संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः १८

पातालखण्डः - अध्यायः १८

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


ब्राह्मण उवाच
राजंस्त्वं शृणु यद्वृत्तं नीले पर्वतसत्तमे
यच्छ्रद्दधानाः पुरुषा यांति ब्रह्म सनातनम् ॥१॥
मया पर्यटता तत्र गतं नीलाभिधे गिरौ
गंगासागरतोयेन क्षालितप्रांगणे मुहुः ॥२॥
तत्र भिल्ला मया दृष्टाः पर्वताग्रे धनुर्भृतः
चतुर्भुजा मूलफलैर्भक्ष्यैर्निर्वाहितक्लमाः ॥३॥
तदा मे मनसि क्षिप्रं संशयः सुमहानभूत्
चतुर्भुजाः किमेते वै धनुर्बाणधरा नराः ॥४॥
वैकुंठवासिनां रूपं दृश्यते विजितात्मनाम्
कथमेतैरुपालब्धं ब्रह्माद्यैरपि दुर्ल्लभम् ॥५॥
शंखचक्रगदाशार्ङ्गपद्मोल्लसितपाणयः
वनमालापरीतांगा विष्णुभक्ता इवांतिके ॥६॥
संशयाविष्टचित्तेन मया पृष्टं तदा नृप
यूयं के बत युष्माभिर्लब्धं चातुर्भुजं कथम् ॥७॥
तदा तैर्बहु हास्यं तु कृत्वा मां प्रतिभाषितम्
ब्राह्मणोऽयं न जानाति पिंडमाहात्म्यमद्भुतम् ॥८॥
इति श्रुत्वाऽवदं चाहं कः पिंडः कस्य दीयते
तन्मम ब्रूत धर्मिष्ठाश्चतुर्भुजशरीरिणः ॥९॥
तदा मद्वाक्यमाकर्ण्य कथितं तैर्महात्मभिः
सर्वं तत्र तु यद्वृत्तं चतुर्भुजभवादिकम् ॥१०॥
किराता ऊचुः
शृणु ब्राह्मण वृत्तांतमस्माकं पृथुकः शिशुः
नित्यं जंबूफलादीनि भक्षयन्क्रीडया चरन् ॥११॥
एकदा रममाणस्तु गिरिशृंगं मनोरमम्
समारुरोह शिशुभिः समंतात्परिवारितः ॥१२॥
तदा तत्र ददर्शाहं देवायतनमद्भुतम्
गारुत्मतादिमणिभिः खचितं स्वर्णभित्तिकम् ॥१३॥
स्वकांत्यातिमिरश्रेणीं दारयद्रविवद्भृशम्
दृष्ट्वा विस्मयमापेदे किमिदं कस्य वै गृहम् ॥१४॥
गत्वा विलोकयामीति किमिदं महतां पदम्
इति संचिंत्य गेहांतर्जगाम बहुभाग्यतः ॥१५॥
ददर्श तत्र देवेशं सुरासुरनमस्कृतम्
किरीटहारकेयूरग्रैवेयाद्यैर्विराजितम् ॥१६॥
मनोहरावतंसौ च धारयंतं सुनिर्मलौ
पादपद्मे तुलसिका गंधमत्तषडंघ्रिके ॥१७॥
शंखचक्रगदाशार्ङ्ग पद्माद्यैर्मूर्तिसंयुतैः
उपासितांघ्रिं श्रीमूर्तिं नारदाद्यैः सुसेवितम् ॥१८॥
केचिद्गायंति नृत्यंति हसंति परमाद्भुतम्
प्रीणयंति महाराजं सर्वलोकैकवंदितम् ॥१९॥
हरिं वीक्ष्य मदीयोर्भस्तत्र संजग्मिवान्मुने
देवास्तत्र विधायोच्चैः पूजां धूपादिसंयताम् ॥२०॥
नैवेद्यं श्रीप्रियस्यार्थे कृत्वा नीराजनं ततः
जग्मुः स्वं स्वं गृहं राजन्कृपां पश्यंत आदरात् ॥२१॥
महाभाग्यवशात्तेन प्राप्तं नैवेद्यसिक्थकम्
पतितं ब्रह्मदेवाद्यैर्दुर्ल्लभं सुरमानुषैः ॥२२॥
तद्भक्षणं च कृत्वाथो श्रीमूर्तिमवलोक्य च
चतुर्भुजत्वमाप्तं वै पृथुकेन सुशोभिना ॥२३॥
तदास्माभिर्गृहं प्राप्तो बालको वीक्षितो मुहुः
चतुर्भुजत्वं संप्राप्तः शंखचक्रादिधारकः ॥२४॥
अस्माभिः पृष्टमेतस्य किमेतज्जातमद्भुतम्
तदा प्रोवाच नः सर्वान्बालकः परमाद्भुतम् ॥२५॥
शिखराग्रे गतः पूर्वं तत्र दृष्टः सुरेश्वरः
तत्र नैवेद्यसिक्थं तु मया प्राप्तं मनोहरम् ॥२६॥
तस्य भक्षणमात्रेण कारणेन तु सांप्रतम्
चतुर्भुजत्वं संप्राप्तो विस्मयेन समन्वितः ॥२७॥
तच्छ्रुत्वा तु वचस्तस्य सद्यः संप्राप्तविस्मयैः
अस्माभिरप्यसौ दृष्टो देवः परमदुर्ल्लभः ॥२८॥
अन्नादिकं तत्र भुक्तं सर्वस्वादसमन्वितम्
वयं चतुर्भुजा जाता देवस्य कृपया पुनः
गत्वा त्वमपि देवस्य दर्शनं कुरु सत्तम ॥२९॥
भुक्त्वा तत्रान्नसिक्थं तु भव विप्र चतुर्भुजः
त्वया पृष्टं यदाश्चर्यं तदुक्तं वाडवर्षभ ॥३०॥
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे
ब्राह्मणोपदेशोनामाष्टादशोऽध्यायः ॥१८॥

N/A

References : N/A
Last Updated : November 04, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP