पातालखण्डः - अध्यायः ९
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
श्रीराम उवाच
कीदृशोऽश्वस्तत्र भाव्यः को विधिस्तत्र पूजने
कथं वा शक्यते कर्तुं के जेयास्तत्र वैरिणः ॥१॥
अगस्त्य उवाच
गंगाजलसमानेन वर्णेन वपुषा शुभः
कर्णे श्यामो मुखे रक्तः पीतः पुच्छे सुलक्षितः ॥२॥
मनोवेगः सर्वगतिरुच्चैःश्रवस्समप्रभः
वाजिमेधे हयः प्रोक्तः शुभलक्षणलक्षितः ॥३॥
वैशाखपूर्णमास्यां तु पूजयित्वा यथाविधि
पत्रं लिखित्वा भाले तु स्वनामबलचिह्नितम् ॥४॥
मोचनीयः प्रयत्नेन रक्षकैः परिरक्षितः
यत्र गच्छति यज्ञाश्वस्तत्र गच्छेत्सुरक्षकः ॥५॥
यस्तंबलान्निबध्नाति स्ववीर्यबलदर्पितः
तस्मात्प्रसभमानेयः परिरक्षाकरैर्हयः ॥६॥
कर्त्रा तावत्सुविधिना स्थातव्यं नियमादिह
मृगशृंगधरो भूत्वा ब्रह्मचर्यसमन्वितः ॥७॥
व्रतं पालयमानस्य यावद्वर्षमतिक्रमेत्
तावद्दीनांधकृपणाः परितोष्या धनादिभिः ॥८॥
अन्नं तु बहुशो देयं धनं वा भूरि मारिष
यद्यत्प्रार्थयते धीमांस्तत्तदेव ददाति हि ॥९॥
एवं प्रकुर्वतः कर्म यज्ञः संपूर्णतां गतः
करोति सर्वपापानां नाशनं रिपुनाशन ॥१०॥
तस्माद्भवान्समर्थोऽस्ति करणे पालनेऽर्चने
कृत्वा कीर्तिं सुविमलां पावयान्याञ्जनान्नृप ॥११॥
श्रीराम उवाच
विलोकय द्विजश्रेष्ठ वाजिशालां ममाधुना
तादृशाः संति नो वाश्वाः शुभलक्षणलक्षिताः ॥१२॥
इति श्रुत्वा तु तद्वाक्यमगस्त्यः करुणाकरः
उत्तस्थौ वीक्षमाणोऽयं यागार्हान्वाजिनः शुभान् ॥१३॥
गत्वाथ तत्र शालायां रामचंद्रसमन्वितः
ददर्शाश्वान्विचित्रांगान्मनोवेगान्महाबलान् ॥१४॥
अवनितलगताः किं वाजिराजस्य वंश्याः किमथ रघुपतीनामेकतः कीर्तिपिंडाः
किमिदममृतराशिर्वाहरूपेण सिंधोर्मुनिरिति मनसोंतर्विस्मयं प्राप पश्यन् ॥१५॥
एकतः शोणदेहानां वाजिनां पंक्तिरुत्तमा
एकतः श्यामकर्णाश्च कस्तूरीकांतिसप्रभाः ॥१६॥
एकतः कनकाभाश्च त्वन्यतो नीलवर्णिनः
एकतः शबलैर्वर्णैर्विशिष्टैर्वाजिभिर्वृताः ॥१७॥
एवं पश्यन्मुनिः सर्वान्कौतुकाविष्टमानसः
ययावन्यत्र तान्द्रष्टुं यागयोग्यान्हयान्मुनिः ॥१८॥
ददर्श तत्र शतशो बद्धांस्तादृशवर्णकान्
दृष्ट्वा विस्मयमापेदे स मुनिर्हर्षितांगकः ॥१९॥
एकतः श्यामकर्णांश्च सर्वांगैः क्षीरसन्निभान्
पीतपुच्छान्मुखे रक्ताञ्छुभलक्षणलक्षितान् ॥२०॥
निरीक्ष्य परितोऽनघान्विमलनीरधारानिभान्मनोजवनशोभितान्विमलकीर्तिपुंजप्रभान्
पयोनिधिविशोषको मुनिरुवाचसीतापतिं विचित्रहयदर्शनाद्धृषितनेत्रवक्त्रप्रभः ॥२१॥
अगस्त्य उवाच
हयमेधक्रतौ योग्यान्वाहांस्ते बहुशः शुभान्
पश्यतो नेत्रयोर्मेऽद्य तृप्तिर्नास्ति रघूत्तम ॥२२॥
रामचंद्र महाभाग सुरासुरनमस्कृत
यज्ञं कुरु महाराज हयमेधं सुविस्तरम् ॥२३॥
सुरपतिरिव सर्वान्यज्ञसंघान्करिष्यंस्तपन इव सुपर्वारातितोयं विशोष्यन्
हतरिपुगणमुख्यं सांपरायं विजित्य क्षितितलसुखभोगं कुर्विदं भूरिभाग ॥२४॥
इत्येवं वाक्यवादेन परितुष्टाखिलेंद्रियः
सर्वान्वै यज्ञसंभारानाजहार मनोहरान् ॥२५॥
मुन्यन्वितो महाराजः सरयूतीरमागतः
सुवर्णलांगलैर्भूमिं विचकर्ष महीयसीम् ॥२६॥
विलिख्य भूमिं बहुशश्चतुर्योजनसंमिताम्
मंडपान्रचयामास यज्ञार्थं स नरोत्तमः ॥२७॥
कुंडं तु विधिवत्कृत्वा योनिमेखलयान्वितम्
अनेकरत्नरचितं सर्वशोभासमन्वितम् ॥२८॥
मुनीश्वरो महाभागो वसिष्ठः सुमहातपाः
सर्वं तत्कारयामास वेदशास्त्रविधिश्रितम् ॥२९॥
प्रेषितास्तेन मुनिना शिष्या मुनिवराश्रमान्
कथयामासुरुद्युक्तं हयमेधे रघूत्तमम् ॥३०॥
आकारितास्तदा सर्वे ऋषयस्तपतां वराः
आजग्मुः परमेशस्य दर्शने त्वतिलालसाः ॥३१॥
नारदोसितनामा च पर्वतः कपिलो मुनिः
जातूकर्ण्योंऽगिरा व्यास आर्ष्टिषेणोऽत्रिरासुरिः ॥३२॥
हारीतो याज्ञवल्क्यश्च संवर्तः शुकसंज्ञितः
इत्येवमादयो राम हयमेधवरं ययुः ॥३३॥
तान्सर्वान्पूजयामास रघुराजो महामनाः
प्रत्युत्थानाभिवादाभ्यामर्घ्यविष्टरकादिभिः ॥३४॥
गां हिरण्यं ददौ तेभ्यः प्रायशो दृष्टविक्रमः
महद्भाग्यं त्वद्यमेऽस्ति यद्यूयं दर्शनं गताः ॥३५॥
शेष उवाच
एवं समाकुले ब्रह्मन्नृषिवर्य समागमे
धर्मवार्ता बभूवाहो वर्णाश्रमसुसंमता ॥३६॥
वात्स्यायन उवाच
का धर्मवार्ता तत्रासीत्किं वा कथितमद्भुतम्
साधवः सर्वलोकानां कारुण्यात्किमुताब्रुवन् ॥३७॥
शेष उवाच
तान्समेतान्मुनीन्दृष्ट्वा रामो दाशरथिर्महान्
पप्रच्छ सर्वधर्मांश्च सर्ववर्णाश्रमोचितान् ॥३८॥
ते तु पृष्टा हि रामेण धर्मान्प्रोचुर्महागुणान्
तान्प्रवक्ष्यामि ते सर्वान्यथाविधि शृणुष्व तान् ॥३९॥
ऋषय ऊचुः
ब्राह्मणेन सदा कार्यं यजनाध्ययनादिकम्
वेदान्पठित्वा विरजो नैव गार्हस्थ्यमाविशेत् ॥४०॥
ब्राह्मणेन सदा त्याज्यं नीचसेवानुजीवनम्
आपद्गतोऽपि जीवेत न श्ववृत्त्या कदाचन ॥४१॥
ऋतुकालाभिगमनं धर्मोऽयं गृहिणः परः
स्त्रीणां वरमनुस्मृत्याऽपत्यकामोथवा भवेत् ॥४२॥
दिवाभिगमनं पुंसामनायुष्यकरं मतम्
