पातालखण्डः - अध्यायः ११५
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
श्रीराम उवाच-
कथं पातकसंघात संक्रमे ब्राह्मणाधमे
पुराणज्ञः कथं व्याख्यां चकार द्विजसत्तम ॥१॥
शंभुरुवाच-
अध्यापने चाध्ययने जायते चाथ संगमः
संगतौ वत्सरं राम याति पातकि पातकम् ॥२॥
पुराणज्ञे तु काकुत्स्थ सर्वतत्वार्थवेदिनि
अपिपातकसंदोह चीर्णपापं प्रणश्यति ॥३॥
प्रभूतवह्निनाशे हि धूमराशिर्यथैव हि
शलभो दीपनाशाय वह्निनाशाय न प्रभुः ॥४॥
कृतं पापं तथान्येषां नाशनाय पुराणिकः
भूतादिग्रस्तमर्त्यानां भूतादि भयमोचकः ॥५॥
समंत्रवानपनयेद्यथा न स्वयमातुरः
पौराणिकस्तथा पापं न किंचित्प्राप्तुमर्हति ॥६॥
आत्मना च कृतं पापमन्यैरपि च यत्कृतम्
पुराणज्ञो नाशयति त्वतिदुष्टं स्वकर्म्म वा ॥७॥
भवानीशे हृषीकेशे समवृत्तिर्विवेकवान्
लोकवेदक्रियावेत्ता रुद्रजाप्यतिनिःस्पृहः ॥८॥
तुष्टः शांतः क्रियादक्षः प्रभूतो योगकृद्वशी
यथैव ते पुराणज्ञो वसिष्ठो भगवानृषिः ॥९॥
नियोगात्तव भूपाल अयोध्यायामतिष्ठत
अपालयद्भुवं कृत्स्नां त्वां च रक्षः समापतत् ॥१०॥
स च शुक्रोपदेशेन राक्षसस्त्वामथाभ्यगात्
निद्रासक्तं हनिष्यामि नान्यथावसरस्त्विति ॥११॥
अथ विप्रो विदित्वैतद्वसिष्ठस्त्वद्धितप्रियः
सुप्तं प्रमत्तं काकुत्स्थं रक्षो हंति न संशयः ॥१२॥
ब्रह्मावाप्तवरं तद्धि मया कार्यं निवारणम्
इति संचिंत्य विप्रर्षिः सेनामादाय निर्गतः ॥१३॥
रक्षो हंतुमशक्तस्तु मृत्युहीनं ततो मुनिः
स्वयं च राक्षसो भूत्वा वाक्यमाह महामुनिः ॥१४॥
किमर्थमागतोसीह वनं मुनिनिषेवितम्
स आह राजा रक्षोघ्नस्तमहं हंतुमागतः ॥१५॥
मुनिरप्याह किं तेन जीवितेन मृतेन वा
भुक्त्वामिषं मदीयं तु युद्धं कृत्वा जयं व्रज ॥१६॥
राक्षस उवाच-
कथं त्वं राक्षसो मह्यं भक्षणाय भविष्यसि
वसिष्ठोऽप्यथ मानुष्यमास्थाय वियति स्थितः ॥१७॥
निष्ठीव्य मस्तके तस्य मुष्टिना तमताडयत्
ताडितो राक्षसस्तेन व्यद्रावयदृषिश्च तम् ॥१८॥
पलायमानावन्योन्यं जलधिं तु गतावुभौ
तत्रस्थेन ग्रहेणासौ गृहीतो राक्षसस्तदा ॥१९॥
मुनिः पुनरयोध्यायां पूर्ववत्समतिष्ठत
शंभुरुवाच-
तस्मात्स्वाभिमतं कुर्यात्पुराणज्ञो विमत्सरः ॥२०॥
श्रवणस्य विधानं च कथयामि शुभं शृणु
शुक्लपक्षे दिने शुद्धे वारनक्षत्रयोगतः ॥२१॥
करणे चापि लग्ने च ग्रहताराबलान्विते
अमूढेन ग्रहे बाले न च वृद्धौ गुरौस्थिते ॥२२॥
न कृष्णपक्षे ग्रहणे न च नास्तिकसंनिधौ
पूर्वोक्तलक्षणोपेतं पुराणं शृणुयादिति ॥२३॥
शुद्धगेहेऽथवा शुद्धवेदिकायां मठेथ वा
नदीतीरे देवगेहे सभामंडप एव च ॥२४॥
रथ्या मठेथ वा रम्ये पुण्यशालासु राघव
