पातालखण्डः - अध्यायः ७३
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
ईश्वर उवाच-
यत्त्वया पृष्टमाश्चर्यं तन्मया भाषितं क्रमात्
यत्र मुह्यंति ब्रह्माद्यास्तत्र को वा न मुह्यति ॥१॥
तथापि ते प्रवक्ष्यामि यदुक्तं परमर्षिणा
महाराजमंबरीषं विष्णुभक्तं शिवान्वितम् ॥२॥
बदर्याश्रममासाद्य समासीनं जितेंद्रियम्
राजा प्रणम्य तुष्टाव विष्णुधर्मविवित्सया ॥३॥
वेदव्यासं महाभागं सर्वज्ञं पुरुषोत्तमम्
मां त्वं संसारदुष्पारे परित्रातुमिहार्हसि ॥४॥
विषयेषु विरक्तोऽस्मि नमस्तेभ्यो नमोखिलम्
यत्तत्पदमनुद्विग्नं सच्चिदानंदविग्रहम् ॥५॥
परं ब्रह्म पराकाशमनाकाशमनामयम्
यत्साक्षात्कृत्य मुनयो भवांभोधिं तरंति हि ॥६॥
तत्राहं मनसो नित्यं कथं गतिमवाप्नुयाम्
व्यास उवाच-
अतिगोप्यं त्वया पृष्टं यन्मया न शुकं प्रति ॥७॥
गदितं स्वसुतं किंतु त्वां वक्ष्यामि हरिप्रियम्
आसीदिदं परं विश्वं यद्रूपं यत्प्रतिष्ठितम् ॥८॥
अव्याकृतमव्यथितं तदीश्वरमयं शृणु
मया कृतं तपः पूर्वं बहुवर्षसहस्रकम् ॥९॥
फलमूलपलाशांबु वाय्वाहारनिषेविणा
ततो मामाहभगवान्स्वध्याननिरतं हरिः ॥१०॥
कस्मिन्नर्थे चिकीर्षाते विवित्सा वा महामते
प्रसन्नोऽस्मि वृणुष्व त्वं वरं च वरदर्षभात् ॥११
मद्दर्शनांतः संसार इति सत्यं ब्रवीमि ते
ततोऽहमब्रुवं कृष्णं पुलकोत्फुल्लविग्रहः ॥१२॥
त्वामहं द्रष्टुमिच्छामि चक्षुर्भ्यां मधुसूदन
यत्तत्सत्यं परं ब्रह्म जगज्ज्योतिं जगत्पतिम् ॥१३॥
वदंति वेदशिरसश्चाक्षुषं नाथमद्भुतम्
श्रीभगवानुवाच-
ब्रह्मणैवं पुरा पृष्टः प्रार्थितश्च यथा पुरा ॥१४॥
यदवोचमहं तस्मै तत्तुभ्यमपि कथ्यते
मामेके प्रकृतिं प्राहुः पुरुषं च तथेश्वरम् ॥१५॥
धर्ममेके धनं चैके मोक्षमेकेऽकुतोभयम्
शून्यमेके भावमेके शिवमेके सदाशिवम् ॥१६॥
अपरे वेदशिरसि स्थितमेकं सनातनम्
सद्भावं विक्रियाहीनं सच्चिदानंदविग्रहम् ॥१७॥
पश्याद्य दर्शयिष्यामि स्वरूपं वेदगोपितम्
ततोऽपश्यं भूपबालमहं कालांबुदप्रभम् ॥१८॥
गोपकन्यावृतं गोपं हसंतं गोपबालकैः
कदंबमूलआसीनं पीतवाससमद्भुतम् ॥१९॥
वनं वृंदावनं नाम नवपल्लवमंडितम्
कोकिलभ्रमरारावं मनोभव मनोहरम् ॥२०॥
नदीमपश्यं कालिंदीमिंदीवरदलप्रभाम्
गोवर्द्धनमथापश्यं कृष्णरामकरोद्धृतम् ॥२१॥
महेंद्रदर्पनाशाय गोगोपालसुखावहम्
गोपालमबलासंगमुदितं वेणुवादिनम् ॥२२॥
दृष्ट्वातिहृष्टो ह्यभवं सर्वभूषणभूषणम्
ततो मामाह भगवान्वृंदावनचरः स्वयम् ॥२३॥
यदिदं मे त्वया दृष्टं रूपं दिव्यं सनातनम्
निष्कलं निष्क्रियं शांतं सच्चिदानंदविग्रहम् ॥२४॥
पूर्णं पद्मपलाशाक्षं नातः परतरं मम
इदमेववदंत्येतेवेदाःकारणकारणम् ॥२५॥
सत्यंनित्यंपरानंदंचिद्घनंशाश्वतंशिवम्
नित्यां मे मथुरां विद्धि वनं वृंदावनं तथा ॥२६॥
यमुनां गोपकन्याश्च तथा गोपालबालकाः
ममावतारो नित्योऽयमत्र मा संशयं कृथाः ॥२७॥
ममेष्टा हि सदा राधा सर्वज्ञोऽहं परात्परः
सर्वकामश्च सर्वेशः सर्वानंदः परात्परः ॥२८॥
मयि सर्वमिदं विश्वं भाति मायाविजृंभितम्
ततोऽहमब्रुवं देवं जगत्कारणकारणम् ॥२९॥
काश्च गोप्यस्तु के गोपा वृक्षोऽयं कीदृशो मतः
वनं किं कोकिलाद्याश्च नदी केयं गिरिश्च कः ॥३०॥
कोऽसौ वेणुर्महाभागो लोकानंदैकभाजनम्
भगवानाह मां प्रीतः प्रसन्नवदनांबुजः ॥३१॥
गोप्यस्तु श्रुतयो ज्ञेया ऋचो वै गोपकन्यकाः
देवकन्याश्च राजेंद्र तपोयुक्ता मुमुक्षवः ॥३२॥
गोपाला मुनयः सर्वे वैकुंठानंदमूर्त्तयः
कल्पवृक्षः कदंबोऽयं परानंदैकभाजनम् ॥३३॥
वनमानंदकाख्यं हि महापातकनाशनम्
सिद्धाश्च साध्या गंधर्वाः कोकिलाद्या न संशयः ॥३४॥
केचिदानंदहृदयं साक्षाद्यमुनया तनुम्
अनादिर्हरिदासोऽयं भूधरो नात्र संशयः ॥३५॥
वेणुर्यः शृणुतं विप्रं तवापि विदितं तथा
द्विज आसीच्छांतमनास्तपः शांतिपरायणः ॥३६॥
नाम्ना देवव्रतोदांतः कर्मकांडविशारदः
स वैष्णवजनव्रातमध्यवर्त्ती क्रियापरः ॥३७॥
स कदाचन शुश्राव यज्ञेशोऽस्तीति भूपते
तस्य गेहमथाभ्यागाद्द्विजो मद्गतनिश्चयः ॥३८॥
स मद्भक्तः क्वचित्पूजां तुलसीदलवारिणा
कृतवांस्तद्गृहे किंचित्फलं मूलं न्यवेदयत् ॥३९॥
स्नानवारिफलं किंचित्तस्मै मत्या ददौ सुधीः
अश्रद्धया स्मितं कृत्वा सोऽप्यगृह्णाद्द्विजन्मनः ॥४०॥
तेन पापेन संजातं वेणुत्वमतिदारुणम्
तेन पुण्येन तस्याथ मदीय प्रियतां गतः ॥४१॥
अमुना सोपि राजेंद्र केतुमानिव राजते
युगांते तद्विष्णुपरो भूत्वा ब्रह्म समाप्स्यति ॥४२॥
अहो न जानंति नरा दुराशयाः पुरीं मदीयां परमां सनातनीम्
सुरेंद्र नागेंद्र मुनींद्र संस्तुतां मनोरमां तां मथुरां पुरातनीम् ॥४३॥
काश्यादयो यद्यपि संति पुर्यस्तासां तु मध्ये मथुरैव धन्या
यज्जन्ममौंजीव्रतमृत्युदाहैर्नृणां चतुर्द्धा विदधाति मुक्तिम् ॥४४॥
यदा विशुद्धास्तपआदिना जनाः शुभाशया ध्यानधना निरंतरम्
तदैव पश्यंति ममोत्तमां पुरीं न चान्यथा कल्पशतैर्द्विजोत्तमाः ॥४५॥
मथुरावासिनो धन्या मान्या अपि दिवौकसाम्
अगण्यमहिमानस्ते सर्व एव चतुर्भुजाः ॥४६॥
मथुरावासिनो ये तु दोषान्पश्यंति मानवाः
तेषु दोषं न पश्यंति जन्ममृत्युसहस्रजम् ॥४७॥
अधना अपि ते धन्या मथुरां ये स्मरंति ते
यत्र भूतेश्वरो देवो मोक्षदः पापिनामपि ॥४८॥
मम प्रियतमो नित्यं देवो भूतेश्वरः परः
यः कदापि मम प्रीत्यै न संत्यजति तां पुरीम् ॥४९॥
भूतेश्वरं यो न नमेन्न पूजयेन्न वास्मरेद्दुश्चरितो मनुष्यः
नैनां स पश्येन्मथुरां मदीयां स्वयंप्रकाशां परदेवताख्याम् ॥५०॥
न कथं मयि भक्तिं स लभते पापपूरुषः
यो मदीयं परं भक्तं शिवं संपूजयेन्नहि ॥५१॥
मन्मायामोहितधियः प्रायस्ते मानवाधमाः
भूतेश्वरं न नमंति न स्मरंति स्तुवंति ये ॥५२॥
बालकोऽपि ध्रुवो यत्र ममाराधनतत्परः
प्राप स्थानं परं शुद्धं यत्नयुक्तं पितामहैः ॥५३॥
तां पुरीं प्राप्य मथुरां मदीयां सुरदुर्लभाम्
खंजो भूत्वांधको वापि प्राणानेव परित्यजेत् ॥५४॥
वेदव्यासमहाभाग मा कृथाः संशयं क्वचित्
रहस्यं वेदशिरसां यन्मया ते प्रकाशितम् ॥५५॥
इमं भगवता प्रोक्तमध्यायं यः पठेच्छुचिः
शृणुयाद्वापि यो भक्त्या मुक्तिस्तस्यापि शाश्वती ॥५६॥
इति श्रीपद्मपुराणे पातालखंडे वृंदावनादिमथुरामाहात्म्य-
कथनंनाम त्रिसप्ततितमोऽध्यायः ॥७३॥
N/A
References : N/A
Last Updated : November 06, 2020
TOP