संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः| अध्यायः ५८ पातालखण्डः वि्षयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ पातालखण्डः - अध्यायः ५८ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ५८ Translation - भाषांतर शेष उवाचभरतं मूर्च्छितं दृष्ट्वा रघुनाथः सुदुःखितःप्रतीहारमुवाचेदं शत्रुघ्नं प्रापयाशु माम् ॥१॥तद्वाक्यं प्रोक्तमाकर्ण्य क्षणाच्छत्रुघ्नमानयत्यत्र रामो निजभ्राता भरतेन सह स्थितः ॥२॥भरतं मूर्च्छितं दृष्ट्वा रघुनाथं च दुःखितम्प्रणम्य दुःखितोऽवोचत्किमिदं दारुणं महत् ॥३॥तदा रामोंऽत्यजप्रोक्तं वाक्यं लोकविगर्हितम्तं प्रत्युवाच रामोऽसौ शत्रुघ्नं पदसेवकम् ॥४॥अधोमुखो दीनरवो गद्गदाक्षरवेपथुःशृणु भ्रातर्वचो मेऽद्य कुरु तत्क्षिप्रमादरात् ॥५॥यथा स्याद्विमलाकीर्तिर्गंगेव पृथिवीं गतासीताया वाच्यमतुलं लोके श्रुत्वांत्यजोदितम् ॥६॥हातुमिच्छामि देहं स्वमेनां वा जानकीं किलइति वाक्यं समाकर्ण्य रामस्य किल शत्रुहा ॥७॥सवेपथुः पपातोर्व्यां दुःखितः परदारणःसंज्ञां प्राप्य मुहूर्तेन रघुनाथमवोचत ॥८॥शत्रुघ्न उवाचकिमेतदुच्यते स्वामिञ्जानकीं प्रति दारुणम्पाखंडैर्दुष्टचित्तैश्च सर्वधर्मबहिष्कृतैः ॥९॥निंदिता श्रुतिरग्राह्या भवति त्वग्र्यजन्मनाम्जाह्नवी सर्वलोकानां पापघ्नी दुरितापहा ॥१०॥निस्पृष्टा पापिभिः पुंभिः सा स्पर्शेनार्हिता सताम्सूर्यो जगत्प्रकाशाय समुदेति जगत्यहो ॥११॥उलूकानां रुचिकरो न भवेत्तत्र का क्षतिःतस्मात्त्वमेनां गृह्णीष्व मा त्यजानिंदितां स्त्रियम् ॥१२॥श्रीरामभद्रकृपया कुरुष्व वचनं ममएतच्छ्रुत्वा वचस्तस्य शत्रुघ्नस्य महात्मनः ॥१३॥पुनःपुनर्जगादेदं यदुक्तं भरतं प्रतितन्निशम्य वचो भ्रातुर्दुःखपूरपरिप्लुतः ॥१४॥पपात मूर्च्छितो भूमौ छिन्नमूल इव द्रुमःभ्रातरं पतितं वीक्ष्य शत्रुघ्नं दुःखितो भृशम् ॥१५॥प्रतीहारमुवाचेदं लक्ष्मणं त्वानयांतिकम्स लक्ष्मणगृहं गत्वा न्यवेदयदिदं वचः ॥१६॥प्रतीहार उवाचस्वामिन्रामो भवंतं तु समाह्वयति वेगतःस तच्छ्रुत्वा समाह्वानं रामचंद्रेण वेगतः ॥१७॥जगाम तरसा तत्र यत्र स भ्रातृकोऽनघःभरतं मूर्च्छितं दृष्ट्वा शत्रुघ्नमपि मूर्च्छितम् ॥१८॥श्रीरामचंद्रं दुःखार्तं दुःखितो वाक्यमब्रवीत्किमेतद्दारुणं राजन्दृश्यते मूर्च्छनादिकम् ॥१९॥तदाशु शंस मां सर्वं कारणं मुख्यतोऽनघएवं वदंतं नृपतिर्वृत्तांतं सर्वमादितः ॥२०॥शशंस लक्ष्मणं क्षिप्रं दुःखपूरपरिप्लुतम्लक्ष्मणस्तद्वचः श्रुत्वा सीतायास्त्यागसंभवम् ॥२१॥निःश्वसन्मुहुरुच्छ्वासं स्तब्धगात्र इवाभवत्भ्रातरं स्तब्धगात्रं च कंपमानं मुहुर्मुहुः ॥२२॥न किंचन वदन्तं तं वीक्ष्य शोकार्दितोऽब्रवीत्किं करिष्याम्यहं भूमौ स्थित्वा दुर्यशसांकितः ॥२३॥त्यजामीदं वपुः श्रीमल्लोकभीत्या च शोकवान्सर्वदा भ्रातरो मह्यं मद्वाक्यकरणोत्सुकाः ॥२४॥इदानीं तेपि दैवेन प्रतिकूलवचः कराःकुत्र गच्छामि कं यामि हसिष्यंति नृपा भुवि ॥२५॥दुर्यशो लांछितं मां वै कुष्ठिनं रूपवन्नराःमनोर्वंशे पुरा भूपा जाता जाता गुणाधिकाः ॥२६॥इदानीं मयि जाते तु विपरीतं बभूव तत्इति संभाषमाणं तं रामभद्रं समीक्ष्य सः ॥२७॥संस्तभ्याश्रूणि विपुलान्युवाच विकल स्वरःस्वामिन्विषादं मा कार्षीः कथं तव मतिर्हृता ॥२८॥सीतामनिंदितां को नु त्यजति श्रुतवान्भवान्आकारयामि रजकं परिपृच्छामि तं प्रति ॥२९॥कथं त्वयानिंदिता सा जानकी योषितां वरातव देशे बलात्कश्चिद्बाध्यते न जनोऽल्पकः ॥३०॥तस्मात्तस्य यथास्वांते प्रतीतिः स्यात्तथाचरकिमर्थं त्यज्यते भीरुः पतिव्रतपरायणा ॥३१॥मनसा वचसा नान्यं जानाति जनकात्मजातस्मादेनां गृहाण त्वमेतां मा त्यज जानकीम् ॥३२॥ममोपरि कृपां कृत्वा मदुक्तं संश्रयाशु तत्एवं वदंतं प्रत्यूचे रामः शोकेन कर्षितः ॥३३॥लक्ष्मणं धर्मवाक्येन बोधयंस्त्यजनोद्यमः ॥३४॥राम उवाचकथं तु मां ब्रवीषि त्वं मा त्यजैनामनिंदिताम्लोकापवादात्त्यक्ष्येऽहं जानन्नपि विपापिनीम् ॥३५॥स्वयशः कारणेऽहं स्वं देहं त्यक्ष्याम्यशोभनम्त्वामपि भ्रातरं त्यक्ष्ये लोकवादाद्विगर्हितम् ॥३६॥किमुतान्ये गृहाः पुत्रा मित्राणि वसुशोभनम्स्वयशःकारणे सर्वं त्यजामि किमु मैथिलीम् ॥३७॥न तथा मे प्रियो भ्राता न कलत्रं न बांधवाःयथा मे विमलाकीर्तिर्वल्लभा लोकविश्रुता ॥३८॥इदानीं रजको नैव प्रष्टव्यो भवति ध्रुवम्कालेन सर्वं भविता लोकचित्तस्य रंजनम् ॥३९॥आमयो यद्वदामस्तु न चिकित्स्यो भवेत्क्षितौसकालेन परीपाकाद्भेषजादेव नश्यति ॥४०॥तथा कालेन संभावि सांप्रतं मा विलंबयत्यजैनां विपिने साध्वीं मां वा खड्गेन घातय ॥४१॥इत्युक्तं वाक्यमाकर्ण्य दुःखितोऽभूत्तदा महान्चिंतयामास च स्वांते लक्ष्मणः शोककर्षितः ॥४२॥पित्राज्ञप्तो जामदग्न्यो मातरं चाप्यघातयत्गुरोराज्ञा नैव लंघ्या युक्ताऽयुक्तापि सर्वथा ॥४३॥तस्मादेनां त्यजाम्येव रामस्य प्रियकाम्ययाइति संचिंत्य मनसि भ्रातरं प्रत्युवाच सः ॥४४॥लक्ष्मणउवाचअकृत्यमपि कार्यं वै गुर्वाज्ञां नैव लंघयेत्तस्मात्कुर्वे भवद्वाक्यं यत्त्वं वदसि सुव्रत ॥४५॥इत्येवं भाषमाणं तं लक्ष्मणं प्रत्युवाच सःसाधुसाधु महाप्राज्ञ त्वया मे तोषितं मनः ॥४६॥अद्यैव रात्रौ जानक्या दोहदस्तापसी क्षणेतन्मिषेण रथे स्थाप्य मोचयैनां महावने ॥४७॥इत्थं भाषितमाकर्ण्य विशुष्यद्वदनोऽभितःरुदन्बाष्पकलां मुंचञ्जगाम स्वं निवेशनम् ॥४८॥सुमंत्रं तु समाहूय वचनं तमथाब्रवीत्रथं मे कुरु सज्जं वै सदश्ववरभूषितम् ॥४९॥स तद्वाक्यं समाकर्ण्य रथमानीतवांस्तदाआनीतं तं रथं दृष्ट्वा लक्ष्मणः शोककर्षितः ॥५०॥परमं दुःखमापन्नः संरुह्य स्यंदनं वरम्निःश्वसञ्जानकीगेहं प्रतस्थे भ्रातृसेवकः ॥५१॥गत्वा चांतःपुरे भ्राता रामस्य मिथिलात्मजाम्प्रत्यूचे निःश्वसन्वाक्यं दुःखपूरपरिप्लुतः ॥५२॥