स्वयं नमस्य विप्रेंद्रान्पुराणज्ञं विशेषतः ॥२५॥
आसनं कल्पितं कुर्य्यादूर्ध्वं सर्वविशेषितम्
एहि धर्म्मासनमिति वक्तव्यं स्यादनिष्ठुरम् ॥२६॥
पुराणप्रक्रमदिने यत्कार्यं तदुदीरयेत्
व्याख्यातारं पुराणस्य वस्त्राद्यैः परिपूजयेत् ॥२७॥
शुभानि दत्वा वस्त्राणि सूक्ष्माणि च नवानि च
करकंठविभूषादि पात्रमासनमेव च ॥२८॥
गंधपुष्पाक्षतैः पूज्य तांबूलं विनिवेद्य च
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् ॥२९॥
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशांतये
सभासदश्च संपूज्य गणेशं प्रार्थयेत्ततः ॥३०॥
ॐनमेत्यादि मंत्रेण पूजनं भारती नुतिः
प्रातःकाले पुराणस्य प्रक्रमं प्रारभेदिति ॥३१॥
उपक्रमदिने राम त्रिपंचदश वा शुभाः
श्लोका द्वितीये दिवसे ततो द्विगुणिताः शुभाः ॥३२॥
तृतीये दिवसे राम ततश्चाधिकमिष्यते
दिनानामव्यवच्छेदाद्व्याख्यानं श्रवणं तथा ॥३३॥
व्यवस्थितिर्यदा जाता तदा पौराणिकं गुरुम्
तांबूलादिप्रदायाथ परेद्युः शृणुयादपि ॥३४॥
पुराणमेवं श्रोतव्यं दैनंदिनमिति श्रुतिः
व्रतरूपेण यः कश्चित्पुराणं शृणुयान्नरः ॥३५॥
यदैवं तत्पुराणं तु तत्र याति न संशयः
पुराणं श्रोतुकामेन श्लोकश्चैकोपि चेच्छ्रुतः ॥३६॥
तद्दिने तु कृतं पापं नाशयेत्तु न संशयः ॥३७॥
एवं पुराणं शृणुयाच्च यस्तु स ब्रह्महत्याकृतपापबंधात्
सुरापीतिः स्वर्णहरश्च राम गुर्वंगनागश्च विमुक्तिमेति ॥३८॥
पापानि चान्यानि कृतानि पुंभिः सर्वाणि नश्यंति पुराकृतानि
इहापि यान्यब्दशतार्जितानि श्रोतुर्विनश्यंति तथा च वक्तुः ॥३९॥
कलौ समस्तविप्राणां सर्वज्ञत्वं न विद्यते
विगुणापि ततो व्याख्या फलदा दानकर्मवत् ॥४०॥
पुराणानामभिप्रायं व्यासो वेद न चापरः
अहं वेद्मि विशेषेण व्यासादपि विधेरपि ॥४१॥
न स्वाध्यायस्तपो वापि न मंत्रो न जुहोतयः
फलंति न तथा तिष्ये पुराणश्रवणं यथा ॥४२॥
एकैकश्रवणादेव पातकं महदेव तु
नाशमाप्नोत्यसंदेहः श्रीशैले वर्तनादिव ॥४३॥
अतो गुरुः पुराणज्ञः श्रोतृवंद्योऽघनाशनः
न तस्मादधिकः कश्चिद्गुरुरस्ति गतिप्रदः ॥४४॥
मंत्रेषु गुरवो ये च वेदशास्त्रेषु ये मताः
नेशते सर्वविज्ञानं दातुं तस्मान्न बोधकाः ॥४५॥
पिशाचाः प्रायशो राम ब्रह्मराक्षसनामिनः
वेदमंत्रस्य वेत्तारो दृश्यंते न पुराणवित् ॥४६॥
पुराणविमुखो नैव सर्वः सर्वं हि पश्यति
पुराणज्ञो हि तस्तस्मात्पापनाशकरः प्रभुः ॥४७॥
तत्पूजा सर्वपूजा स्यात्सर्वद्रोहोऽस्य पीडनम्
यथा समस्तदानानां विद्यादानं प्रशस्यते ॥४८॥
पौराणिकस्तथा धन्यस्तत्र दानं महत्फलम्
राम उवाच-
किं वा पौराणिके देयं कियत्कीदृशमेव च ॥४९॥
पुराणं कीदृशं वर्ज्यं वर्ज्यः कीदृक्पुराणवित्
शंभुरुवाच-
षड्रसानन्नपानानि स्नेहद्रव्याणि यानि च ॥५०॥
गृहं सोपस्करं राम पुराणज्ञाय दापयेत्
पर्याप्तान्येव सर्वाणि अधिकानि फलाधिकात् ॥५१॥
दद्याद्द्रव्यमतो भूयः सचैलं शोभितं मृदु
भूषणानि यथार्हाणि स्वशक्त्या प्रतिपादयेत् ॥५२॥
गंधपुष्पं प्रतिदिनं केवलं गंधमेव च
केवलं च तथा पुष्पं फलकाले फलान्यपि ॥५३॥
तांबूलं च तथा दद्यान्नमस्कुर्याच्च भक्तितः
पुराणस्य समाप्तौ तु दद्याद्दानादिकं तथा ॥५४॥
अधिकं तु तथा देयं भूहिरण्यादिकं नृप
न च तूष्णीमुपक्रम्य श्रोतुमर्हति कश्चन ॥५५॥
सभासद्भिः कृता चैव या पूजैकेन वा कृता
देवस्थाने यथाशक्ति सर्वैः पूजनमिष्यते ॥५६॥
तीर्थेपि च यथा राम पुण्येष्वायतनेषु च
स्वशक्त्या पूजनं कुर्यात्पुराणज्ञाय राघव ॥५७॥
श्रोतुस्तु लक्षणं पूर्वं मयोक्तं तु भवेन्नृप
पौराणिकस्य सर्वस्य लक्षणं कथयामि ते ॥५८॥
कुलहीनो महाव्याधिर्महापापी तिरस्कृतः
शौचाचारविहीनश्च वेदस्मृतिविवर्जितः ॥५९॥
अन्यदेवः पूतिवचो व्यंगश्चाप्यधिकांगवान्
परपूर्वापतिः स्तेनः प्राणिहंता निराकृतिः ॥६०॥
अथ वर्ज्यं पुराणं ते कथयामि नृपोत्तम
पूर्वज्ञैरुच्यमानं च यत्प्रोक्तं मुनिभिः परैः ॥६१॥
व्यासादयो मुनिवरा यत्प्रोचुस्तदुदीरयेत्
पुराणस्थं पठेद्ग्रन्थं व्याख्यायेत विचारयन् ॥६२॥
यया कयापि वा राम भाषयादेशभाषतः
न देशभाषा रचितं ग्रंथं श्रुत्वा फलं लभेत् ॥६३॥
व्याख्या या कापि काकुत्स्थ पुराणस्य हिता हि सा
तस्मात्त्वं देवयाचस्व व्याख्यास्ये यत्पुराणकम् ॥६४॥
शंभुरुवाच-
एवं पौराणिकेनोक्तं श्रुतवानपि गौतमः
स्वयं वस्त्रत्रयं प्रादाद्ब्राह्मणाय महात्मने ॥६५॥
कौर्मं पुराणं प्रथमं श्रुतवानिति नः श्रुतम्
दत्तवान्स्वर्णमधिकं वस्त्राणि च शुभानि च ॥६६॥
अथ लैंगं च शुश्राव वैष्णवं वामनं तथा
पाद्मं च गारुडं चैव सौरं ब्राह्ममथैव च ॥६७॥
एवमष्ट स शुश्राव पुराणानि स गौतमः
अथ रामायणं चैव कौर्ममेव पुनश्च सः ॥६८॥
शिवनारायणेत्येवं जपं चक्रे सदैव हि
अवाप निधनं चापि स गतो ब्रह्मणः पदम् ॥६९॥
ब्रह्मा संपूज्य तं विप्रं विष्णुलोकमथागमत्
विष्णुना पूजितः सोऽथ जगाम शिवमंदिरम् ॥७०॥
सर्वेषामेव वंद्योऽसौ गौतमो मुनिसत्तमः
भारतश्रवणे चापि नियमा ये मयेरिताः ॥७१॥
पुरा व्यासेन मुनिना त्रिवर्षाद्यत्कृतं शुभम्
श्रवणात्तस्य कृत्स्नस्य व्याकर्ता भारतस्य यः ॥७२॥
न किंचित्प्रणमेद्विप्रं मुक्त्वा योगिनमुत्तमम्
सर्वेषामेव वंद्योसौ भारतं व्याकरोति यः ॥७३॥
यो महाभारतं नित्यं व्याख्यास्यति पठेच्च वा
स सर्वेभ्योधिको विप्रस्तारयेच्चैव मानवान् ॥७४॥
व्याकरोति च पर्वैकं सर्वाणि कतिचित्तु वा
सर्वपापविनिर्मुक्तो हव्ये कव्ये विशिष्यते ॥७५॥
तमेव प्रणमेद्विप्रं तमेवार्हं च पूजयेत्
तमेव भोजयेन्नित्यं सर्वं तस्मै निवेदयेत् ॥७६॥
तस्य पूजाविधिः प्रोक्तो व्याख्यानसमये द्विजः
प्रतिपूज्योऽथ वस्त्राद्यैः पूजयेद्विधिमार्गतः ॥७७॥
आदिपर्वसमाप्तौ च सूक्ष्मवस्त्रत्रयं ददेत्
सुवर्णं च यथाशक्ति सभापर्वणि वाससी ॥७८॥
आनुशासनिकारण्यस्वर्गारोहेषु पर्वसु
आदिपर्वणि पूजा या सा पूजा नृपपुंगव ॥७९॥
कर्णाश्वमेधवैराटशल्यद्रोणेषु पर्वसु
सूक्ष्मवस्त्रत्रयं शुद्धं निष्कद्वयमथापि वा ॥८०॥
क्षुद्रपर्वस्वथान्येषु निष्कावथ समानयेत्
हरिवंशे सनिष्कं तु वस्त्रत्रितयमेव तु ॥८१॥
भारतस्याखिलस्यैव समाप्तौ क्षेत्रदो भवेत्
रामायणस्य श्रवणे कांडेकांडे प्रपूजयेत् ॥८२॥
क्षेत्रं पर्याप्तमथवा सुवर्णमपि दापयेत्
व्याख्यातुर्गुरुवाक्यस्य सर्वकल्मषनाशनः ॥८३॥
अर्थोधर्म्मश्च कामश्च मोक्षश्च नृपसत्तम
व्याख्याश्रवणतः सर्वे सिद्धयंति च सुबुद्धयः ॥८४॥
ब्रह्महत्यादिपापानां सर्वेषामपि नाशनम्
एकेन श्रवणेनास्य किं नरैर्न श्रुतं भुवि ॥८५॥
यानवसुसुवर्णाद्यैर्नित्यमेनं प्रपूजयेत्
व्याख्यातारं यतः पापसंदोहस्य विनाशनम् ॥८६॥
अन्यान्यपि पुराणानि मुनिप्रोक्तानि तान्यपि
श्रोतॄणां पापनाशाय वक्तुश्चापि विशेषतः ॥८७॥
यश्च सर्वपुराणानि षट्त्रिंशत्तु प्रकीर्तयेत्
शृणोति वा न तस्यास्ति चित्तच्छेदः कदाचन ॥८८॥
ब्राह्मं पुराणं प्रथमं द्वितीयं पाद्ममुच्यते
तृतीयं वैष्णवं चैव चतुर्थं शैवमुच्यते ॥८९॥
अथ भागवतं प्रोक्तं पंचमं षष्ठमुच्यते
भविष्यं नारदीयं च सप्तमं परिकीर्तितम् ॥९०॥
मार्कंडेयमिति प्रोक्तमष्टमं नवमं तथा
आग्नेयं ब्रह्मवैवर्तं दशमं परिकीर्तितम् ॥९१॥
लैंगं च वामनं चैव स्कांदं मात्स्यमथैव च
कौर्मं वाराहमुदितं गारुडं वाथ कीर्तितम् ॥९२॥
ब्रह्मांडमित्यष्टादशपुराणानि विदुर्बुधाः
तथा चोपपुराणानि कथयिष्याम्यतः परम् ॥९३॥
आद्यं सनत्कुमाराख्यं नारसिंहमतः परम्
तृतीयमांडमुद्दिष्टं दौर्वाससमथैव च ॥९४॥
नारदीयमथान्यं च कापिलं मानवं तथा
तद्वदौशनस प्रोक्तं ब्रह्मांडं च ततः परम् ॥९५॥
वारुणं कालिकाह्वानं माहेशं सांबमेव च
सौरं पाराशरं चैव मारीचं भार्गवाह्वयम् ॥९६॥
कौमारं च पुराणानि कीर्तितान्यष्ट वै दश
अष्टादशपुराणानां व्याकर्ता तु भवेन्मनुः ॥९७॥
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे पुराणमाहात्म्यकथनं
नाम पंचदशोत्तरशततमोऽध्यायः ॥११५॥
N/A
References : N/A
Last Updated : November 13, 2020
TOP