संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ४०

पातालखण्डः - अध्यायः ४०

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शेष उवाच
सेनाचरा महाराज्ञो महाबलसमन्विताः
समागतास्तं पश्यंतो हयं रामस्य भूपतेः ॥१॥
क्वा सावश्वः केन नीतः कथं वा दृश्यते न सः
को गंता यमपुर्यां वै वाहं हृत्वा सुमंदधीः ॥२॥
विलोकयंतस्तन्मार्गं यावत्सेनाचरा रघोः
तावत्प्राप्तो महाराजो महासैन्यपरीवृतः ॥३॥
पप्रच्छ सेवकान्सर्वान्कुत्राश्वो मम सांप्रतम्
न दृश्यते कथं वाहः स्वर्णपत्रसुशोभितः ॥४॥
इति तद्वचनं श्रुत्वा सेवकास्ते हयानुगाः
प्रोचुर्नाथ मनोवेगो वाहः केनापि कानने ॥५॥
हृतो न लक्ष्यते तस्मादस्माभिर्मार्गकोविदैः
तदत्र यत्नः कर्तव्यो हयप्राप्तिं प्रति प्रभो ॥६॥
तेषां वचनमाकर्ण्य पप्रच्छ सुमतिं नृपः
शत्रुघ्नः शत्रुसंहारकारीमोहनरूपधृक् ॥७॥
शत्रुघ्न उवाच
कोऽत्र राजा निवसति कथं वाहस्य संगमः
कियद्बलं भूमिपतेर्येन मेऽद्य हृतो हयः ॥८॥
सुमतिरुवाच
राजन्देवपुरं ह्येतद्देवेनैव विनिर्मितम्
कैलासमिव दुर्गम्यं वैरिसंघैः सुसंहतैः ॥९॥
अस्मिन्वीरमणी राजा महाशूरः प्रतापवान्
राज्यं करोति धर्मेण शिवेन परिरक्षितः ॥१०॥
योऽसौ प्रलयकारी स आस्ते भक्त्या वशीकृतः
चंद्रचूडः स्वभक्तस्य पक्षपातं सृजन्सदा ॥११॥
तस्मादत्र महद्युद्धं गृहीतश्चेद्भविष्यति
यत्ताः संतः प्रकुर्वंतु रक्षणं कटकस्य हि ॥१२॥
एवं श्रुत्वा स शत्रुघ्नः सर्वभूपशिरोमणिः
सैन्यव्यूहं रचित्वासौ तिष्ठति स्म महायशाः ॥१३॥
अथ तं सुखमासीनं मंत्रयंतं सुमंत्रिणा
आजगाम स देवर्षिर्युद्धकौतुकसंयुतः ॥१४॥
तमागतं मुनिं दृष्ट्वा शत्रुघ्नस्तपसां निधिम्
अभ्युत्थायासने स्थाप्य मधुपर्कमथार्पयत् ॥१५॥
स्वागतेन च संतुष्टं नारदं मुनिसत्तमम्
उवाच प्रीणयन्वाचा वाक्यवादविशारदः ॥१६॥
शत्रुघ्न उवाच
मदीयोऽश्व कुत्र विप्र कथयस्व महामते
न लक्ष्यते गतिस्तस्य सेवकैर्मम कोविदैः ॥१७॥
शंस तं येन वा नीतं क्षत्त्रियेण च मानिना
कथमत्र हयप्राप्तिर्भविष्यति तपोधन ॥१८॥
इति वाक्यं समाकर्ण्य शत्रुघ्नस्य स नारदः
उवाच वीणां रणयन्गायन्रामकथां मुहुः ॥१९॥
नारद उवाच
एतद्देवपुरं राजन्भूपो वीरमणिर्महान्
तत्पुत्रेण वनस्थेन गृहीतस्तव वाजिराट् ॥२०॥
तत्र युद्धं महत्तेऽद्य भविष्यति सुदारुणम्
अत्र वीराः पतिष्यंति बलशौर्यसमन्विताः ॥२१॥
तस्मादत्र महायत्नात्स्थातव्यं ते महाबल
रचय व्यूहरचनां दुर्गमां परसैनिकैः ॥२२॥
जयस्ते भविता राजन्कृच्छ्रेणास्मान्नृपोत्तमात्
रामं को नु पराजीयाद्भुवने सकले ह्यपि ॥२३॥
इत्युक्त्वांतर्दधे विप्रो नभसि स्थितवांस्ततः
युद्धं सुदारुणं द्रक्ष्यन्देवदानवयोरिव ॥२४॥
शेष उवाच
अथ राजा वीरमणिः सर्वशूरशिरोमणिः
पटहं घोषितुं स्वीये पुरमध्ये महारवम् ॥२५॥
आह्वयामास सेनान्यं रिपुवीरं महोन्नतम्
कथयामास च क्षिप्रं मेघगंभीरया गिरा ॥२६॥
वीरमणिरुवाच
सेनानीः पटहस्याज्ञां देहि मे शोभने पुरे
तच्छ्रुत्वा मे सुसन्नद्धाः शत्रुघ्नं प्रति यांतु ते ॥२७॥
इति वाक्यं समाकर्ण्य राज्ञो वीरमणेस्तदा
कारयामास पटहं महारवनिनादितम् ॥२८॥
गेहे गेहे च रथ्यायां श्रूयते पटहध्वनिः
शत्रुघ्नं यांतु ये सर्वे वीरा राजपुरे स्थिताः ॥२९॥
ये वै राज्ञः समुल्लंघ्य शासनं वीरमानिनः
पुत्रा वा भ्रातरो वापि ते वध्याः स्युर्नृपाज्ञया ॥३०॥
शृण्वंतु वीराः पुनरप्याह ते पटहे रवम्
श्रुत्वा विधीयतामाशु कर्तव्यं मा विलंबितम् ॥३१॥
शेष उवाच
इति पटहरवं स्वकर्णगोचरं
नरवरवीरवरा ययुर्नृपोत्तमम्
कनककवचभूषितस्वदेहाः
समरमहोत्सव हृष्टचित्तकोशाः ॥३२॥
केचिद्ययुः शिरस्त्राणं धृत्वा शिरसि शोभनम्
कवचेन सुशोभाढ्याः शतकोटिसुशोभिताः ॥३३॥
रथेन हययुग्मेन मणिकांचनशोभिना
ययुस्ते राजसंदेशान्नृवरालयमुन्मदाः ॥३४॥
केचिन्मतंगजैर्मत्तैः केचिद्वाहैः सुशोभनैः
ययुर्नपगृहं सर्वे राजसंदेशकारकाः ॥३५॥
विविक्तस्वर्णकवचशिरस्त्राणसुशोभितः
रुक्मांगदोऽपि च निजे रथे तिष्ठन्मनोजवे ॥३६॥
शुभांगदोऽनुजस्तस्य महारत्नमयं दधत्
कवचं वपुषि श्रेष्ठं निजं प्रायाद्रणोत्सवे ॥३७॥
राजभ्राता वीरसिंहः सर्वशस्त्रास्त्रकोविदः
ययौ नृपाज्ञया तत्र शासनं भूमिपस्य हि ॥३८॥
जामेयस्तस्य राज्ञोऽपि बलमित्र इति स्मृतः
सन्नद्धः कवची खड्गी जगाम नृपमंदिरम् ॥३९॥
सेनानी रिपुवारोऽपि सेनां तां चतुरंगिणीम्
सज्जां विधाय भूपाय न्यवेदयदथो महान् ॥४०॥
अथ राजा वीरमणिः सर्वशस्त्रास्त्रपूरितम्
मणिसृष्टोच्चचक्रोच्चमारोहत्स्यंदनोत्तमम् ॥४१॥
ततो वीरार्णवे शंखनिनादश्च समंततः
श्रूयते कातरान्वीरान्प्रेरयन्निव संगरे ॥४२॥
भेर्यः समंततो जघ्नुः शुभवादकवादिताः
अनीकान्यत्र तस्यासन्संग्रामाय प्रतस्थुषः ॥४३॥
सर्वे कृतस्वस्त्ययनाः सर्वाभरणभूषिताः
सर्वशस्त्रास्त्रसंपूर्णा ययुः समरमण्डलम् ॥४४॥
भेरीशंखनिनादेन पूरिताश्च नगा गुहाः
आकारितुं गतः किं नु तद्रवः स्वर्गसंस्थितान् ॥४५॥
तस्मिन्कोलाहले वृत्ते राजा वीरमणिर्महान्
रणोत्साहेन संयुक्तो ययौ प्रधनमंडलम् ॥४६॥
आगत्य संस्थितस्तावद्रथपत्तिसमाकुलम्
समुद्र इव तत्स्थानात्प्लावितुं पुरुषानयात् ॥४७॥
तदागतं बलं दृष्ट्वा रथिभिः शस्त्रकोविदैः
कोलाहलीकृतं सर्वमुवाच सुमतिं नृपः ॥४८॥
शत्रुघ्न उवाच
समागतो वीरमणिर्मम वाजिधरो बली
योद्धुं मां महता भूयः सैन्येन चतुरंगिणा ॥४९॥
कथं युद्धं प्रकर्तव्यं के योत्स्यंति बलोत्कटाः
तान्सर्वान्दिश मे वीरान्यथा स्याज्जय ईप्सितः ॥५०॥
सुमतिरुवाच
स्वामिन्नसौ महाराजो महासैन्यपरीवृतः
समागतः स युद्धार्थं शिवभक्तिसमन्वितः ॥५१॥
सांप्रतं युद्ध्यतां वीरः पुष्कलः परमास्त्रवित्
अन्येपि नीलरत्नाद्या योद्धारो युद्धकोविदाः ॥५२॥
शिवेन सह योद्धव्यं राज्ञा वा भवतानघ
द्वंद्वयुद्धेन जेतव्यो महाबलपराक्रमः ॥५३॥
अनेन विधिना राजञ्जयस्तेऽत्र भविष्यति
पश्चाद्यद्रोचते स्वामिंस्तत्कुरुष्व महामते ॥५४॥
शेष उवाच
इति वाक्यं समाकर्ण्य शत्रुघ्नः परवीरहा
सुभटानादिदेशाथ युद्धाय कृतनिश्चयः ॥५५॥
सर्वैः ससैन्यैर्युद्धार्थं राजभिः शस्त्रकोविदैः
यथा स्यान्मे जयः क्षिप्रं यतितव्यं तथा पुनः ॥५६॥
जयार्थं राघवस्यैव श्रुत्वा ते रणकोविदाः
महोत्साहेन संयुक्ता ययुर्योद्धुं तु सैनिकैः ॥५७॥
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे वीर-
मणिना सह युद्धनिश्चयोनाम चत्वारिंशत्तमोऽध्यायः ॥४०॥

N/A

References : N/A
Last Updated : November 04, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP