पातालखण्डः - अध्यायः ७७
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
पार्वत्युवाच-
विस्तरेण समाचक्ष्व नामार्थपदगौरवम्
ईश्वरस्य स्वरूपं च तत्स्थानानां विभूतयः ॥१॥
तद्विष्णोः परमं धाम व्यूहभेदास्तथा हरेः
निर्वाणाख्याहि तत्त्वेन मम सर्वं सुरेश्वर ॥२॥
ईश्वर उवाच-
सारे वृंदावने कृष्णं गोपीकोटिभिरावृतम्
तत्र गंगा पराशक्तिस्तत्स्थमानंदकाननम् ॥३॥
नाना सुकुसुमामोदसमीरसुरभीकृतम्
कलिंदतनया दिव्यतरंगरागशीतलम् ॥४॥
सनकाद्यैर्भागवतैः संसृष्टं मुनिपुंगवैः
आह्लादिमधुरारावैर्गोवृंदैरभिमंडितम् ॥५॥
रम्यस्रग्भूषणोपेतैर्नृत्यद्भिर्बालकैर्वृतम्
तत्र श्रीमान्कल्पतरुर्जांबूनदपरिच्छदः ॥६॥
नानारत्नप्रवालाढ्यो नानामणिफलोज्ज्वलः
तस्य मूले रत्नवेदी रत्नदीधितिदीपिता ॥७॥
तत्र त्रयीमयं रत्नसिंहासनमनुत्तमम्
तत्रासीनं जगन्नाथं त्रिगुणातीतमव्ययम् ॥८॥
कोटिचंद्रप्रतीकाशं कोटिभास्करभास्वरम्
कोटिकंदर्पलावण्यं भासयन्तं दिशोदश ॥९॥
त्रिनेत्रं द्विभुजं गौरं तप्तजांबूनदप्रभम्
श्लिष्यमाणमंगनाभिः सदामानं च सर्वशः ॥१०॥
ब्रह्माद्यैः सनकाद्यैश्च ध्येयं भक्तवशीकृतम्
सदाघूर्णितनेत्राभिर्नृत्यंतीभिर्महोत्सवैः ॥११॥
चुंबंतीभिर्हसंतीभिः श्लिष्यंतीभिर्मुहुर्मुहुः
अवाप्तगोपीदेहाभिः श्रुतिभिः कोटिकोटिभिः ॥१२॥
तत्पादांबुजमाध्वीकचित्ताभिः परितो वृतम्
तासां तु मध्ये या देवी तप्तचामीकरप्रभा ॥१३॥
द्योतमाना दिशः सर्वाः कुर्वती विद्युदुज्ज्वलाः
प्रधानं या भगवती यया सर्वमिदं ततम् ॥१४॥
सृष्टिस्थित्यंतरूपा या विद्या विद्यात्रयीपरा
स्वरूपा शक्तिरुपा च मायारूपा च चिन्मयी ॥१५॥
ब्रह्मविष्णुशिवादीनां देहकारणकारणम्
चराचरं जगत्सर्वं यन्मायापरिरंभितम् ॥१६॥
वृंदावनेश्वरी नाम्ना राधा धात्रानुकारणात्
तामालिंग्य वसंतं तं मुदा वृंदावनेश्वरम् ॥१७॥
अन्योन्यचुंबनाश्लेष मदावेशविघूर्णितम्
ध्यायेदेवं कृष्णदेवं स च सिद्धिमवाप्नुयात् ॥१८॥
मंत्रराजमिमं गुह्यं तस्य मंत्रं च मंत्रवित्
यो जपेच्छृणुयाद्वापि स महात्मा सुदुर्ल्लभः ॥१९॥
राधिंका चित्ररेखा च चंद्रा मदनसुंदरी
श्रीप्रिया श्रीमधुमती शशिरेखा हरिप्रिया ॥२०॥
सुवर्णशोभा संमोहा प्रेमरोमांचराजिता
वैवर्ण्यस्वेदसंयुक्ता भावासक्ता प्रियंवदा ॥२१॥
सुवर्णमालिनी शांता सुरासरसिका तथा