मातर्जानकि रामेण प्रेषितो भवनं तवतापसीः प्रति याहि त्वं दोहदप्राप्तिहेतवे ॥५३॥इति वाक्यं समाकर्ण्य लक्ष्मणस्य विदेहजापरमं हर्षमापन्ना लक्ष्मणं प्रत्यभाषत ॥५४॥जानक्युवाचधन्याहं मैथिली राज्ञी रामस्य चरणस्मरायस्या दोहदपूर्त्यर्थं प्रेषयामास लक्ष्मणम् ॥५५॥अद्याहं ता वनचरीस्तापसीः पतिदेवताःनमस्कुर्यां च वासोभिः पूजयामि मनोहराः ॥५६॥इत्युक्त्वा रम्यवस्त्राणि महार्हाभरणानि चमणीन्विमलमुक्ताश्च कर्पूरादिसुगंधिमत् ॥५७॥चंदनादिकवस्तूनि विचित्राणि सहस्रधाजग्राह रघुनाथस्य पत्नी स्वप्रियकाम्यया ॥५८॥सीता गृहीत्वा सर्वाणि दासीनां करयोर्मुहुःलक्ष्मणं प्रतिगच्छंती देहल्यां चास्खलत्तदा ॥५९॥अविचार्य तदौत्सुक्याल्लक्ष्मणं प्रियकारिणम्उवाच कुत्र सरथो येन मां प्रापयिष्यसि ॥६०॥स निःश्वसन्रथं हैमं जानक्या सह निर्विशत्सुमंत्रं प्रत्युवाचासौ चालयाश्वान्मनोजवान् ॥६१॥स सुयुक्तं रथं वाक्याल्लक्ष्मणस्य तु चाह्वयत्अश्रुपूर्णमुखं पश्यँल्लक्ष्मणं स मुहुर्मुहुः ॥६२॥आहतास्तेन कशया वाहास्तस्यापतन्पथिन चलंति यदा वाहास्तदा लक्ष्मणमब्रवीत् ॥६३॥सुमंत्र उवाचस्वामिंश्चलंति नो वाहा यत्नेन परिचालिताःकिं करोमि न जानेऽत्र कारणं वाहपातने ॥६४॥एवं ब्रुवंतं प्रत्यूचे लक्ष्मणो गद्गदस्वरःसारथिं धैर्यमास्थाय ताडयैतान्कशादिभिः ॥६५॥एतच्छ्रुत्वोदितं यंता कथंचित्समचालयत्तदा स्फुरद्दक्षनेत्रं जानक्या दुःखशंसकम् ॥६६॥तदैव हृदये शोकः समभूद्दुःखशंसकःतदैव पक्षिणः पुण्याः कुर्वंति परिवर्तनम् ॥६७॥एवं वीक्ष्यैव वैदेही प्रत्युवाचाथ देवरम्कथं मे तापसीक्षायै यातुमिच्छा रघूद्वह ॥६८॥रामे भूयाद्धि कल्याणं भरते वा तथानुजेतत्प्रजासु च सर्वत्र मा भवंतु विपर्ययाः ॥६९॥एवं ब्रुवंतीं संवीक्ष्य जानकीं च स लक्ष्मणःन किंचिदुक्तवान्रुद्ध कंठो बाष्पप्रपूरितः ॥७०॥सा गच्छंती मृगान्वामं परिवर्तनकारकान्अपश्यद्दुःखसंघातकारकान्समभाषत ॥७१॥अद्य यन्मे मृगा वामं वर्तयंति तदिष्यतेश्रीरामचरणौ मुक्त्वा गच्छंत्यायुक्तमेव तत् ॥७२॥महिलानां परोधर्मः स्वभर्तृचरणार्चनम्तन्मुक्त्वान्यत्र यांत्या मे यद्भवेद्युक्तमेव तत् ॥७३॥एवं पथि विचारं तु कुर्वंत्या परमार्थतःजाह्नवी ददृशे देव्या मुनिवृंदैकसेविता ॥७४॥यस्यां जलस्य कल्लोला दृश्यंते दुग्धसंनिभाःतरंगो दृश्यते यत्र स्वर्गसोपानमूर्तिभृत् ॥७५॥यस्या वारिकणस्पर्शान्महापातकसंचयःपलायते न कुत्रापि स्थानमीक्षन्समंततः ॥७६॥गंगां प्राप्याथ सौमित्रिर्जानकीं स्यंदने स्थिताम्उवाच निर्गलद्बाष्प एहि सीते रथाद्भुवि ॥७७॥सीता तद्वाक्यमाकर्ण्य क्षणादवततार सालक्ष्मणेन धृता बाहौ स्खलंती पथि कंटकैः ॥७८॥इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधेजानक्या गंगादर्शनंनाम अष्टपंचाशत्तमोऽध्यायः ॥५८॥ N/A References : N/A Last Updated : November 06, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP