पातालखण्डः - अध्यायः २
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
शेष उवाच
अथ तद्दर्शनोत्कण्ठा विह्वलीकृतचेतसा
पुनः पुनः स्मृतो भ्राता भरतो धार्मिकाग्रणीः ॥१॥
उवाच च हनूमंतं बलवंतं समीरजम्
प्रस्फुरद्दशनव्याज चन्द्रकांतिहतांधकः ॥२॥
शृणु वीर हनूमंस्त्वं मद्गिरं भ्रातृनोदिताम्
चिरंतनवियोगेन गद्गदीकृतविह्वलाम् ॥३॥
गच्छ तं भ्रातरं वीर समीरणतनूद्भव
मद्वियोगकृशां यष्टिं वपुषो बिभ्रतं हठात् ॥४॥
यो वल्कलं परीधत्ते जटां धत्ते शिरोरुहे
फलानां भक्षणमपि न कुर्याद्विरहातुरः ॥५॥
परस्त्री यस्य मातेव लोष्टवत्कांचनं पुनः
प्रजाः पुत्रानिवोद्रक्षेद्बांधवो मम धर्मवित् ॥६॥
मद्वियोगजदुःखाग्निज्वालादग्धकलेवरम्
मदागमनसंदेश पयोवृष्ट्याशु सिंचतम् ॥७॥
सीतया सहितं रामं लक्ष्मणेन समन्वितम्
सुग्रीवादिकपींद्रैश्च रक्षोभिः सबिभीषणैः ॥८॥
प्राप्तं निवेदय सुखात्पुष्पकासनसंस्थितम्
येन मे सोऽनुजः शीघ्रं सुखमेति मदागमात् ॥९॥
इति श्रुत्वा ततो वाक्यं रघुवीरस्य धीमतः
जगाम भरतावासं नंदिग्रामं निदेशकृत् ॥१०॥
गत्वा स नंदिग्रामं तु मंत्रिवृद्धैः सुसंयतम्
भरतं भ्रातृविरहक्लिन्नं धीमान्ददर्श ह ॥११॥
कथयंतं मंत्रिवृद्धान्रामचंद्रकथानकम्
तदीय पदापाथोज मकरंदसुनिर्भरः ॥१२॥
नमश्चकार भरतं धर्मं मूर्तियुतं किल
विधात्रा सकलांशेन सत्त्वेनैव विनिर्मितम् ॥१३॥
तं दृष्ट्वा भरतः शीघ्रं प्रत्युत्थाय कृतांजलि
स्वागतं चेति होवाच रामस्य कुशलं वद ॥१४॥
इत्येवं वदतस्तस्य भुजो दक्षिणतोऽस्फुरत्
हृदयाच्च गतः शोको हर्षास्रैः पूरिताननः ॥१५॥
विलोक्य तादृशं भूपं प्रत्युवाच कपीश्वरः
निकटे हि पुरः प्राप्तं विद्धि रामं सलक्ष्मणम् ॥१६॥
रामागमनसंदेशामृतसिक्तकलेवरः
प्रापयद्धर्षपूरं हि सहस्रास्यो न वेद्म्यहम् ॥१७॥
जगाद मम तन्नास्ति यत्तुभ्यं दीयते मया
दासोऽस्मि जन्मपर्यंतं रामसंदेशहारकः ॥१८॥
वसिष्ठोऽपि गृहीत्वार्घ्यं मंत्रिवृद्धाः सुहर्षिताः
जग्मुस्ते रामचंद्रं च हनुमद्दर्शिताध्वना ॥१९॥
दृष्ट्वा दूरात्समायांतं रामचंद्रं मनोरमम्
पुष्पकासनमध्यस्थं ससीतं सहलक्ष्मणम् ॥२०॥
रामोऽपि दृष्ट्वा भरतं पादचारेण संगतम्
जटावल्कलकौपीन परिधानसमन्वितम् ॥२१॥
अमात्यान्भ्रातृवेषेण समवेषाञ्जटाधरान्
नित्यं तपः क्लिष्टतया कृशरूपान्ददर्श ह ॥२२॥
रामोऽपि चिंतयामास दृष्ट्वा वै तादृशं नृपम्
अहो दशरथस्यायं राजराजस्य धीमतः ॥२३॥
पुत्रः पदातिरायाति जटावल्कलवेषभृत्
न दुःखं तादृशं मेऽन्यद्वनमध्यगतस्य हि ॥२४॥
यादृशं मद्वियोगेन चैतस्य परिवर्त्तते
अहो पश्यत मे भ्राता प्राणात्प्रियतमः सखा ॥२५॥
श्रुत्वा मां निकटे प्राप्तं मंत्रिवृद्धैः सुहर्षितैः
द्रष्टुं मां भरतोऽभ्येति वसिष्ठेन समन्वितः ॥२६॥
इति ब्रुवन्नरपतिः पुष्पकान्नभसोंऽगणात्
बिभीषणहनूमद्भ्यां लक्ष्मणेन कृतादरः ॥२७॥
यानादवतताराशु विरहात्क्लिन्नमानसः
भ्रातर्भ्रातः पुनर्भ्रातर्भ्रातर्भ्रातर्वदन्मुहुः ॥२८॥
दृष्ट्वा समुत्तीर्णमिमं रामचंद्रं सुरैर्युतम्
भरतो भ्रातृविरहक्लिन्नं धीमान्ददर्श ह
हर्षाश्रूणि प्रमुंचंश्च दंडवत्प्रणनाम ह ॥२९॥
रघुनाथोऽपि तं दृष्ट्वा दंडवत्पतितं भुवि
उत्थाप्य जगृहे दोर्भ्यां हर्षालोकसमन्वितः ॥३०॥
उत्थापितोऽपि हि भृशं नोदतिष्ठद्रुदन्मुहुः
रामचंद्रपदांभोजग्रहणासक्तबाहुभृत् ॥३१॥
भरत उवाच
दुराचारस्य दुष्टस्य पापिनो मे कृपां कुरु
रामचंद्र महाबाहो कारुण्यात्करुणानिधे ॥३२॥
यस्ते विदेहजा पाणिस्पर्शं क्रूरममन्यत
स एव चरणो राम वने बभ्राम मत्कृते ॥३३॥
इत्युक्त्वाश्रुमुखो दीनः परिरभ्य पुनः पुनः
प्रांजलिः पुरतस्तस्थौ हर्षविह्वलिताननः ॥३४॥
रघुनाथस्तमनुजं परिष्वज्य कृपानिधिः
प्रणम्य च महामंत्रिमुख्यानापृच्छ्य सादरम् ॥३५॥
भरतेन समं भ्रात्रा पुष्पकासनमास्थितः
सीतां ददर्श भरतो भ्रातृपत्नीमनिंदिताम् ॥३६॥
अनसूयामिवात्रेः किं लोपामुद्रां घटोद्भुवः
पतिव्रतां जनकजाममन्यतननाम च ॥३७॥
मातः क्षमस्व यदघं मया कृतमबुद्धिना
त्वत्सदृश्यः पतिपराः सर्वेषां साधुकारिकाः ॥३८॥
जानक्यापि महाभागा देवरं वीक्ष्य सादरम्
आशीर्भिरभियुज्याथ समपृच्छदनामयम् ॥३९॥
विमानवरमारूढास्ते सर्वे नभसोंऽगणे
क्षणादालोकयांचक्रे निकटे स्वपितुः पुरीम् ॥४०॥
इति श्रीपद्मपुराणे पातालखंडे रामाश्वमेधे शेषवात्स्यायनसंवादे
रामराजधानीदर्शनोनाम द्वितीयोऽध्यायः ॥२॥
N/A
References : N/A
Last Updated : November 03, 2020
TOP