सर्वस्त्री जीवना दीनवत्सला विमलाशया ॥२२॥
निपीतनामपीयूषा सा राधा परिकीर्तिता
सुदीर्घस्मितसंयुक्ता तप्तचामीकरप्रभा ॥२३॥
मूर्च्छत्प्रेमनदी राधा वरणा लोचनांजना
मायामात्सर्यसंयुक्ता दानसाम्राज्य जीवना ॥२४॥
सुरतोत्सव संग्रामा चित्ररेखा प्रकीर्तिता
गौरांगी नातिदीर्घा च सदा वादनतत्परा ॥२५॥
दैन्यानुरागनटना मूर्च्छारोमांचविह्वला
हरिदक्षिणपार्श्वस्था सर्वमंत्रप्रिया तथा ॥२६॥
अनंगलोभमाधुर्या चंद्रा सा परिकीर्तिता
सलीलमंथरगतिर्मंजुमुद्रित लोचना ॥२७॥
प्रेमधारोज्ज्वलाकीर्णा दलितांजन शोभना
कृष्णानुरागरसिका रासध्वनिसमुत्सुका ॥२८
अहंकारसमायुक्ता मुखनिंदितचंद्रमाः
मधुरालापचतुरा जितेंद्रियशिरोमणिः ॥२९॥
सुंदरस्मितसंयुक्ता सा वै मदनसुंदरी
विविक्तरासरसिका श्यामा श्याममनोहरा ॥३०॥
प्रेम्णा प्रेमकटाक्षेण हरेश्चित्तविमोहनी
जितेंद्रिया जितक्रोधा सा प्रिया परिकीर्तिता ॥३१॥
सुतप्तस्वर्णगौरांगी लीलागमनसुंदरी
स्मरोत्थ प्रेमरोमांच वैचित्रमधुराकृतिः ॥३२॥
सुंदरस्मितसंयुक्त मुखनिंदितचंद्रमाः
मधुरालापचतुरा जितेंद्रियशिरोमणिः ॥३३॥
कीर्तिता सा मधुमती प्रेमसाधनतत्परा
संमोहज्वररोमांच प्रेमधारा समन्विता ॥३४॥
दानधूलिविनोदा च रासध्वनि महानटी
शशिरेखा च विज्ञेया गोपालप्रेयसी सदा ॥३५॥
कृष्णात्मा सोत्तमा श्यामा मधुपिंगललोचना
तत्पादप्रेमसंमोहात्क्वचित्पुलकचुंबिता ॥३६॥
शिवकुंडे शिवानंदा नंदिनी देहिकातटे
रुक्मिणी द्वारवत्यां तु राधा वृंदावने वने ॥३७॥
देवकी मथुरायां तु जाता मे परमेश्वरी
चंद्रकूटे तथा सीता विंध्ये विंध्यनिवासिनी ॥३८॥
वाराणस्यां विशालाक्षी विमला पुरुषोत्तमे
वृंदावनाधिपत्यं च दत्तं तस्यै प्रसीदता ॥३९॥
कृष्णेनान्यत्र देवी तु राधा वृंदावने वने
नित्यानंदतनुः शौरिर्योऽशरीरीति भाष्यते ॥४०॥
वाय्वग्निनाकभूमीनामंगाधिष्ठितदेवता
निरूप्यते ब्रह्मणोऽपि तथा गोविंदविग्रहः ॥४१॥
सेंद्रियोऽपि यथा सूर्यस्तेजसा नोपलक्ष्यते
तथा कांतियुतः कृष्णः कालं मोहयति ध्रुवम् ॥४२॥
न तस्य प्राकृती मूर्तिर्मेदोमांसास्थिसंभवा
योगी चैवेश्वरश्चान्यः सर्वात्मा नित्यविग्रहः ॥४३॥
काठिन्यं देवयोगेन करकाघृतयोरिव
कृष्णस्यामिततत्त्वस्य पादपृष्ठं न देवता ॥४४॥
वृंदावनरजोवृंदे तत्र स्युर्विष्णुकोटयः
आनंदकिरणे वृंदव्याप्तविश्वकलानिधिः ॥४५॥
गुणात्मतात्मनि यथा जीवास्तत्किरणांगकाः
भुजद्वयवृतः कृष्णो न कदाचिच्चतुर्भुजः ॥४६॥
गोप्यैकया वृतस्तत्र परिक्रीडति सर्वदा
गोविंद एव पुरुषो ब्रह्माद्याः स्त्रिय एव च ॥४७॥
तत एव स्वभावोयंऽप्रकृतेर्भाव ईश्वरः
पुरुषः प्रकृतिश्चाद्यौ राधावृंदावनेश्वरौ ॥४८॥
प्रकृतेर्विकृतं सर्वं विना वृंदावनेश्वरम् ॥४९॥
समुद्भवेनैव समुद्भवेदिदं भेदं गतं तस्य विनाशतो हि
स्वर्णस्य नाशो न हि विद्यते तथा मत्स्यादिनाशेऽपि न कृष्णविच्युतिः ॥५०॥
त्रिगुणादिप्रपंचोऽयं वृंदावनविहारिणः
ऊर्म्मीवाब्धेस्तरंगस्य यथाब्धिर्नैव जायते ॥५१॥
न राधिका समा नारी न कृष्णसदृशः पुमान्
वयः परं न कैशोरात्स्वभावः प्रकृतेः परः ॥५२॥
ध्येयं कैशोरकं ध्येयं वनं वृंदावनं वनम्
श्याममेव परं रूपमादिदेवं परो रसः ॥५३॥
बाल्यं पंचमवर्षांतं पौगंडं दशमावधि
अष्टपंचककैशोरं सीमा पंचदशावधि ॥५४॥
यौवनोद्भिन्नकैशोरं नवयौवनमुच्यते
तद्वयस्तस्य सर्वस्वं प्रपंचमितरद्वयः ॥५५॥
बाल्यपौगंडकैशोरं वयो वंदे मनोहरम्
बालगोपालगोपालं स्मरगोपालरूपिणम् ॥५६॥
वंदे मदनगोपालं कैशोराकारमद्भुतम्
यमाहुर्यौवनोद्भिन्न श्रीमन्मदनमोहनम् ॥५७॥
अखंडातुलपीयूष रसानंदमहार्णवम्
जयति श्रीपतेर्गूढं वपुः कैशोररूपिणः ॥५८॥
एकमप्यव्ययं पूर्वं बल्लवीवृंदमध्यगम्
ध्यानगम्यं प्रपश्यंति रुचिभेदात्पृथग्धियः ॥५९॥
यन्नखेंदुरुचिर्ब्रह्म ध्येयं ब्रह्मादिभिः सुरैः
गुणत्रयमतीतं तं वंदे वृंदावनेश्वरम् ॥६०॥
वृंदावनपरित्यागो गोविंदस्य न विद्यते
अन्यत्र यद्वपुस्तत्तु कृत्रिमं तन्न संशयः ॥६१॥
सुलभं व्रजनारीणां दुर्ल्लभं तन्मुमुक्षुणाम्
तं भजे नंदसूनुं यन्नखतेजः परं मनुः ॥६२॥
पार्वत्युवाच
भुक्तिमुक्तिस्पृहा यावत्पिशाची हृदि वर्त्तते
तावत्प्रेमसुखस्यात्र कथमभ्युदयो भवेत् ॥६३॥
ईश्वर उवाच-
साधुपृष्टं त्वया भद्रे यन्मे मनसि वर्त्तते
तत्सर्वं कथयिष्यामि सावधाना निशामय ॥६४॥
स्मृत्वा गुणान्स्मरन्नाम गानं वा मनरंजनम्
बोधयत्यात्मनात्मानं सततं प्रेम्णि लीयते ॥६५॥
इति श्रीपद्मपुराणे पातालखंडे वृंदावनमाहात्म्ये पार्वतीशिवसंवादे श्रीकृष्णरूपवर्णनंनाम सप्तसप्ततितमोऽध्यायः ॥७७॥
N/A
References : N/A
Last Updated : November 06, 2020
TOP