पातालखण्डः - अध्यायः ३५
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
शेष उवाच
प्राप्य तं वाजिनं राजा शत्रुघ्नो राक्षसैर्हृतम्
अत्यंतं हर्षमापेदे पुष्कलेन समन्वितः ॥१॥
रुधिरैः सिक्तगात्रास्ते योधा लक्ष्मीनिधिस्तथा
रणोत्साहेन संयुक्तं प्रशशंसुर्महानृपम् ॥२॥
हते तस्मिन्महादैत्ये विद्युन्मालिनि दुर्जये
सुराः सर्वे भयं त्यक्त्वा सुखमापुर्मुनेमहत् ॥३॥
नद्यस्तु विमला जाता रविस्तु विमलोऽभवत्
वाता ववुः सुगंधोद सिक्ता विमलशुष्मिणः ॥४॥
सन्नद्धास्ते महावीरा रथस्था विमलांगकाः
राजानमूचुस्ते सर्वे जयलक्ष्म्या समन्विताः ॥५॥
वीरा ऊचुः
दिष्ट्या हतस्त्वया दैत्यो विद्युन्माली महामते
यद्भयात्त्रासमापन्नाः सुराः स्वर्गान्निराकृताः ॥६॥
दिष्ट्या प्राप्तो महावाजी रघुनाथस्य शोभनः
दिष्ट्या गंतासि सर्वत्र जयं तु क्षितिमंडले ॥७॥
स्वामिन्मुंचत्विमं वाहं मनोवेगं मनोरमम्
समयस्य विलंबो मा भवत्वत्र महामते ॥८॥
शेष उवाच
इति श्रुत्वा तु तद्वाक्यं वीराणां समयोचितम्
साधु साधु प्रशस्यैतान्मुमोच हयसत्तमम् ॥९॥
स मुक्तश्चोत्तरामाशां बभ्रामाथ सुरक्षितः
रथपत्तिहयश्रेष्ठैः सर्वशस्त्रास्त्रकोविदैः ॥१०॥
तत्र यद्वृत्तमेतस्य शत्रुघ्नस्य मनोहरम्
वात्स्यायन शृणुष्वैतत्पापराशिप्रदाहकम् ॥११॥
रेवातीरमथ प्राप्तो मुनिवृंदनिषेवितम्
नीलरत्नसमूहस्य रसः किं तु पयो मिषात् ॥१२॥
तांस्तान्मुनिवरान्सर्वान्प्रणमञ्छूरसेवितः
जगाम हयरत्नस्य पृष्ठतः कामगामिनः ॥१३॥
गच्छंस्तत्राश्रमं जीर्णं पलाशपर्णनिर्मितम्
रेवायाजलकल्लोलैः सिक्तं पापहराश्रयम् ॥१४॥
तं दृष्ट्वा सुमतिं प्राह सर्वज्ञं नयकोविदम्
शत्रुघ्नः सर्वधर्मार्थकर्मकर्तव्यकोविदः ॥१५॥
राजोवाच
मंत्रिन्कथय कस्यायमाश्रमः पुण्यदर्शनः
विचारचतुरश्रेष्ठ वदैतन्मम पृच्छतः ॥१६॥
शेष उवाच
इति वाक्यं समाकर्ण्य सुमतिः प्राह तं नृपम्
विशद स्मेरया वाचा दर्शयन्नात्मसौहृदम् ॥१७॥
सुमतिरुवाच
एनं दृष्ट्वा महाराज धूतपापा वयं खलु
भविष्यामो मुनिश्रेष्ठं सर्वशास्त्रपरायणम् ॥१८॥
तस्मान्नत्वा तमापृच्छ सर्वं ते कथयिष्यति
रघुनाथपदांभोजमकरंदाति लोलुपः ॥१९॥
नाम्ना त्वारण्यकं ख्यातं रघुनाथांघ्रिसेवकम्
अत्युग्रतपसा पूर्णं सर्वशास्त्रार्थकोविदम् ॥२०॥
इति श्रुत्वा तु तद्वाक्यं धर्मार्थपरिबृंहितम्
जगाम तमथो द्रष्टुं स्वल्पसेवकसंयुतः ॥२१॥
हनूमान्पुष्कलो वीरः सुमतिर्मंत्रिसत्तमः
लक्ष्मीनिधिः प्रतापाग्र्यः सुबाहुः सुमदस्तथा ॥२२॥
एतैः परिवृतो राजा शत्रुघ्नः प्रापदाश्रमम्
नमस्कर्तुं द्विजवरमारण्यकमुदारधीः ॥२३॥
