येऽर्चयंति हरिं देवंजिष्णुं विष्णुं सनातनम् ॥७७॥नारायणमजं कृष्णं विष्वक्सेनं चतुर्भुजम्ध्यायंति पुरुषं दिव्यमच्युतं ये स्मरंति च ॥७८॥लभंते तेऽच्युतस्थानं श्रुतिरेषा पुरातनीइदमेवहि मांगल्यमिदमेव धनार्जनम् ॥७९॥जीवितस्य फलं चैतद्यद्दामोदरकीर्तनम्कीर्तनाद्देवदेवस्य विष्णोरमिततेजसः ॥८०॥दुरितानि विलीयंते तमांसीव दिनोदयेगाथां गायंति ये नित्यं वैष्णवीं श्रद्धयान्विताः ॥८१॥स्वाध्यायनिरता नित्यं ते नराः स्वर्गगामिनःसर्वान्क्लेशान्परित्यज्य विष्णुमेव स्तुवंति ये ॥८२॥स्वधर्मनिरता धीरास्ते नराः स्वर्गगामिनःवासुदेवजपासक्तानपि पापकृतो जनान् ॥८३॥नोपसर्पन्ति तान्विप्र यमदूताश्च दारुणाःनान्यत्पश्यन्ति जंतूनां विहाय हरिकीर्तनम् ॥८४॥सर्वपापप्रशमनं प्रायश्चित्तं द्विजोत्तमये याचिताः प्रहृष्यंति प्रियं दत्वा वदंति च ॥८५॥त्यक्तदानफला ये च ते नराःस्वर्गगामिनःवर्जयंति दिवास्वापं नराः सर्वसहाश्च ये ॥८६॥पर्वण्याश्रयभूता ये ते मर्त्याः स्वर्गगामिनःद्विषतामपि ये दोषान्न वदंति कदाचन ॥८७॥कीर्तयंति गुणांश्चैव ते नराः स्वर्गगामिनःये परेषां श्रियं दृष्ट्वा न वितप्यंति मत्सरात् ॥८८॥प्रहृष्टाश्चाभिनंदंति ते नराः स्वर्गगामिनःप्रवृत्तौ च निवृत्तौ च श्रुतिशास्त्रोक्तमेव च ॥८९॥आदरंति प्रतीता ये ते नराः स्वर्गगामिनःयस्मिन्कस्मिन्कुले जाता दयावंतो यशस्विनः ॥९०॥सानुक्रोशाः सदाचारास्ते नराः स्वर्गगामिनःये पूताः परदारांश्च कर्मणा मनसा गिरा ॥९१॥रमयंति न सत्वस्थास्तेनराः स्वर्गगामिनःसदा कर्मयथोक्तेन कुर्वंति विहितानि च ॥९२॥आत्मशक्तिं च विज्ञाय ते नराः स्वर्गगामिनःमनो वाक्कायिके धर्मे श्रद्धां यः कुरुते सदा ॥९३॥साधूनां संमतो यश्च स भवेद्देवतातिथिःवचोवेगं मनोवेगं यो वेगमुदरोद्भवम् ॥९४॥उपस्थवेगं सहते स स्वर्गी जायते नरःयेषां गुणेषु संतोषो वाणी येषां श्रुतं प्रति ॥९५॥परमार्थे मतिर्येषां ते शिष्टाः स्वर्गगामिनःव्रतं रक्षंति ये कोपाच्छ्रियं रक्षंति मत्सरात् ॥९६॥विद्यां मानापमानाभ्यामात्मानं तु प्रमादतःमतिं रक्षंति ये लोभान्मनो रक्षंति कामतः ॥९७॥धर्मं रक्षंति दुःसंगात्ते नराः स्वर्गगामिनःएकादश्यां च विधिवदुपवासपरायणाः ॥९८॥शुक्लेऽसिते च ये विप्र ते नराः स्वर्गगामिनःमातेव सर्वबालानामौषधं रोगिणा मिव ॥९९॥रक्षार्थं सर्वलोकानां निर्मितैकादशी तिथिःएकादशी समं किंचित्पादत्राणं न विद्यते ॥१००॥तामुपोष्य विधानेन पुरुषाः स्वर्गगामिनःएकादशेन्द्रियैः पापं यत्कृतं भवति द्विज ॥१०१॥नरो निर्द्धूय तत्तूर्णं प्रीतः स्वर्गतिमान्भवेत्अश्वमेधसहस्राणि राजसूयशतानि च ॥१०२॥एकादश्युपवासस्य कलां नार्हंति षोडशीम्एकतः क्रतवः सर्वे सर्वतीर्थतपांसि च ॥१०३॥महादानादिदानानि व्रतं वैष्णवमेकतःवैष्णवव्रतजो धर्मो धर्मो यज्ञादिसंभवः ॥१०४॥एकत्र तुलितौ धात्रा तत्र पूर्वो भवेद्गुरुःहरिवासर भक्तानामच्युतानंतभाषिणाम् ॥१०५॥नाहं शास्ता विशेषेण तेभ्यो विप्र बिभेम्यहम्येषां पुत्रश्च पौत्रश्च एकादश्यामुपोषितः ॥१०६॥सहात्मना स पुरुषाञ्छतमुद्धरते बलात्उपोषणं ततः कुर्यात्पक्षयोरुभयोरपि ॥१०७॥एकादश्यां स पुरुषो भुक्तिमुक्त्येकभाजनम्जया च विजया चैव जयंती पापनाशिनी ॥१०८॥त्रिस्पृशा वंजुली चैव पक्षसंवर्धिनी वरातिलदुग्धा परा ज्ञेया अखंडद्वादशी तथा ॥१०९॥मनोरथाख्या च परा भीमद्वादशिका तथाइत्येवमादयो भेदा द्वादश्याः संत्यनेकशः ॥११०॥व्रतेष्वेतेषु ये शक्ता ज्ञेयास्ते ब्रह्मणि स्थिताःश्रोतारो धर्मशास्त्राणां धर्मप्रत्यय संगताः ॥१११॥प्रियंकराश्च बालानां स्वर्गलोकं व्रजंति तेमासिमास्येकदिवसे दर्शे श्राद्धव्रता नराः ॥११२॥तृप्यंति पितरो येषां ते धन्याः स्वर्गगामिनःभोजनेषूपपन्नेषु भोज्यं यच्छंति सादरात् ॥११३॥अभिन्नमुखरागेण शिष्टास्ते स्वर्गगामिनः ॥११४॥ये भक्तिमंतो मधुसूदनस्य नारायणस्याखिलनायकस्यसत्येन हीना रजसापि युक्ता गच्छंति ते नाकमनंतपुण्याः ॥११५॥वितस्तां यमुनां सीतां पुण्यां गोदावरीं नदीम्सेवंते ये शुभाचाराः स्नानदानपरायणाः ॥११६॥न ते पश्यंति पंथानं नरकस्य कदाचनये नर्मदायामिह शर्मदायां मज्जंति तुष्यंत्यपि दर्शनेन ॥११७॥विधूय पापानि महेशलोकं गच्छंति ते तत्र चिरं रमंते ॥११८॥स्नाताश्चर्मनदी तीरे त्रिरात्रं नियता नराःव्यासाश्रमे विशेषेण ते नरा नाकिनः स्मृताः ॥११९॥गंगाजले प्रयागे च केदारे पुष्करे तथाव्यासाश्रमे प्रभासे च मृतास्ते विष्णुगामिनः ॥१२०॥द्वारवत्यां कुरुक्षेत्रे योगाभ्यासेन वा मृताःहरिरित्यक्षरं वक्त्रे येषां ते न पुनर्भवाः ॥१२१॥त्रिरात्रमपि ये विप्र द्वारवत्यां पुरि स्थिताःमज्जंति गोमती तीरे धन्यास्ते केशवप्रियाः ॥