पातालखण्डः - अध्यायः १०४
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
ऋषय ऊचुः -
भूयो वद महाभाग रामचारित्रमद्भुतम्
राममाहात्म्यसर्वस्वं भक्तानां प्रीतिदायकम् ॥१॥
सूत उवाच-
अश्वमेधं क्रतुवरं कृत्वा दाशरथिर्यथा ॥२॥
प्रवृत्तो लोककृत्येषु शास्त्रकृत्येषु कोविदः
अयोध्यां गंतुकामेन शंकरेण महात्मना ॥३॥
पार्वत्या सह देवेन उषितः सरयूतटे
मुनयस्तं समभ्येत्य शंकरं विश्वरूपिणम् ॥४॥
कश्यपाद्या महात्मानः पप्रच्छुरमितौजसम्
स्वागतं ते मुनिश्रेष्ठ सभार्यः कुत आगतः ॥५॥
किमागमनकृत्यं ते कं देशं गंतुमुद्यतः
शंकर उवाच-
अहं शंभुरिति ख्यातो विप्रो हिमगिरिस्थितः ॥६॥
द्रष्टुं च राघवं गच्छे मम कार्यं महत्ततः
मामाह्वयति राजासौ पुराणश्रवणे रतः ॥७॥
आगच्छंतु भवंतोऽपि राघवः परितुष्यति
ततस्ते मुनयः शंभुर्ययू रामदिदृक्षया ॥८॥
तानागतान्वसिष्ठस्तु ज्ञात्वा रामाय चोक्तवान्
ततः सत्वरमुत्थाय निर्ययौ स पुरोहितः ॥९॥
अर्घ्यपाद्यादिकैस्सर्वान्पूजयामास तानृषीन्
गृहराजं ततः सर्वान्प्रावेशयदरिंदमः ॥१०॥
प्रत्येकमासनं दत्वा स्वागतोक्त्यासनस्थितान्
क्रमेण रघुशार्दूलः पूजयामास तानृषीन् ॥११॥
वाचा मधुरया प्रीणन्निदमाहासनस्थितान्
श्रीराम उवाच-
अद्य मे सफलं जन्म प्राप्तमद्य तपः फलम् ॥१२॥
अद्याभ्यासस्य विद्यानां फलकालोऽयमागतः
अद्य मे पितरस्तुष्टा राज्यं च सफलं मम ॥१३॥
अद्य मे सफलं वृत्तमद्य मे सफलं श्रुतम्
एवं वदंतं राजानं ब्राह्मणाः कश्यपादयः ॥१४॥
ऊचुः प्रियतरं वाक्यं रामं राजीवलोचनम्
ऋषय ऊचुः
अयं शंभुर्द्विजः प्राप्तः सर्वशास्त्रविशारदः ॥१५॥
वेदवेदांगतत्त्वज्ञः सर्वभूतहिते रतः
कैलासवासी सततं तपसे कृतनिश्चयः ॥१६॥
ब्रह्मणा ब्रह्मवर्चस्के तुल्यो ब्रह्मविदां वरः
हरिणा ब्रह्मवात्सल्ये प्रसादे शंकरोपमः ॥१७॥
एवंविधो महातेजाः शंभुर्ब्राह्मणपुंगवः
अष्टादशपुराणज्ञो मीमांसा न्यायकोविदः ॥१८॥
त्वद्भाग्यगौरवादेव प्राप्तोऽयं मुनिसत्तमः
त्वयाहूतो मुनिवरः कैलासादागतः प्रभो ॥१९॥
अतः पृच्छ महाभाग पुराणाख्यानमुत्तमम्
श्रोतुकामा वयं प्राप्तास्त्वामद्य रघुनंदन ॥२०॥
अंतं गतस्य वेदानां सर्वशास्त्रार्थवेदिनः
पुंसोऽश्रुतपुराणस्य न सम्यग्याति दर्शनम् ॥२१॥
सूत उवाच-
एवमुक्तो रघुश्रेष्ठो मुनिभिस्तत्त्वदर्शिभिः
प्रहर्षमतुलं लेभे पुराणश्रवणोत्सुकः ॥२२॥
श्रीराम उवाच-
लिगार्चनप्रकारं च लिंगमाहात्म्यमेव च
महेशनाममाहात्म्यं पूजामाहात्म्यमेव च ॥२३॥
नमस्कारस्य माहात्म्यं दृष्टिमाहात्म्यमेव च
जलदानस्य माहात्म्यं धूपदानस्य सत्तम ॥२४॥
दीपगंधादिदानस्य पुष्पमाहात्म्यमेव च
नानाख्यानेतिहासानां कथां पापप्रणाशिनीम् ॥२५॥
धर्मार्थकाममोक्षांश्च तदुपायांश्च सुव्रत
तत्सर्वं श्रोतुमिच्छामि त्वत्तो मुनिवरोत्तम ॥२६॥
शंभुरुवाच-
रामराम महाबाहो पुण्यवानसि राघव
राज्यासक्तस्य ते जाता पुराणश्रवणे रतिः ॥२७॥
स्यान्महत्सेवया राम पुण्यतीर्थनिषेवणात्
सा जिह्वा या शिवं गायेत्तच्चित्तं यत्तदर्प्पितम् ॥२८॥
तावेव केवलौ श्लाघ्यौ यौ तत्पूजाकरौ करौ
सुजन्मदेहमत्यर्थं तदेवाशेषजन्मसु ॥२९॥
यदेवोत्पुलकोभासि हर नामानुकीर्तनात्
कृतार्थोऽसि महाराज तत्प्रश्नानुगता मतिः ॥३०॥
अनंतरं समाजग्मुर्जांघिकाः सत्वरश्रमाः
तत्करात्पत्रिकां गृह्य पपाठ रघुसत्तमः ॥३१॥
मनसाऽचिंतयद्रामः कथमेतदभूदिति
रामं शंभुस्तदा प्राह देव्या ब्राह्मणवेषवान् ॥३२॥
किं चिंतयसि काकुत्स्थ मुनिष्वग्रे वसत्स्वपि
तद्वाक्यं राघवः श्रुत्वा पप्रच्छ मुनिपुंगवान् ॥३३॥
श्रीरामउवाच-
विभीषणः कथमसौ बद्धः शृंखलया नृभिः
मत्स्थापितं शिवं लिगं दृष्ट्वा रामेश्वरं त्वहो ॥३४॥
द्राविडैः कुटिलैर्दुष्टैरात्मना तद्विचार्यताम्
विचार्य मुनिवर्यास्ते नेशास्तज्ज्ञातुमल्पतः ॥३५॥
न जानीम इति प्राहू रामं रामस्तदाब्रवीत्
पुराणं वीक्ष्य विधिना तत्सर्वं ब्रूत सत्तमाः ॥३६॥
भवदज्ञानहेतुश्च विचार्यस्तदनंतरम्
किं किं पुराणं प्रेक्ष्यं स्याद्वर्जनीयं तथैव किम् ॥३७॥
प्रशस्तः कीदृशः श्लोकस्तदन्यः कीदृशो भवेत्
कीदृशेषु च कार्येषु कीदृशः पूजकस्तथा ॥३८॥
पूजा च कीदृशैर्भक्तैः कार्या निर्णयदर्शने
इति रामस्य वचनं श्रुत्वा ते द्विजसत्तमाः ॥३९॥
प्रत्यूचुस्तं रघुश्रेष्ठं चिंताव्याकुलमानसम्
न वक्तारो वरं राम वीक्षतां तु पुराणवित् ॥४०॥
तच्छ्रुत्वा राघवः शंभुं पप्रच्छ विनयान्वितः
सोपि तद्वाक्यमाकर्ण्य प्रत्युवाच महामतिः ॥४१॥
शंभुरुवाच-
पुराणजीवी पूजार्हः स्वशाखाध्ययनः शुचिः
मीमांसातत्त्वविज्ञानः श्रोत्रियोऽनृतदूषकः ॥४२॥
देवेषु च समस्तेषु समदृष्टिः शिवे रतः
शतरुद्रियजापी च साग्निकश्चातिवाचकः ॥४३॥
यजुर्वेदी विशेषेण पूजयेत्पुस्तकं सुधीः
श्रीतालपत्रलिखितं देवलिप्यन्वितं शुभम् ॥४४॥
बंधाद्यतिप्रपंचं यद्युगपत्प्रणवाक्षरम्
प्रागूर्द्ध्वंरेखयोः प्रांते प्रणवस्याग्रयोजिका ॥४५॥
रेखा भवेदेवमेका अकारस्तस्यपार्श्वतः
शिरोभागमुपक्रम्य सकोणाधः प्रलंबिनी ॥४६॥
आकारः स हि विज्ञेयः पट्टिकादक्षरेखया
वामे षड्वक्रबिंदूद्वा विकार इति कीर्तितः ॥४७॥
तस्य वामशिरोरेखा लंबिन्या ई उदाहृतः
सर्वाक्षरे शिरोरेखा अवक्रा प्रणवं विना ॥४८॥
तस्यां तु लंबरेखान्या तदंते चलवित्रवत्
उकारः स हि विख्यातो लवित्रद्वयतस्तदू ॥४९॥
एवमन्यानि सर्वाणि अक्षराण्याह भारती
लिप्यानयैव लिखितं पुराणं तु प्रशस्यस्ते ॥५०॥
ब्राह्मं पाद्मं वैष्णवं च मार्तंडं नारदेरितम्
मार्कंडेयमथाग्नेयं कौर्मं वामनमेव च ॥५१॥
गारुडं लैंगमाख्यातं स्कांदं मात्स्यं नृसिंहकम्
तथैव गदितं राम पुराणं कापिलं तथा ॥५२॥
वाराहं ब्रह्मवैवर्तं शकुनेषु प्रशस्यते
शैवं भागवतं दौर्गं भविष्योत्तरमेव च ॥५३॥
भविष्यं चोपसंज्ञानि त्वन्यानि च विवर्जयेत्
विमुच्य पुस्तकं रत्नपीठे निक्षिप्य संस्कृतम् ॥५४॥
धौतवस्त्रधरः स्नात्वा शुचिरक्रोधनोऽज्वरः
आदावात्मानमभ्यर्च्य कृत्वा संकल्पमेव च ॥५५॥
अंकुशं चाक्षसूत्रं च पाशं पुस्तकमेव च
धारयंतीं सितां ध्यायेत्प्रसन्नास्यां सरस्वतीम् ॥५६॥
गोक्षीरसदृशाकारं त्रिनेत्रं वृषवाहनम्
सहासवदनं शांतं शुक्लांबरधरं शिवम् ॥५७॥
हरिणं चाभयं चोर्द्ध्वबाहुयुग्मं किरीटिनम्
व्याख्यामुद्रा चं दक्षेधो वामहस्ते वरप्रदम् ॥५८॥
नानारत्नविभूषाढ्यं गिरिजार्द्धांबुजासनम्
बहुभिर्मुनिमुख्यैस्तु ध्यायमान पदांबुजम् ॥५९॥
मूर्तिमद्भिस्तथा वेदैः स्तूयमानं पुराणकैः
अन्यैः समस्तलोकैश्च संसेवितपदांबुजम् ॥६०॥
ध्यात्वैवं पूजकः सम्यगादौ पूजां समारभेत्
आपो वा इदमित्येतत्कलशस्याभिमंत्रणम् ॥६१॥
तज्जलं च गृहीत्वा च पात्रस्थमभिमंत्रयेत्
तत्सद्ब्रह्मेति मंत्रेण प्रशस्य प्रणवेन तु ॥६२॥
आत्मानं सर्वपात्राणि तत आवाहयेदिति
यद्वागिति तृ चेनैव भारती षोडशार्चनम् ॥६३॥
पुरुषसूक्तेन वा कुर्याद्गायत्र्या वा समर्चयेत्
ॐ नमो भगवते अमुक पुराणेति पुराणमर्चयेत् ॥६४॥
कांडादिति हि मंत्रेण दूर्वामानीय पूजयेत्
ॐ नमो भगवत्यै दूर्वायै इति ॥६५॥
सलोकपाल पूजा स्यादथ कन्या समर्चनम्
वत्सरात्पंचकादूर्द्ध्वं दशवर्षादधः शुभाः ॥६६॥
अनुत्पन्नऋतुर्वापि तां प्रयत्नेन पूजयेत्
गंधपुष्पाक्षतैर्धूपैर्दीपतांबूलभूषणैः ॥६७॥
पाठयेदप्यमुं मंत्रं पूजकः कन्यकामिमाम् ॥६८॥
सत्यं ब्रूहि प्रियं ब्रूहि भगवति सरस्वति नमस्ते नमस्त इति ॥६९॥
गायत्र्यानुक्रमार्थात्तु दूर्वायुग्मं तु कारयेत्
सन्निधौ पुस्तकस्याधः सहस्रपरमेत्यृचा ॥७०॥
दूर्वायुग्मत्रयं दद्यात्तस्या हस्ते विचक्षणः
सा प्रक्षिपेत्पुस्तसंधौ शलाकात्रयमन्वनु ॥७१॥
विसृज्यतां पुनर्दद्याच्छिवाभ्यां नम इत्यथ
पत्रयोर्मध्यमः श्लोकः कार्यसिद्धेर्हि सूचकः ॥७२॥
पूर्वपत्रे समाप्तिः स्याच्छ्लोकस्य यदि राघव
परपत्रे पठेच्छ्लोकं विविच्यार्थमुदीरयेत् ॥७३॥
शनैःशनैः पठेत्प्राज्ञो व्याख्यासेच्च शनैःशनैः
त्वरेह न हि कर्तव्या कुप्यति त्वरया तु गीः ॥७४॥
घटिकायास्तु पादः स्यादत्वरास्यात्ततोधिका
त्वरयेन्न च वक्तारं ज्ञातव्यांशमनुद्विजम् ॥७५॥
विविच्य पाठं श्लोकस्य निश्चित्यार्थं च मानसे
प्रतीपं तन्न वक्तव्यं विविच्य रघुनंदन ॥७६॥
यदि युक्तमयुक्तं वा श्लोकमन्यं पठेदसौ
पुस्तकस्थं च हित्वैव पूजकः स द्विजो यदि ॥७७॥
तत्तथैव हि विज्ञेयं विसंवादो न शस्यते
दैवागतो हि स श्लोको दैवं हि बलवत्तरम् ॥७८॥
उपश्रुतिषु यद्वच्च नापराधो द्विजस्य तु
विस्मयो न च कर्तव्यो दैवस्य कुटिला गतिः ॥७९॥
यत्तत्पदविपर्यासे पत्रे चोपरिवारिणि
तमादेशं तिरस्कृत्य द्वितीयं तु पठेदतः ॥८०॥
ततस्तृतीयं पाठ्यं स्यात्ततः कार्यं विवेचनम्
अविसर्गांतपूर्वास्ते पवर्गेतरपंचमाः ॥८१॥
स्तुतिलिड्वर्जितः श्लोकः शकुनेषु प्रशस्यते
अध्यायादिः समाप्तिश्च वृथा पत्रं वृथा लिपिः ॥८२॥
उक्तानुवचनं चैव द्व्युपस्तुतमथैव च
दग्धपत्रं नष्टलिपिः संदिग्धाक्षरमेव च ॥८३॥
एतानि शकुने नित्यं वर्जनीयानि पंडितैः
प्रश्नो हि द्विविधो ज्ञेयो दीप्तशांत प्रभेदतः ॥८४॥
शांतं च द्विविधं ज्ञेयमुत्पत्तिस्थितिवृद्धितः
तत्र शांतं प्रशस्तं स्याल्लक्षितं पूर्वलक्षणैः ॥८५॥
कार्यभेदास्तु वर्ण्यंते केचिन्मर्त्योपयोगिनः
कस्यचित्कार्यमादाय कश्चित्प्रष्टा भवत्यपि ॥८६॥
स करोति तदा प्रश्नं समेत्य स्मरतेऽत्र किम्
स पुनर्धार्य पत्रं तत्तस्मिन्पत्रं प्रशस्यते ॥८७॥
अथवा तत्क्षमोपेतं वैराग्यं परमेव च
यतः कुतश्चिद्दृष्टस्तु स्तुतिपादकमेव च ॥८८॥
परिहृत्य परं चापि तस्मिन्नर्थे शुभावहम्
मृतो गृह्णाति वागर्थमिति प्रश्नोऽशुभप्रदः ॥८९॥
विवादे विजयप्रश्ने जयद्योतकमिष्यते
सृष्टिरप्यत्र शस्ता स्यात्क्रूरायां क्लेशतो जयः ॥९०॥
प्रशांतायामुपायैस्तु मिश्रायां विड्वरो भवेत्
पुरादिवर्णनं यत्तु मध्यमं यदि चोत्तमम् ॥९१॥
कलिसंभावनायास्तु शृंगारस्योपवर्णने
राज्यनिर्वाहचिंतायां राज्यलिंगंशुभावहम् ॥९२॥
यस्यापि यादृशं योग्यं विचार्य तादृशं बुधैः
स्तुतिवैराग्ययोः कार्यं विलयः परिकीर्तितः ॥९३॥
कार्याल्पसिद्धिः स्खलितेन च निर्वाहमृच्छति
तस्यान्यार्थस्यान्यभावो राम शांतिविचारणे ॥९४॥
विसर्गांतश्च पूर्वार्द्ध विपर्यासो भविष्यतः
संकल्पितान्यथाभावो ह्यध्यायस्य समापने ॥९५॥
कांडादेस्तु समाप्तौ तु स्यात्तत्कार्यविनाशनम्
तस्मादेतादृशे दोषे शकुनस्य विपर्ययः ॥९६॥
क्षुते पुस्तकपाते च त्वाहते मस्तकादिषु
वक्ता वैमाननं याति ततः शकुननाशनम् ॥९७॥
तस्मादेतादृशे दोषे शकुनं परिवर्जयेत्
उपमायां भवेद्राम कार्याभासो न वस्तुतः ॥९८॥
संतानं भोन्यत्र चोक्ता सृष्टिर्मध्यफलप्रदा
स्तुतिः प्रशस्ता कुत्रापि गुणवत्कार्यनिर्णये ॥९९॥
विवाहे चौषधे दाने व्यवहारे कृषौ तथा
यथार्था च स्तुती राम निर्वाहेऽपि न दूषणम् ॥१००॥
N/A
References : N/A
Last Updated : November 13, 2020
TOP