गत्वा तं तापसश्रेष्ठं नमस्कारमथाकरोत्
सर्वैस्तैः सहितो वीरैर्विनयानतकंधरैः ॥२४॥
तान्दृष्ट्वा सन्नतान्सर्वाञ्छत्रुघ्नप्रमुखान्नृपान्
अर्घ्यपाद्यादिकं चक्रे फलमूलादिभिस्तदा ॥२५॥
उवाच तान्नृपान्सर्वान्भवंतः कुत्र संगताः
कथमत्र समायातास्तत्सर्वं वदतानघाः ॥२६॥
तच्छ्रुत्वा वाक्यमेतस्य मुनिवर्यस्य वाडव
सुमतिः कथयामास वाक्यं वादविचक्षणः ॥२७॥
सुमतिरुवाच
रघुवंशनृपस्यायमश्वो वै पाल्यतेऽखिलैः
यागं करिष्यते वीरः सर्वसंभारसंभृतम् ॥२८॥
तच्छ्रुत्वा वचनं तेषां जगाद मुनिसत्तमः
दंतकांत्याखिलं घोरं तमोनिर्वारयन्निव ॥२९॥
आरण्यक उवाच
किं यागैर्विविधैरन्यैः सर्वसंभारसंभृतैः
स्वल्पपुण्यप्रदैर्नूनं क्षयिष्णुपददातृभिः ॥३०॥
मूढो लोको हरिं त्यक्त्वा करोत्यन्यसमर्चनम्
रघुवीरं रमानाथं स्थिरैश्वर्यपदप्रदम् ॥३१॥
यो नरैः स्मृतमात्रोपि हरते पापपर्वतम्
तं मुक्त्वा क्लिश्यते मूढो यागयोगव्रतादिभिः ॥३२॥
अहो पश्यत मूढत्वं लोकानामतिवंचितम्
सुलभं रामभजनं मुक्त्वा दुर्ल्लभमाचरेत् ॥३३॥
सकामैर्योगिभिर्वापि चिंत्यते कामवर्जितैः
अपवर्गप्रदं नॄणां स्मृतमात्राखिलाघहम् ॥३४॥
पुराहं तत्त्ववित्सायां ज्ञानिनं सुविचारयन्
अगमं बहुतीर्थानि तत्त्वं कोपि न मेऽदिशत् ॥३५॥
तदैकं हि महद्भाग्यात्प्राप्तं वै लोमशं मुनिम्
स्वर्गलोकात्समायातं तीर्थयात्राचिकीर्षया ॥३६॥
तमहं प्रणिपत्याथ पर्यपृच्छं महामुनिम्
महायुषं महायोगिसंसेवितपदद्वयम् ॥३७॥
स्वामिन्मयाद्य मानुष्यं प्राप्तमद्भुतदुर्ल्लभम्
संसारघोरजलधिं किं कर्तव्यं तितीर्षुणा ॥३८॥
विचार्य कथय त्वं तद्व्रतं दानं जपो मखः
देवो वा विद्यते यो वै संसृत्यंभोधितारकः ॥३९॥
यज्ज्ञात्वा संसृतिं घोरां तरामि त्वत्कृपाब्धितः
तन्मे कथय योगेश सर्वशास्त्रार्थपारग ॥४०॥
इति मद्वाक्यमाकर्ण्य जगाद मुनिसत्तमः
शृणुष्वैकमना विप्र श्रद्धया परया युतः ॥४१॥
संति दानानि तीर्थानि व्रतानि नियमा यमाः
योगा यज्ञास्तथानेके वर्तंते स्वर्गदायकाः ॥४२॥
परं गुह्यं प्रवक्ष्यामि सर्वपापप्रणाशनम्
तच्छृणुष्व महाभाग संसारांभोधितारकम् ॥४३॥
नास्तिकाय न वक्तव्यं न चाऽश्रद्धालवे पुनः
निंदकाय शठायापि न देयं भक्तिवैरिणे ॥४४॥
रामभक्ताय शांताय कामक्रोधवियोगिने
वक्तव्यं सर्वदुःखस्य नाशकारकमुत्तमम् ॥४५॥
रामान्नास्ति परो देवो रामान्नास्ति परं व्रतम्
न हि रामात्परो योगो न हि रामात्परो मखः ॥४६॥
तं स्मृत्वा चैव जप्त्वा च पूजयित्वा नरः परम्
प्राप्नोति परमामृद्धिमैहिकामुष्मिकीं तथा ॥४७॥
संस्मृतो मनसा ध्यातः सर्वकामफलप्रदः
ददाति परमां भक्तिं संसारांभोधितारिणीम् ॥४८॥