१२२॥नरनारायणावासे त्रिरात्रं ये समाश्रिताःमर्त्यलोके च नंदायां धन्यास्ते केशवप्रियाः ॥१२३॥षण्मासमुषिता विप्र पुरुषोत्तमसंनिधौते नूनमच्युतात्मानो दृष्ट्वा स्युरघहारिणः ॥१२४॥अनेक जन्मार्जितपुण्यतोये मज्जंति तोये मणिकर्णिकायाःनमंति विश्वेशमवाप्यकाशीं ते वै मयापीह भवंति वंद्याः ॥१२५॥पूजयित्वा हरिं ये तु भूमौ दर्भ तिलैः सहतिलान्विकीर्य लोहं च दत्वा धेनुं पयस्विनीम् ॥१२६॥ये मृता विधिवद्विप्र ते नराः स्वर्गगामिनःउत्पाद्य पुत्रान्संस्थाप्य पितृपैतामहे पदे ॥१२७॥निर्ममा निरहंकारा ये मृतास्तेऽपि नाकिनःस्तैन्यान्निवृत्ताः सततं संतुष्टाः स्वधनेन च ॥१२८॥स्वभाग्येनोपजीवंति ते नराः स्वर्गगामिनःश्लक्ष्णां वाणीं निराबाधां मधुरोपाय वर्जिताम् ॥१२९॥स्वागतेनाभिभाषंते ते नराः स्वर्गगामिनःशुभानामशुभानां च कर्मणां फलसंचये ॥१३०॥विपाकज्ञाश्च ये विप्र ते नराः स्वर्गगामिनःधनधर्मप्रवृत्तानां धर्ममार्गानुयायिनाम् ॥१३१॥प्रोत्साहं वर्धयंते ये मोदंते दिवि ते नराःहेमंते वह्निदो यश्च तथा ग्रीष्मे जलप्रदः ॥१३२॥वर्षा स्वाश्रमदाता च स स्वर्गे मोदते चिरम्पुण्यकालेषु सर्वेषु नित्य नैमित्तिकादिषु ॥१३३॥भक्त्या यः कुरुते श्राद्धं स नूनं सुरलोकभाक् ॥१३४॥दानं दरिद्रस्य विभोः क्षमित्वं यूनां तपो ज्ञानवतां च मौनम्इच्छानिवृत्तिश्च सुखोचितानां दया च भूतेषु दिवं नयंति ॥१३५॥द्विविधः कर्मसंबंधः पापपुण्यसमुद्भवःसत्यमेव समाश्रित्य क्रियते ह्यत्र निर्णयः ॥१३६॥तपोध्यानसमायुक्तं तारणाय भवांबुधेःपापं तु पतनायोक्तं सत्यमेव न संशयः ॥१३७॥बलेन परिचारेण शौर्येणाभियुतस्य चपुण्यहीनस्य वै पुंसस्तद्बलादिव लीयते ॥१३८॥उन्नता गिरि दुर्गेषु वृक्षाः संति सुपुष्टकाःपतंति वातवेगेन समूलास्तु घना अपि ॥१३९॥सत्यधर्मविहीनास्ते तथा यांति यमालयम्सामान्यं सर्वजंतूंनां बलं धर्मस्तु केवलः ॥१४०॥येन संतरते जंतुरिहलोके परत्र चमया सर्वमिदं सम्यक्स्वर्गमार्ग प्रदायकम् ॥१४१॥समासेन समाख्यातं किं भूयः श्रोतुमिच्छसि ॥१४२॥इति श्रीपद्मपुराणे पातालखंडे वैशाखमाहात्म्येषण्णवतितमोऽध्यायः ॥९६॥ N/A References : N/A Last Updated : November 06, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP