संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ९०

पातालखण्डः - अध्यायः ९०

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


देवशर्मोवाच-
पूर्वजन्मकृतं पापं त्वयाख्यातं ममैव तत्
शूद्रत्वेन हि विप्रेंद्र मयैवं धनमर्जितम् ॥१॥
विप्रत्वं हि मया प्राप्तं तत्कथं द्विजसत्तम
तत्सर्वं कारणं ब्रूहि ज्ञानविज्ञानपंडित ॥२॥
दुर्ल्लभं भारते वर्षे जन्म तस्मान्मनुष्यता
मानुष्ये ब्राह्मणत्वं च सुतरां सत्कुलोदितम् ॥३॥
तत्रापीदृग्विधा भार्या सर्वज्ञा प्रियवादिनी
सती सर्वगुणोपेता दुर्लभा सा कुतोऽभवत् ॥४॥
वसिष्ठ उवाच-
यत्त्वया चेष्टितं पूर्वं धर्मकर्मकृतं द्विज
तदहं संप्रवक्ष्यामि श्रूयतां यदि मन्यसे ॥५॥
ब्राह्मणैकः सुधर्मात्मा सदाचारः सुपंडितः
विष्णुभक्तस्तु धर्मात्मा नित्यं विष्णुपरायणः ॥६॥
स्नानार्थमपि तीर्थानां भ्रमत्येकः स मेदिनीम्
अटमानः समायातस्तव गेहे महामतिः ॥७॥
तस्य दर्शनमात्रेण समुत्पन्न सुधीस्तव
यतो धर्मगते गेहे सतामागमनं भवेत् ॥८॥
किंकिं न लभ्यते विप्र विप्रवैष्णवसेवया
दुर्ल्लभं यच्च लोके स्यान्मोक्षस्थानमपि स्थिरम् ॥९॥
याचितं स्थानमेकं वै वासार्थं तेन सत्तम
तवैव भार्यया दत्तं त्वया च सह पुत्रकैः ॥१०॥
एयतामेयतां ब्रह्मन्सुखेन च गृहे मम
वैष्णवं ब्राह्मणं पुण्यमित्युवाच पुनः पुनः ॥११॥
सुखेन स्थीयतामत्र गृहोऽयं तव सुव्रत
अद्य धन्योऽस्म्यहं पुण्यो अद्य तीर्थमहं गतः ॥१२॥
अद्यतीर्थफलं प्राप्तं मया ते विप्र दर्शनात्
गवां स्थानं परं पुण्यं वासस्थानं प्रदर्शितम् ॥१३॥
अंगसंवाहनं सम्यक्पादौ चैव प्रमर्दितौ
क्षालितौ च पुनस्तोयैः स्नातः पादोदकेन हि ॥१४॥
सद्यो घृतं दधिक्षीरमन्यमन्यं प्रदत्तवान्
ब्राह्मणाय तदा तस्मै त्वं तथाऽदृष्टनोदितः ॥१५॥
एवं संतोषितो विप्रस्त्वयैव सह भार्यया
पुत्रैः सार्धं महाभागो वैष्णवो ज्ञानपंडितः ॥१६॥
अथ प्रभाते विमले स्नानार्थं मासि माधवे
गंगायां गच्छता तेन तुष्टेन दययाधिपम् ॥१७॥
वैशाखस्नानमाहात्म्यमुपदिष्टं तवाग्रतः
कारितस्तु यथान्यायं सभार्या तनयो भवान् ॥१८॥
यथा न वारिधि समो लोके कोपि जलाशयः
तथा मासो न वैशाखसदृशो माधवप्रियः ॥१९॥
तावत्पापानि तिष्ठंति निष्प्रत्यूहं कलेवरे
यावत्किल मलध्वंसी मासो नैति स माधवः ॥२०॥
तस्य वाक्यं समाकर्ण्य वैशाखे सेवनं कृतम्
तुष्टेन मनसा विप्र पूजितो मधुसूदनः ॥२१॥
अवशिष्टदिनान्येव पंचमासस्य तस्य वै
एकादशीं समारभ्य स्नानं च विधिवत्कृतम् ॥२२॥
ब्राह्मणस्य प्रसंगेन रेवां चानुदिने त्वया
प्रातःस्नानं कृतं विप्र वैशाखे मासि तावता ॥२३॥
पूजितो देवदेवेशो मधुहा परमेश्वरः
नैवाप्तः सकलो मासः स्नानार्थं तव पूर्वतः ॥२४॥
एवं स्नानं त्वया चीर्णमपि पंचदिनात्मकम्
तेन पुण्येन संगत्या ब्राह्मणस्य विशेषतः ॥२५॥
गोविंदस्य प्रसादेन त्वं तु ब्राह्मणतां गतः
त्वया तन्मासयोगेन प्राप्तमेतन्महत्कुलम् ॥२६॥
दुर्ल्लभं भूमिदेवानां सत्यधर्मसमन्वितम्
भार्यापि सुसती प्राप्ता साध्वी सर्वगुणान्विता ॥२७॥
च्यवनस्य गृहोत्पन्ना सर्वज्ञा ब्रह्मवादिनी
रूपमेव परं स्त्रीणां भूषणं च महामुने ॥२८॥
शीलमेव द्वितीयं च तृतीयं सत्यमेव च
सदार्यत्वं चतुर्थं तु पंचमं पुण्यमुत्तमम् ॥२९॥
मधुरत्वं तथा षष्ठं शुद्धत्वं सप्तमं महत्
बाह्यांतः सततं स्त्रीणां सर्वाभरणसप्तमम् ॥३०॥
