पातालखण्डः - अध्यायः ६८
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
शेष उवाच-
परिस्वादन्क्रतौ तृप्तिं न प्राप सुरसंयुतः ॥१॥
नारायणो महादेवो ब्रह्मा तत्र चतुर्मुखः
वरुणश्च कुबेरश्च तथान्ये लोकपालकाः ॥२॥
तत्रास्वाद्य हविः स्निग्धं वसिष्ठेन परिष्कृतम्
तत्र पुनर्हि विप्रेंद्राः क्षुधार्ताइव भोजनात् ॥३॥
सर्वान्देवांश्च संतर्प्य हविषा करुणानिधिः
वसिष्ठप्रेरितः सर्वमिति कर्तव्यमाचरत् ॥४॥
ब्राह्मणादानसंतुष्टा हविस्तुष्टाः सुरावराः
तृप्ताः सर्वे स्वकं भागं गृहीत्वा स्वालयं ययुः ॥५॥
ऋषिभ्यो होतृमुख्येभ्यः प्रादाद्राज्यं चतुर्दिशम्
संतुष्टास्ते द्विजाराममाशीर्भिरददुः शुभम् ॥६॥
पूर्णाहुतिं ततः कृत्वा वसिष्ठः प्राह सुस्त्रियः
वर्धापयंतु भूमीशं यागपूर्तिकरं परम् ॥७॥
तद्वाक्यं ताः स्त्रियः श्रुत्वा लाजैरवाकिरन्मुदा
लावण्यजितकंदर्पं महामणिविभूषितम् ॥८॥
ततोऽवभृथस्नानार्थं प्रेरयामास भूमिपम्
ययौ रामः सहस्वीयैः सरयूतीरमुत्तमम् ॥९॥
अनेकराजकोटीभिः परीतः पादचारिभिः
जगाम स सरिच्छ्रेष्ठां पक्षिवृंदसमाकुलाम् ॥१०॥
तारापतिरिव स्वाभिर्भार्याभिर्वृत उत्प्रभः
विरोचते तथा तद्वद्रामो राजगणैर्वृतः ॥११॥
तदुत्सवं समाज्ञाय ययुर्लोकास्त्वरायुताः
सीतापतिमुखालोकनिश्चलीभूतलोचनाः ॥१२॥
राजेंद्रं सीतया साकं गच्छंतं सरितं प्रति
विलोक्य मुदिता लोकाश्चिरं दर्शनलालसाः ॥१३॥
अनेक नटगंधर्वा गायंतो यश उज्ज्वलम्
अनुजग्मुर्महीशानं सर्वलोकनमस्कृतम् ॥१४॥
नर्तक्यस्तत्र नृत्यंत्यः क्षोभयंत्यः पतेर्मनः
जलयंत्रैश्च सिंचंत्यो ययुः श्रीरामसेवनम् ॥१५॥
महाराजं विलिपंत्यो हरिद्रा कुंकुमादिभिः
परस्परं प्रलिपंत्यो मुदं प्रापुर्महत्तराम् ॥१६॥
कुचयुग्मोपरिन्यस्तमुक्ताहारसुशोभिताः
श्रवणद्वंद्वसंमृष्टस्वर्णकुंडललक्षिताः ॥१७॥
अनेकनरनारीभिः संकीर्णं मार्गमाचरन्
यथावत्सरितं प्राप शिवपुण्यजलाप्लुताम् ॥१८॥
तत्र गत्वा स वैदेह्या रामः कमललोचनः
प्रविवेश जलं पुण्यं वसिष्ठादिभिरन्वितः ॥१९॥
अनुप्रविविशुः सर्वे राजानो जनतास्तथा
तत्पादरजसा पूतजलं लोकैकवंदितम् ॥२०॥
परस्परं प्रसिंचंतो जलयंत्रैर्मनोरमैः
सुशोणनयनाः सर्वे हर्षं प्रापुर्मनोधिकम् ॥२१॥
स रामः सीतया सार्धं चिरं पुण्यजलप्लवे
क्रीडित्वा जलकल्लोलैर्निरगाद्धर्मसंयुतः ॥२२॥
दुकूलवासाः सकिरीटकुंडलः केयूरशोभावरकंकणान्वितः
कंदर्पकोटिश्रियमुद्वहन्नृपो राजाग्र्यवर्यैरुपसंस्तुतो बभौ ॥२३॥
सयागयूपं वरवर्णशोभितं कृत्वा सरित्तीरवरे महामनाः
त्रैलोक्यलोकश्रियमाप ह्यद्भुतामन्यैर्दुरापां नृपतिर्भुजैर्निजैः ॥२४॥
एवं जनकपुत्र्यासौ हयमेधत्रयं चरन्
त्रैलोक्ये कीर्तिमतुलां प्राप देवैः सुदुर्लभाम् ॥२५॥
एवं ते वर्णितं तात यत्पृष्टो रामसत्कथाम्
विस्तृतः कथितो मेधो भूयः किं पृच्छसे द्विज ॥२६॥
यः शृणोति हरेर्भक्त्या रामचंद्रस्य सन्मखम्
ब्रह्महत्यां क्षणात्तीर्त्वा ब्रह्मशाश्वतमाप्नुयात् ॥२७॥
अपुत्रो लभते पुत्रान्निर्धनो धनमाप्नुयात्
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बंधनात् ॥२८॥
यत्कथाश्रवणाद्दुष्टः श्वपचोऽपि परं पदम्
प्राप्नोति किमु विप्राग्र्यो रामभक्तिपरायणः ॥२९॥
रामं स्मृत्वा महाभागं पापिनः परमं पदम्
प्राप्नुयुः परमं स्वर्गं शक्रदेवादिदुर्लभम् ॥३०॥
ते धन्या मानवा लोके ये स्मरंति रघूत्तमम्
ते क्षणात्संसृतिं तीर्त्वा गच्छंति सुखमव्ययम् ॥३१॥
प्रत्येकमक्षरं ब्रह्महत्यावंशदवानलः
तं यः श्रावयते धीमांस्तं गुरुं संप्रपूजयेत् ॥३२॥
श्रुत्वा कथां वाचकाय गवां द्वंद्वं प्रदापयेत्
सपत्नीकाय संपूज्य वस्त्रालंकारभोजनैः ॥३३॥
कुंडलाभ्यां विराजंत्यौ मुद्रिकाभिरलंकृते
रामसीते स्वर्णमय्यौ प्रतिमे शोभने वरे ॥३४॥
कृत्वा तु वाचकायैव दीयते भो द्विजोत्तम
तस्य देवाश्च पितरो वैकुंठं प्राप्नुयुस्तदा ॥३५॥
त्वया पृष्टा रामकथा मया ते कथिता पुरा
किमन्यत्कथ्यतां ब्रह्मन्पुरतस्तव धीमतः ॥३६॥
शृण्वंति ये कथामेतां ब्रह्महत्यौघनाशिनीम्
ते यांति परमं स्थानं यच्च देवैः सुदुर्लभम् ॥३७॥
गोघ्नश्चापि सुतघ्नश्च सुरापो गुरुतल्पगः
क्षणात्पूतो भवत्येव नात्र संशयितुं क्षमम् ॥३८॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
श्रवणपठनपुण्यवर्णनं नामाष्टषष्टितमोऽध्यायः ॥६८॥
इति रामाश्वमेधप्रकरणं समाप्तम्
N/A
References : N/A
Last Updated : November 06, 2020
TOP