श्वपाकोपि हि संस्मृत्य रामं याति परां गतिम्
ये वेदशास्त्रनिरतास्त्वादृशास्तत्र किं पुनः ॥४९॥
सर्वेषां वेदशास्त्राणां रहस्यं ते प्रकाशितम्
समाचर तथा त्वं वै यथा स्यात्ते मनीषितम् ॥५०॥
एको देवो रामचंद्रो व्रतमेकं तदर्चनम्
मंत्रोऽप्येकश्च तन्नाम शास्त्रं तद्ध्येव तत्स्तुतिः ॥५१॥
तस्मात्सर्वात्मना रामचंद्रं भजमनोहरम्
यथा गोष्पदवत्तुच्छो भवेत्संसारसागरः ॥५२॥
श्रुत्वा मया तु तद्वाक्यं पुनः प्रश्नमकारिषम्
कथं वा ध्यायते देवः कथं वा पूज्यते नरैः ॥५३॥
कथयस्व महाबुद्धे सर्वज्ञ मम विस्तरात्
यज्ज्ञात्वाहं कृतार्थः स्यां त्रिलोक्यां मुनिसत्तम ॥५४॥
एतच्छ्रुत्वा तु मद्वाक्यं विचार्य स तु लोमशः
कथयामास मे सर्वं रामध्यानपुरःसरम् ॥५५॥
शृणु विप्रेंद्र वक्ष्यामि यत्पृष्टं तु त्वयानघ
यथा तुष्येद्रमानाथः संसारज्वरदाहकः ॥५६॥
अयोध्यानगरे रम्ये चित्रमंडपशोभिते
ध्यायेत्कल्पतरोर्मूले सर्वकामसमृद्धिदे ॥५७॥
महामरकतस्वर्णनीलरत्नादिशोभितम्
सिंहासनं चित्तहरं कांत्या तामिस्रनाशनम् ॥५८॥
तस्योपरि समासीनं रघुराजं मनोरमम्
दूर्वादलश्यामतनुं देवदेवेंद्रपूजितम् ॥५९॥
राकायां पूर्णशीतांशुकांतिधिक्कारिवक्त्रिणम्
अष्टमीचंद्रशकलसमभालाधिधारिणम् ॥६०॥
नीलकुंतलशोभाढ्यं किरीटमणिरंजितम्
मकराकारसौंदर्यकुंडलाभ्यां विराजितम् ॥६१॥
विद्रुमच्छवि सत्कांतिरदच्छदविराजितम्
तारापतिकराकार द्विजराजि सुशोभितम् ॥६२॥
जपापुष्पाभया माध्व्या जिह्वया शोभिताननम्
यस्यां वसंति निगमा ऋगाद्याः शास्त्रसंयुताः ॥६३॥
कंबुकांतिधरग्रीवा शोभया समलंकृतम्
सिंहवदुच्चकौ स्कन्धौ मांसलौ बिभ्रतं वरम् ॥६४॥
बाहू दधानं दीर्घांगौ केयूरकटकांकितौ
मुद्रिकाहीरशोभाभिर्भूषितौ जानुलंबिनौ ॥६५॥
वक्षो दधानं विपुलं लक्ष्मीवासेन शोभितम्
श्रीवत्सादिविचित्रांकैरंकितं सुमनोहरम् ॥६६॥
महोदरं महानाभिं शुभकट्याविराजितम्
कांच्या वै मणिमत्या च विशेषेण श्रियान्वितम् ॥६७॥
ऊरुभ्यां विमलाभ्यां वै जानुभ्यां शोभितं श्रिया
चरणाभ्यां वज्ररेखा यवांकुशसुरेखया ॥६८॥
युताभ्यां योगिध्येयाभ्यां कोमलाभ्यां विराजितम्
ध्यात्वा स्मृत्वा च संसारसागरं त्वं तरिष्यसि ॥६९॥
तमेव पूजयन्नित्यं चंदनादिभिरिच्छया
प्राप्नोति परमामृद्धिमैहिकामुष्मिकीं पराम् ॥७०॥
त्वया पृष्टं महाराज रामस्य ध्यानमुत्तमम्
तत्ते कथितमेतद्वै संसारजलधिं तर ॥७१॥
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे आरण्यको
पाख्याने लोमशारण्यकसंवादोनाम पंचत्रिंशत्तमोऽध्यायः ॥३५॥
N/A
References : N/A
Last Updated : November 04, 2020
TOP