पातालखण्डः - अध्यायः ४१
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
शेष उवाच
युद्धाय ते सुसंनद्धाः शत्रुघ्नस्य महाबलाः
ययुर्वीरमणेः सैन्यमध्ये शौर्यसमन्विताः ॥१॥
शरान्विमुंचमानास्ते भिंदंतः सैनिकान्बहून्
व्यदृश्यंत रणांतःस्थाः शरासनधरा नराः ॥२॥
अनेके निहतास्तत्र गजा मणिमया रथाः
भग्ना वाहसमेताश्च दृश्यंते रणमंडले ॥३॥
विहितं कदनं तेषां श्रुत्वा रुक्मांगदो बली
रथे मणिमये तिष्ठन्ययौ योद्धुं ससैनिकान् ॥४॥
शरासने शरान्धास्यन्निषुधी अक्षयौ दधत्
शोणनेत्रांतरो भीमो महाकोपसमन्वितः ॥५॥
अनेकबाणसंविग्नान्कुर्वञ्छूरान्सहस्रशः
हाहाकारं कारयंस्तद्ययौ रुक्मांगदो बली ॥६॥
राजपुत्रः स्वसदृशं बलेन यशसाश्रिया
आह्वयामास शत्रुघ्नं भारतिं पुष्कलं बली ॥७॥
रुक्मांगद उवाच
आगच्छ वीरकर्मा त्वं महाबलपराक्रम
मया योद्धुं तु बलिना राजपुत्रेण भास्वता ॥८॥
किमन्यैस्त्रासितैर्वीर निहतैः कोटिभिर्नरैः
मया समं महायुद्धं विधाय जयमाप्नुहि ॥९॥
इत्युक्तवं तं तरसा प्रहसन्पुष्कलो बली
जघान विपुले मध्ये वक्षसस्तीक्ष्णपर्वभिः ॥१०॥
तदमृष्यन्राजपुत्रो महाचापे दधच्छरान्
जघान दशभिर्वीरं पुष्कलं वक्षसोंऽतरे ॥११॥
उभौ समरसंरब्धावुभावपि जयैषिणौ
रेजाते समरे तौ हि कुमारतारकौ यथा ॥१२॥
बाणान्धनुषि संधाय दशसंख्यान्महाशितान्
अकरोत्पुष्कलो वीरो विरथं राजपुत्रकम् ॥१३॥
चतुर्भिश्चतुरोवाहान्द्वाभ्यां सूतमपातयत्
एकेन ध्वजमेतस्य द्वाभ्यां स्यंदनरक्षकौ ॥१४॥
एकेन हृदि विव्याध राजपुत्रस्य वेगवान्
तदद्भुतं कर्म दृष्ट्वा सर्वे वीराः प्रतोषिताः ॥१५॥
सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः
अत्यंतं कोपमापन्नः स्यंदनं परमाविशत् ॥१६॥
स स्थित्वा स्यंदनवरे हयरत्नेन भूषिते
शरासनं महद्धृत्वा सुदृढं गुणपूरितम् ॥१७॥
उवाच पुष्कलं वीरं रुक्मांगद इदं वचः
महत्पराक्रमं कृत्वा क्व यास्यसि परंतप ॥१८॥
पश्य मेऽद्यपराक्रांतिं यद्बलेन विनिर्मिताम्
यत्नात्तिष्ठस्व भो वीर नयामि त्वद्रथं नभः ॥१९॥
इत्युक्त्वा शरमत्युग्रं दधार स्वशरासने
मंत्रयित्वा ततश्चास्त्रं भ्रामकं पौष्कले रथे ॥२०॥
मुमोच निशितं बाणं स्वर्णपंखैकशोभितम्
तेन बाणेन नीतोऽस्य रथो योजनमात्रकम् ॥२१॥
धृतः कृच्छ्रेण सूतेन रथो बभ्राम भूतले
कृच्छ्रेण प्राप्य स्वस्थानं पुष्कलः परमास्त्रवित् ॥२२॥
जगाद वचनं तं वै बाणं बिभ्रच्छरासने
स्वर्गं प्राप्नुहि वीराग्र्य सर्वदेवैश्च सेवितम् ॥२३॥
त्वादृशाः पृथिवीयोग्या न भवंति नृपोत्तम
शतक्रतुसभायोग्यास्तद्गच्छ त्वं सुरालयम् ॥२४॥
इत्युक्त्वा स मुमोचास्त्रमाकाशप्रापकं महत्
तेन बाणेन सरथो ययौ खमनुलोमतः ॥२५॥
सर्वांल्लोकानतिक्रामन्ययौ सूर्यस्य मंडलम्
तज्ज्वालया रथो दग्धो हयसूतसमन्वितः ॥२६॥
तत्करैर्दग्धभूयिष्ठ कलेवरः सुदुःखितः
पपात चंद्रचूडं स धृत्वा हृद्यसुखार्दनम् ॥२७॥
भूमौ निपतितस्तत्र करदग्धकलेवरः
अत्यंतं दुःखमापन्नो मुमूर्च्छ रणमंडले ॥२८॥
तस्मिन्निपतिते भूमौ मूर्च्छिते राजपुत्रके
हाहाकारो महानासीत्तत्र संग्राममूर्धनि ॥२९॥
वैरिणो जयलक्ष्मीं ते प्रापुः पुष्कलमुख्यकाः
पलायनपरा जाता वैरिणो हयरक्षकाः ॥३०॥
तदा पुत्रस्य वै मूर्च्छां दृष्ट्वा वीरमणिर्नृपः
प्रायात्समरमध्यस्थं पुष्कलं कोपपूरितः ॥३१॥
तदा भूमिश्चचालेयं सपर्वतवनोत्तमा
शूरा वै हर्षमापन्नाः कातरा भयपीडिताः ॥३२॥
चापं महद्दधानः स इषुधी अक्षयावपि
रोषान्निःश्वासमामुंचन्नाह्वयामास वैरिणम् ॥३३॥
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे रुक्मांगद-
पराजय पुष्कलविजयोनाम एकचत्वारिंशत्तमोऽध्यायः ॥४१॥
N/A
References : N/A
Last Updated : November 05, 2020
TOP