अष्टमं तु पतौ भावः शुश्रूषा नवमं किल
सहिष्णुता च दशमं रतिरेकादशं तथा ॥३१॥
पतिव्रतत्वं विप्रेंद्र द्वादशं योषितां स्मृतम्
एतैः संभूषिता भार्या साध्वी ते ब्रह्मवादिनी ॥३२॥
वैशाखस्नानयोगेन लब्धा पुण्येन सादरम्
किंकिं न दुर्ल्लभतरं प्राप्यते मासि माधवे ॥३३॥
स्नानेन परमेशस्य पूजनेन यथाविधि
अथ मोहप्रमुग्धोसि तृष्णया व्यापितं मनः ॥३४॥
पूर्वजन्मनि ते विप्र द्रव्यमेव प्रसंचितम्
न दत्तं ब्राह्मणेभ्यो हि दीनेष्वन्येषु वै त्वया ॥३५॥
न बंधुवर्गो नो पुत्रदारेषु च कथंचन
म्रियमाणेन भवता लोभ एव हि चिंतितः ॥३६॥
न दत्तं न हुतं जप्तं न तीर्थे मरणं कृतम्
न हि नारायणो देवो ध्यानेनाखिल पापहा ॥३७॥
द्रव्येषु विद्यमानेषु कृपणो जायते नरः
अदत्वा म्रियते यस्तु ततो दुःखतरं नुकिम् ॥३८॥
तीर्थस्नानादि तपसा कुले जन्मैव लभ्यते
नो दत्तेन विना विप्र किंचिदेवोपतिष्ठति ॥३९॥
तस्य पापस्य भावेन दरिद्रत्वमुपागतम्
अपुत्रवान्भवाञ्जातः सततं दुःखपीडितः ॥४०॥
वैशाखस्नानमाहात्म्यादपि पंचदिनात्मकात्
तदैव हरिपूजायाः संगत्या ब्राह्मणस्य च ॥४१॥
लब्धं जन्म कुले विप्र विप्रत्वमपि दुर्ल्लभम्
सुपुत्रश्च कुलं विप्रं धनं धान्यं वरस्त्रियः ॥४२॥
सुजन्ममरणं चैव सुभोगः सुखमेव च
सदा दानेऽधिकाबुद्धिरौदार्यं धैर्यमुत्तमम् ॥४३॥
प्रसादात्तस्य देवस्य विष्णोश्चैव महात्मनः
नारायणस्य जायंते सिद्धयो विप्रवाञ्छिताः ॥४४॥
ऊर्ज्जे मासि तपो मासि माधवे माधवप्रिये
स्नात्वा दामोदरं भक्त्या माधवं मधुसूदनम् ॥४५॥
विशेषेण समभ्यर्च्य दत्वा दानानि भक्तितः
एहिकं सुखमासाद्य जनो याति ततो हरिम् ॥४६॥
अनेकजन्मार्जितपातकावली विलीयते माधवमज्जनेन
सूर्योदये विप्र यथा तमिस्रा वचः स्वयंभूरिदमादिदेश ॥४७॥
चकार विष्णुर्विमलं विचारं मासं विधिं माधवमेकमादौ
यमस्य गुप्तं मनसा विचिंत्य मनुष्यलोकैर्गमितुं च नाके ॥४८॥
तस्मादस्मिन्समायाते माधवे मासि माधवे
स्नात्वा पुण्यजले तीर्थे रवावनुदितेऽधुना ॥४९॥
पूजयित्वा विधानेन मुकुंदं मधुसूदनम्
पुत्रपौत्रधनं श्रेयो वांछितानि सुखानि च ॥५०॥
अनुभूय ततस्त्वंते स्वर्गमक्षयमाप्स्यसि
पूर्वजन्मकृतं सर्वं यत्त्वया परिचेष्टितम् ॥५१॥
तन्मया कथितं विप्र तवाग्रे परिचेष्टितम्
एवं ज्ञात्वा महाभाग वैशाखे च विशेषतः ॥५२॥
स्नात्वा सम्यग्विधानेन मधुसूदनमर्चय
देवमाराध्य गोविंदं नारायणमनामयम् ॥५३॥
प्राप्स्यसि त्वं सुखं पुत्रं धनानि हरिमव्ययम् ॥५४॥
नारद उवाच-
ब्रह्मात्मजेनापि महानुभावः स विप्रवर्यः परिबोधितो हि
हर्षेणयुक्तः स महानुभावो भक्त्या वसिष्ठं प्रणिपत्य तत्र ॥५५॥
आमंत्र्य विप्रं स जगाम गेहं तां प्राह भार्यां सुमनां महर्षिः
सर्वं हिवृत्तं ममपूर्वचेष्टितं तेनैव विप्रेण तवप्रसादात् ॥५६॥
भद्रे वसिष्ठेन विकाशनीतमद्यैव मोहः परिनाशितो मे
आराधयिष्येमधुसूदनंतुश्रीमाधवेमासिनिमज्ज्यभक्त्या ॥५७॥
नारद उवाच-
आकर्ण्य वाक्यं परमं पवित्रं सुमंगलं मंगलहेतुमुच्चैः
हर्षेण युक्ता तमुवाच कांतं धन्योसि विप्रेण विबोधितस्त्वम् ॥५८॥
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये देवशर्मो-
पाख्याने नवतितमोऽध्यायः ॥९०॥

N/A

References : N/A
Last Updated : November 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP