संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः २४

पातालखण्डः - अध्यायः २४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शेष उवाच
शत्रुघ्नस्तु क्रुधाविष्टो दंतान्दंतैर्विनिष्पिषन्
हस्तौ धुन्वंल्लेलिहानमधरं जिह्वया सकृत् ॥१॥
पुनः पुनस्तान्पप्रच्छ केनाश्वो नीयते मम
प्रतापाग्र्यः केन जितः सर्वशूरशिरोमणिः ॥२॥
सेवकास्ते तदा प्रोचुर्दमनोनाम शत्रुहन्
सुबाहुजः प्रतापाग्र्यं जितवान्हयमाहरत् ॥३॥
इति श्रुत्वा हयं नीतं दमनेन स्ववैरिणा
आजगाम स वेगेन यत्राभूद्रणमंडलम् ॥४॥
तत्रापश्यत्स शत्रुघ्नो गजान्दीर्णकपोलकान्
पर्वतानिव रक्तोदे मज्जमानान्मदोद्धतान् ॥५॥
हयास्तत्र निजारोहकर्तृभिः सहिताः क्षताः
मृता वीरेण ददृशे शत्रुघ्नेन सुकोपिना ॥६॥
नरान्रथान्गजान्भग्नान्वीक्षमाणः स शत्रुहा
अतीव चुक्रुधे यद्वत्प्रलये प्रलयार्णवः ॥७॥
पुरतो दमनं वीक्ष्य हयनेतारमुद्भटम्
प्रतापाग्र्यस्य जेतारं तृणीकृत्य निजं बलम् ॥८॥
तदा राजा प्रत्युवाच योधान्कोपाकुलेक्षणः
कोऽसौ दमन जेताऽत्र सर्वशस्त्रास्त्रधारकः ॥९॥
यो वै राजसुतं वीरं रणकर्मविशारदम्
जेष्यत्यस्त्रेण निर्भीतः सज्जीभूतो भवत्वयम् ॥१०॥
इति वाक्यं समाकर्ण्य पुष्कलः परवीरहा
दमनं जेतुमुद्युक्तो जगाद वचनं त्विदम् ॥११॥
स्वामिन्क्वायं दमनकः क्व तेऽपरिमितं बलम्
जेष्येऽहं त्वत्प्रतापेन गच्छाम्येष महामते ॥१२॥
सेवके मयि युद्धाय स्थिते कैर्नीयते हयः
रघुनाथप्रतापोऽयं सर्वं कृत्यं करिष्यति ॥१३॥
स्वामिञ्छृणु प्रतिज्ञां मे तव मोदप्रदायिनीम्
विजेष्ये दमनं युद्धे रणकर्मविचक्षणम् ॥१४॥
रामचंद्रपदांभोजमध्वास्वादवियोगिनाम्
यदघं तु भवेत्तन्मे दमनं न जयेयदि ॥१५॥
पुत्रो यो मातृपादान्यत्तीर्थं मत्वा तया सह
विरुद्ध्येत्तत्तमो मह्यं न जयेदमनं यदि ॥१६॥
अद्य मद्बाणनिर्भिन्न महोरस्को नृपांगजः
अलंकरोतु प्रधने भूतलं शयनेन हि ॥१७॥
शेष उवाच
इति प्रतिज्ञामाकर्ण्य पुष्कलस्य रघूद्वहः
जहर्ष चित्ते तेजस्वी निदिदेश रणं प्रति ॥१८॥
आज्ञप्तोऽसौ ययौ सैन्यैर्बहुभिः परिवारितः
यत्रास्ते दमनो राजपुत्रः शूरकुलोद्भवः ॥१९॥
दमनोऽपि तमाज्ञाय ह्यागतं रणमंडले
प्रत्युज्जगाम वीराग्र्यः स्वसैन्यपरिवारितः ॥२०॥
अन्योन्यं तौ संमिलितौ रथस्थौ रथशोभिनौ
समरे शक्रदैत्यौ किं युद्धार्थं रणमागतौ ॥२१
उवाच पुष्कलस्तं वै राजपुत्रं महाबलम्
राजपुत्र दमनक मां जानीहि समागतम् ॥२२॥
स प्रतिज्ञं तु युद्धाय भरतात्मजमुद्भटम्
पुष्कलेन स्वनाम्ना च लक्षितं विद्धिसत्तम ॥२३॥
रघुनाथपदांभोज नित्यसेवामधुव्रतम्
त्वां जेष्ये शस्त्रसंघेनसज्जीभव महामते ॥२४॥
इति वाक्यं समाकर्ण्य दमनः परवीरहा
प्रत्युवाच हसन्वाग्मी निर्भयोद्दृष्टविक्रमः ॥२५॥
सुबाहुपुत्रं दमनं पितृभक्ति हृताघकम्
विद्धि मामश्वनेतारं शत्रुघ्नस्य महीपतेः ॥२६॥
जयो दैवविसृष्टोऽयं यस्य चालंकरिष्यति
स प्राप्नोति निरीक्षस्व बलं मे रणमूर्धनि ॥२७॥
इत्युक्त्वा स शरं चापं विधायाकर्णपूरितम्
मुमोच बाणान्निशितान्वैरिप्राणापहारिणः ॥२८॥
ते बाणास्त्वाविलीभूताश्छादयामासुरंबरम्
सूर्यभानुप्रभा यत्र बाणच्छायानिवारिता ॥२९॥
गजानां कटभित्त्योघे लग्ना सायकसंततिः
अलंकरोति धातूनां रागा इव विचित्रिताः ॥३०॥
पतितास्तत्र दृश्यंते नरा वाहा गजा रथाः
शरव्रातेन नृपतेः सुतेन परिताडिताः ॥३१॥
तद्विक्रांतं समालोक्य पुष्कलः परवीरहा
शराणां छायया व्याप्तं रणमंडलमीक्ष्य च ॥३२॥
शरासने समाधत्त बाणं वह्न्यभिमंत्रितम्
आचम्य सम्यग्विधिवन्मोचयामास सायकम् ॥३३॥
ततोऽग्निप्रादुरभवत्तत्र संग्राममूर्धनि
ज्वालाभिर्विलिहन्व्योम प्रलयाग्निरिवोत्थितः ॥३४॥
ततोऽस्य सैन्यं निर्दग्धं त्रासं प्राप्तं रणांगणे
पलायनपरं जातं वह्निज्वालाभिपीडितम् ॥३५॥
छत्राणि तु प्रदग्धानि चंद्राकाराणि धन्विनाम्
दृश्यंते जातरूपाभ कांतिधारीणि तत्र ह ॥३६॥
हया दग्धाः पलायंते केसरेषु च वैरिणाम्
रथा अपि गता दाहं सुकूबरसमन्विताः ॥३७॥
मणिमाणिक्यरत्नानि वहंतः करभास्ततः
पलायंते दहनभू ज्वालामालाभिपीडिताः ॥३८॥
कुत्रचिद्दंतिनो नष्टाः कुत्रचिद्धयसादिनः
कुत्रचित्पत्तयो नष्टा वह्निदग्धकलेवराः ॥३९॥
शराः सर्वे नृपसुतप्रमुक्ताः प्रलयं गताः
आशुशुक्षणिकीलाभिर्भस्मीभूताः समंततः ॥४०॥
तदा स्वसैन्ये दग्धे च दमनो रोषपूरितः
सर्वास्त्रवित्तच्छांत्यर्थं वारुणास्त्रमथा ददे ॥४१॥
वारुणं वह्निशांत्यर्थं मुक्तं तेन महीभृता
आप्लावयद्बलं तस्य रथवाजिसमाकुलम् ॥४२॥
रथा विप्लावितास्तोये दृश्यंते परिपंथिनाम्
गजाश्चापि परिप्लुष्टाः स्वीयाः शांतिमुपागताः ॥४३॥
वह्निश्च शांतिमगमदग्न्यस्त्र परिमोचितः
शांतिमाप बलं स्वीयं वह्निज्वालाभिपीडितम् ॥४४॥
कंपिताः शीततोयेन सीत्कुर्वंति च वैरिणः
करकावृष्टिभिः क्षिप्ता वायुना च प्रपीडिताः ॥४५॥
तदा स्वबलमालोक्य तोयपूरेण पीडितम्
कंपितं क्षुभितं नष्टं वारुणेन विनिर्हृतम् ॥४६॥
तदातिकोपताम्राक्षः पुष्कलो भरतात्मजः
वायव्यास्त्रं समाधत्त धनुष्येकं महाशरम् ॥४७॥
ततो वायुर्महानासीद्वायव्यास्त्रप्रचोदितः
नाशयामास वेगेन घनानीकमुपस्थितम् ॥४८॥
वायुना स्फालिता नागाः परस्परसमाहताः
अश्वाश्च संहतान्योन्यं स्वस्वारोहसमन्विताः ॥४९॥
नराः प्रभंजनोद्धूता मुक्तकेशा निरोजसः
पतंतोऽत्र समीक्ष्यंते वेताला इव भूगताः ॥५०॥
वायुना स्वबलं सर्वं परिभूतं विलोक्य सः
राजपुत्रः पर्वतास्त्रं धनुष्येवं समादधे ॥५१॥
तदा तु पर्वताः पेतुर्मस्तकोपरि युध्यताम्
वायुः संच्छादितस्तैस्तु न प्रचक्राम कुत्रचित् ॥५२॥
पुष्कलो वज्रसंज्ञं तु समाधत्त शरासने
वज्रेण कृत्तास्ते सर्वे जाताश्च तिलशः क्षणात् ॥५३॥
वज्रं नगान्रजः शेषान्कृत्वा बाणाभिमंत्रितम्
राजपुत्रोरसि प्रोच्चैः पपात स्वनवद्भृशम् ॥५४॥
सत्वाकुलितचेतस्को हृदि विद्धः क्षतो भृशम्
विव्यथे बलवान्वीरः कश्मलं परमाप सः ॥५५॥
तं वै कश्मलितं दृष्ट्वा सारथिर्नयकोविदः
अपोवाह रणात्तस्मात्क्रोशमात्रं नरेंद्रजम् ॥५६॥
ततो योधा राजसूनोः प्रणष्टाः प्रपलायिताः
गत्वा पुरीं समाचख्युः कश्मलस्थं नृपात्मजम् ॥५७॥
पुष्कलो जयमाप्यैवं रणमूर्धनि धर्मवित्
न प्रहर्तुं पुनः शक्तो रघुनाथवचः स्मरन् ॥५८॥
ततो दुंदुभिनिर्घोषो जयशब्दो महानभूत्
साधुसाध्विति वाचश्च प्रावर्तंत मनोहराः ॥५९॥
हर्षं प्राप स शत्रुघ्नो जयिनं वीक्ष्य पुष्कलम्
प्रशशंस सुमत्यादि मंत्रिभिः परिवारितः ॥६०॥
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे
पुष्कलविजयोनाम चतुर्विंशतितमोऽध्यायः ॥२४॥

N/A

References : N/A
Last Updated : November 04, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP