संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ८२

पातालखण्डः - अध्यायः ८२

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शिव उवाच-
अथ दीक्षाविधिं वक्ष्ये शृणु नारद तत्त्वतः
श्रवणादेव मुच्येत विना तस्य विधानतः ॥१॥
आविरंच्याज्जगत्सर्वं विज्ञाय नश्वरं बुधः
आध्यात्मिकादि त्रिविध दुःखमेवानुभूय च ॥२॥
अनित्यत्वाच्च सर्वेषां सुखानां मुनिसत्तम
दुःखपक्षे विनिक्षिप्य तानि तेभ्यो विवर्जितः ॥३॥
विरज्य संसृतेर्हानौ साधनानि विचिंतयेत्
अनुत्तमसुखस्यापि संप्राप्तौ भृशनिर्वृतः ॥४॥
नराणां दुष्करत्वं हि विज्ञाय च महामतिः
भृशमार्त्तस्ततो विप्र मां गुरुं शरणं व्रजेत् ॥५॥
शांतो विमत्सरः कृष्णे भक्तोऽनन्यप्रयोजनः
अनन्यसाधनः श्रीमान्कामलोभविवर्जितः ॥६॥
श्रीकृष्णरसतत्त्वज्ञः कृष्णमंत्रविदां वरः
कृष्णमंत्राश्रयो नित्यं मंत्रभक्तः सदा शुचिः ॥७॥
सद्धर्मशासकोनित्यं सदाचारनियोजकः
संप्रदायी कृपापूर्णो विरागी गुरुरुच्यते ॥८॥
एवमादिगुणः प्रायः शुश्रूषुर्गुरुपादयोः
गुरौ नितांतभक्तश्च मुमुक्षुः शिष्य उच्यते ॥९॥
यत्साक्षात्सेवनं तस्य प्रेम्णा भागवतो भवेत्
स मोक्षः प्रोच्यते प्राज्ञैर्वेदवेदांगवेदिभिः ॥१०॥
आश्रित्य स्वगुरोः पादौ निजवृत्तं निवेदयेत्
स संदेहानपाकृत्य बोधयित्वा पुनः पुनः ॥११॥
स्वपादप्रणतं शांतं शुश्रूषुं निजपादयोः
अतिहृष्टमनाः शिष्यं मनुमध्यापयेत्परम् ॥१२॥
चंदनेन मृदा वापि विलिखेद्बाहुमूलयोः
वामदक्षिणयोर्विप्र शंखचक्रे यथाक्रमम् ॥१३॥
ऊर्द्ध्वपुंड्रं ततः कुर्याद्भालादिषु विधानतः
ततोमंत्रद्वयं तस्य दक्षकर्णे विनिर्दिशेत् ॥१४॥
मंत्रार्थं च वदेत्तस्मै यथावदनुपूर्वशः
दासशब्दयुतं नाम धार्यं तस्य प्रयत्नतः ॥१५॥
ततोऽतिभक्त्या सस्नेहं वैष्णवान्भोजयेद्बुधः
श्रीगुरुं पूजयेच्चापि वस्त्रालंकरणादिभिः ॥१६॥
सर्वस्वं गुरवे दद्यात्तदर्द्धं वा महामुने
स्वदेहमपि निक्षिप्य गुरौ स्थेयमकिंचनैः ॥१७॥
य एतैः पंचभिर्विद्वान्संस्कारैः संस्कृतो भवेत्
दास्यभागी स कृष्णस्य नान्यथा कल्पकोटिभिः ॥१८॥
अंकनं चोर्द्ध्वपुंड्रश्च मंत्रो नामविधारणम्
पंचमो याग इत्युक्ताः संस्काराः पूर्वसूरिभिः ॥१९॥
अंकनं शंखचक्राद्यैः सच्छिद्रं पुंड्रमुच्यते
दासशब्दयुतं नाममंत्रो युगलसंज्ञकः ॥२०॥
गुरुवैष्णवयोः पूजा याग इत्यभिधीयते
एते परमसंस्कारा मया ते परिकीर्तिताः ॥२१॥
अथ तुभ्यं प्रपन्नानां धर्मान्वक्ष्यामि नारद