श्राद्धाहः सर्वपर्वाणि यतस्त्याज्यानि धीमता ॥४३॥
तत्र गच्छेत्स्त्रियं मोहाद्धर्मात्प्रच्यवते परात्
ऋतुकालाभिगामी यः स्वदारनिरतश्च यः ॥४४॥
सर्वदा ब्रह्मचारी ह विज्ञेयः स गृहाश्रमी
ऋतुः षोडशयामिन्यश्चतस्रस्ता सुगर्हिताः ॥४५॥
पुत्रदास्तासु या युग्मा अयुग्माः कन्यकाप्रदाः
त्यक्त्वा चंद्रमसं दुष्टं मघां मूलं विहाय च ॥४६॥
शुचिः सन्निर्विशेत्पत्नीं पुंनामर्क्षे विशेषतः
शुचिं पुत्रं प्रसूयेत पुरुषार्थप्रसाधनम् ॥४७॥
आर्षे विवाहे गोद्वंद्वं यदुक्तं तत्प्रशस्यते
शुल्कमण्वपि कन्यायाः कन्याक्रेतुस्तु पापकृत् ॥४८॥
वाणिज्यं नृपतेः सेवा वेदानध्ययनं तथा
कुविवाहः क्रियालोपः कुलपातनहेतवः ॥४९॥
अन्नोदक पयो मूलफलैर्वापि गृहाश्रमी
गोदानेन तु यत्पुण्यं पात्राय विधिपूर्वकम् ॥५०॥
अनर्चितोऽतिथिर्गेहाद्भग्नाशो यस्य गच्छति
आजन्मसंचितात्पुण्यात्क्षणात्स हि बहिर्भवेत् ॥५१॥
पितृदेवमनुष्येभ्यो दत्त्वाश्नीतामृतं गृही
स्वार्थं पचत्यघं भुंक्ते केवलं स्वोदरंभरिः ॥५२॥
षष्ठ्यष्टम्योर्विशेत्पापं तैले मांसे सदैव हि
चतुर्दश्यां तथामायां त्यजेत क्षुरमंगनाम् ॥५३॥
रजस्वलां न सेवेत नाश्नीयात्सह भार्यया
एकवासा न भुंजीत न भुंजीतोत्कटासने ॥५४॥
नाश्नंतीं स्त्रियमीक्षेत तेजःकामो नरोत्तमः
मुखेनोपधमेन्नाग्निं नग्नां नेक्षेत योषितम् ॥५५॥
नांघ्री प्रतापयेदग्नौ न वस्त्वशुचि निक्षिपेत्
प्राणिहिंसां न कुर्वीत नाश्नीयात्संध्ययोर्द्वयोः ॥५६॥
नाचक्षीत धयंतीं गां नेंद्रचापं प्रदर्शयेत्
न दिवोद्गतसारं च भक्षयेद्दधिनो निशि ॥५७॥
स्त्रीं धर्मिणीं नाभिवादेन्नाद्यादातृप्ति रात्रिषु
तौर्यत्रिकप्रियो न स्यात्कांस्ये पादौ न धावयेत् ॥५८॥
न धारयेदन्यभुक्तं वासश्चोपानहावपि
न भिन्नभाजनेऽश्नीयान्नाश्नीतान्नं विदूषितम् ॥५९॥
संविशेन्नार्द्रचरणो नोच्छिष्टः क्वचिदाव्रजेत्
शयानो वा न चाश्नीयान्नोच्छिष्टः संस्पृशेच्छिरः ॥६०॥
न मनुष्यस्तुतिं कुर्यान्नात्मानमवमानयेत्
अभ्युद्यतं न प्रणमेत्परमर्माणि नो वदेत् ॥६१॥
एवं गार्हस्थ्यमाश्रित्य वानप्रस्थाश्रमं व्रजेत्
सस्त्रीको वा गतस्त्रीको विरज्येत ततः परम् ॥६२॥
इत्येवमादयो धर्मा गदिता ऋषिभिस्तदा
श्रुता रामेण महता सर्वलोकहितैषिणा ॥६३॥
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे सर्वधर्मोपदेशोनाम नवमोऽध्यायः ॥९॥
N/A
References : N/A
Last Updated : November 03, 2020
TOP