यानास्थाय गमिष्यंति हरिधाम नराः कलौ ॥२२॥
इत्थं गुरोर्लब्धमंत्रो गुरुभक्तिपरायणः
सेवमानो गुरुं नित्यं तत्कृपां भावयेत्सुधीः ॥२३॥
सतां धर्मां स्ततः शिक्षेत्प्रपन्नानां विशेषतः
स्वेष्टदेवधिया नित्यं वैष्णवान्परितोषयेत् ॥२४॥
ताडनं भर्त्सनं कामिभोग्यत्वेन यथा स्त्रियः
गृह्णंति वैष्णवानां च तत्तद्ग्राह्यं तथा बुधैः ॥२५॥
ऐहिक्यामुष्मिकी चिंता नैव कार्या कदाचन
ऐहिकं तु सदा भाव्यं पूर्वाचरितकर्मणा ॥२६॥
आमुष्मिकं तथा कृष्णः स्वयमेव करिष्यति
अतो हि तत्कृते त्याज्यः प्रयत्नः सर्वथा नरैः ॥२७॥
सर्वोपायपरित्यागः कृष्णीयात्मतयार्चनम्
सुचिरं प्रोषिते कांते यथा पतिपरायणा ॥२८॥
प्रियानुरागिणी दीना तस्यसंगैककांक्षिणी
तद्गुणान्भावयेन्नित्यं गायत्यपि शृणोति च ॥२९॥
श्रीकृष्णगुणलीलादि स्मरणादि तथाचरेत्
न पुनः साधनत्वेन कार्यं तत्तु कदाचन ॥३०॥
चिरं प्रोष्यागतं कांतं प्राप्य कांतधिया यथा
चुंबंती वा श्लिष्यंतीव नेत्रांते न पिबंत्यपि ॥३१॥
ब्रह्मानंदगतेवाशु सेवते परया मुदा
श्रीमदर्चावतारेण तथा परिचरेद्धरिम् ॥३२॥
अनन्यशरणो नित्यं तथैवानन्यसाधनः
अनन्यसाधनार्थत्वात्स्यादनन्य प्रयोजनः ॥३३॥
नान्यं च पूजयेद्देवं न नमेत्तं स्मरेन्न च
न च पश्येन्न गायेच्च न च निंदेत्कदाचन ॥३४॥
नान्योच्छिष्टं च भुंजीत नान्यशेषं च धारयेत्
अवैष्णवानां संभाषा वंदनादि विवर्जयेत् ॥३५॥
ईशवैष्णवयोर्निंदां शृणुयान्न कदाचन
कर्णौ पिधाय गंतव्यं शक्तौ दंडं समाचरेत् ॥३६॥
आश्रित्य चातकीं वृत्तिं देहपातावधि द्विज
द्वयस्यार्थं भावयित्वा स्थेयमित्येव मे मतिः ॥३७॥
सरः समुद्र नद्यादीन्विहाय चातको यथा
तृषितो म्रियते वापि याचते वा पयोधरम् ॥३८॥
एवमेव प्रयत्नेन साधनानि विचिंतयेत्
स्वेष्टदेवःसदायाच्योगतिस्त्वंमेभवेरिति ॥३९॥
स्वेष्टदेव तदीयानां गुरोरपि विशेषतः
आनुकूल्ये सदा स्थेयं प्रातिकूल्यं विवर्जयेत् ॥४०॥
सकृत्प्रपन्नो वक्ष्यामि कल्याणगुणतां तयोः
विचिंत्य विश्वसेदेतौ मामिमावुद्धरिष्यतः ॥४१॥
संसारसागरान्नाथ मित्र पुत्र गृहा कुलात्
गोप्तारौ मे युवामेव प्रपन्नभयभंजनौ ॥४२॥
योहं ममास्ति यत्किंचिदिह लोके परत्र च
तत्सर्वं भवतोरद्य चरणेषु समर्चितम् ॥४३॥
अहमस्म्यपराधानामालयस्त्यक्त साधनः
अगतिश्च ततो नाथौ भवंतावेव मे गतिः ॥४४॥
तवास्मि राधिकाकांत कर्मणा मनसा गिरा
कृष्णकांते तवैवास्मि युवामेव गतिर्मम ॥४५॥
शरणं वां प्रपन्नोऽस्मि करुणानिकराकरौ
प्रसादं कुरु तं दास्यं मयि दुष्टेऽपराधिनि ॥४६॥
इत्येवं जपता नित्यं स्थातव्यं पद्यपंचकम्
अचिरादेव तद्दास्यमिच्छता मुनिसत्तम ॥४७॥
बाह्यधर्मा मया ह्येते संक्षेपेणोपवर्णिताः
आंतरः परमो धर्मः प्रपन्नानामथोच्यते ॥४८॥
कृष्णप्रिया सखीभावं समाश्रित्य प्रयत्नतः
तयोः सेवां प्रकुर्वीत दिवानक्तमतंद्रितः ॥४९॥
उक्तो मंत्रस्तदंगानि तथा तस्याधिकारिणः
तद्धर्माश्च तथा तेभ्यः फलं मंत्रस्य नारद ॥५०॥
अनुतिष्ठ त्वमप्येतत्तयोर्दास्यमवाप्स्यसि
स्वाधिकारक्षये विप्र संदेहो नात्र कश्चन ॥५१॥
सकृन्मात्रप्रपन्नाय तवास्मीति च याचते
निजदास्यं हरिर्दद्यान्न मेऽत्रास्ति विचारणा ॥५२॥
अत्र ते वर्णयिष्यामि रहस्यं परमाद्भुतम्
श्रुतपूर्वं मया कृष्णात्साक्षाद्भगवतः परम् ॥५३॥
एष ते कथितो धर्म आंतरो मुनिसत्तम
गुह्यादेष गुह्यतमो गोपनीयः प्रयत्नतः ॥५४॥
मंत्ररत्नमहं पूर्वं जपन्कैलासमूर्द्धनि
ध्यायन्नारायणं देवमवसं गहने वने ॥५५॥
ततस्तु भगवांस्तुष्टः प्रादुरास ममाग्रतः
व्रियतां वर इत्युक्ते मयाप्युद्घाट्य लोचने ॥५६॥
दृष्टो देवःप्रिया सार्द्धं संस्थितो गरुडोपरि
प्रणिपत्यावोचमहं वरदं कमलापतिम् ॥५७॥
यद्रूपं ते कृपासिंधो परमानंददायकम्
सर्वानंदाश्रयं नित्यं मूर्तिमत्सर्वतोऽधिकम् ॥५८॥
निर्गुणं निष्क्रियं शांतं यद्ब्रह्मेति विदुर्बुधाः
तदहं द्रष्टुमिच्छामि चक्षुर्भ्यां परमेश्वर ॥५९॥
ततो मामाह भगवान्प्रपन्नं कमलापतिः
तदद्य द्रक्ष्यसे रूपं यत्ते मनसि कांक्षितम् ॥६०॥
यमुना पश्चिमे तीरे गच्छ वृंदावनं मम
इत्युक्त्वांतर्दधे देवः प्रियासार्द्धं जगत्पतिः ॥६१॥
अहमप्यागतस्तर्हि यमुनायास्तटं शुभम्
तत्र कृष्णमपश्यं च सर्वदेवेश्वरेश्वरम् ॥६२॥
गोपवेषधरं कांतं किशोरवयसान्वितम्
प्रियास्कंधे सुविन्यस्त वामहस्तं मनोहरम् ॥६३॥
हसंतं हासयतं तां मध्ये गोपीकदंबके
स्निग्धमेघसमाभासं कल्याणगुणमंदिरम् ॥६४॥
प्रहस्य च ततः कृष्णो मामाहामृतभाषणः
अहं ते दर्शनं यातो ज्ञात्वा रुद्र तवेप्सितम् ॥६५॥
यदद्य मे त्वया दृष्टमिदं रूपमलौकिकम्
घनीभूतामलप्रेम सच्चिदानंदविग्रहम् ॥६६॥
नीरूपं निर्गुणं व्यापि क्रियाहीनं परात्परम्
वदंत्युपनिषत्संघा इदमेव ममानघम् ॥६७॥
प्रकृत्युत्थगुणाभावादनंतत्वात्तथेश्वरम्
असिद्धत्वान्मद्गुणानां निर्गुणं मां वदंति हि ॥६८॥
अदृश्यत्वान्ममैतस्य रूपस्य चर्मचक्षुषा
अरूपं मां वदंत्येते वेदाः सर्वे महेश्वर ॥६९॥
व्यापकत्वाच्चिदंशेन ब्रह्मेति च विदुर्बुधाः
अकर्तृत्वात्प्रपंचस्य निष्क्रियं मां वदंति हि ॥७०॥
मायागुणैर्यतोमेंऽशा कुर्वंति सर्जनादिकम्
न करोमि स्वयं किंचित्सृष्ट्यादिकमहं शिव ॥७१॥
अहमासां महादेव गोपीनां प्रेमविह्वलः
क्रियांतरं न जानामि नात्मानमपि नारद ॥७२॥
विहराम्यनया नित्यमस्याः प्रेमवशीकृतः
इमां तु मत्प्रियां विद्धि राधिकां परदेवताम् ॥७३॥
अस्याश्च परितः पश्य सख्यः शतसहस्रशः
नित्याः सर्वा इमा रुद्र यथाहं नित्यविग्रहः ॥७४॥
गोपा गावो गोपिकाश्च सदा वृंदावनं मम
सर्वमेतन्नित्यमेव चिदानंदरसात्मकम् ॥७५॥
इदमानंदकंदाख्यं विद्धि वृंदावनं मम
यस्मिन्प्रवेशमात्रेण न पुनः संसृतिं विशेत् ॥७६॥
मद्वनं प्राप्य यो मूढः पुनरन्यत्र गच्छति
स आत्महा भवेदेव सत्यं सत्यं मयोदितम् ॥७७
वृंदावनं परित्यज्य नैव गच्छाम्यहं क्वचित्
निवसाम्यनया सार्द्धमहमत्रैव सर्वदा ॥७८॥
इत्येवं सर्वमाख्यातं यत्ते रुद्र हृदि स्थितम्
कथयस्व ममेदानीं किमन्यच्छ्रोतुमिच्छसि ॥७९॥
ततस्तमब्रवं देवमहं च मुनिसत्तम
ईदृशस्त्वं कथं लभ्यस्तमुपायं वदस्व मे ॥८०॥
ततो मामाह भगवान्साधु रुद्र तवोदितम्
अतिगुह्यतमं ह्येतद्गोपनीयं प्रयत्नतः ॥८१॥
सकृदावां प्रपन्नो यस्त्यक्तोपाय उपासते
गोपीभावेन देवेश स मामेति न चेतरः ॥८२॥
सकृदावां प्रपन्नो वा मत्प्रियामेकिकामुत
सेवतेनन्यभावेन स मामेति न संशयः ॥८३॥
यो मामेव प्रपन्नश्च मत्प्रियां न महेश्वर
न कदापि स चाप्नोति मामेवं ते मयोदितम् ॥८४॥
सकृदेव प्रपन्नोयस्तवास्मीति वदेदपि
साधनेन विनाप्येव मामाप्नोति न संशयः ॥८५॥
तस्मात्सर्वप्रयत्नेन मत्प्रियां शरणं व्रजेत्
आश्रित्य मत्प्रियां रुद्र मां वशीकर्त्तुमर्हसि ॥८६॥
इदं रहस्यं परमं मया ते परिकीर्तितम्
त्वयाप्येतन्महादेव गोपनीयं प्रयत्नतः ॥८७॥
त्वमप्येनां समाश्रित्य राधिकां मम वल्लभाम्
जपन्मे युगलं मंत्रं सदा तिष्ठ मदालये ॥८८॥
शिव उवाच-
इत्युक्त्वा दक्षिणे कर्णे मम कृष्णो दयानिधिः
उपदिश्य परं मंत्रं संस्कारांश्च विधाय हि ॥८९॥
सगणोंऽतर्दधे विप्र तत्रैव मम पश्यतः
अहमप्यत्र तिष्ठामि तदारभ्य निरंतरम् ॥९०॥
सर्वमेतन्मया तुभ्यं सांगमेव प्रकीर्त्तितम्
अधुना वद विप्रेंद्र किं भूयः श्रोतुमिच्छसि ॥९१॥
इति श्रीपद्मपुराणे पातालखंडे वृंदावनमाहात्म्ये
द्व्यशीतितमोऽध्यायः ॥८२॥

N/A

References : N/A
Last Updated : November 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP