पातालखण्डः - अध्यायः ६३
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
शेष उवाच
लवं विमूर्च्छितं दृष्ट्वा बलिवैरिविदारणम्
शत्रुघ्नो जयमापेदे रणमूर्ध्नि महाबलः ॥१॥
लवं बालं रथे स्थाप्य शिरस्त्राणाद्यलंकृतम्
रामप्रतिनिधिं मूर्त्या ततो गंतुमियेष सः ॥२॥
स्वमित्रं शत्रुणा ग्रस्तमिति दुःखसमन्विताः
बालामात्रेऽस्य सीतायै त्वरिताः संन्यवेदयन् ॥३॥
बाला ऊचुः
मातर्जानकि ते पुत्रो बलाद्वाहमपाहरत्
कस्यचिद्भूपवर्यस्य बलयुक्तस्य मानिनः ॥४॥
ततो युद्धमभूद्घोरं तस्य सैन्येन जानकि
तदा वीरेण पुत्रेण तव सर्वं निपातितम् ॥५॥
पश्चादपि जयं प्राप्तः सुतस्तव मनोहरः
तं भूपं मूर्छितं कृत्वा जयमाप रणांगणे ॥६॥
ततो मूर्च्छां विहायैष राजा परमदारुणः
संकुप्य पातयामास तव पुत्रं रणांगणे ॥७॥
अस्माभिर्वारितः पूर्वं मा गृहाण हयोत्तमम्
अस्मान्सर्वांश्च धिक्कृत्य ब्राह्मणान्वेदपारगान् ॥८॥
इति वाक्यं शिशूनां सा समाकर्ण्य सुदारुणम्
पपात भूतलोपस्थे दुःखयुक्ता रुरोद ह ॥९॥
सीतोवाच
कथं नृपो दयाहीनो बालेन सह युध्यति
अधर्मकृतदुर्बुद्धिर्यो मद्बालं न्यपातयत् ॥१०॥
लव वीरभवान्कुत्र वर्ततेऽति बलान्वितः
कथं त्वं निष्कृपस्याहो राज्ञोऽहार्षीद्धयोत्तमम् ॥११॥
त्वं बालस्ते दुराक्रांताः सर्वशस्त्रविशारदाः
रथस्था विरथस्त्वं वै कथं युद्धं समं भवेत् ॥१२॥
ताताहं तु त्वया सार्द्धं रामत्यागासुखं जहौ
इदानीं रहिता युष्मत्कथं जीवामि कानने ॥१३॥
एहि मां मुंच यज्ञाश्वं गच्छत्वेष महीपतिः
मद्दुःखं नाभिजानासि मम दुःखप्रमार्जकः ॥१४॥
कुशो यद्यभविष्यत्स रणे वीरशिरोमणिः
अमोचयिष्यदधुना भवंतं भूपपार्श्वतः ॥१५॥
सोऽपि मद्दैवतो नास्ति समीपे किं करोम्यतः
दैवमेव ममाप्यत्र कारणं दुःखसंभवे ॥१६॥
एवमादि बहुश्रीमत्येषा वै विललाप ह
पादांगुष्ठेन लिखती भूमिं नेत्रद्वयाश्रुभिः ॥१७॥
बालान्प्रति जगादासौ पृथुकः स च भूपतिः
कथं मत्सुतमापात्य रणे कुत्र गमिष्यति ॥१८॥
इति वाक्यं वदत्येषा जानकी पतिदेवता
तावत्कुशस्तु संप्राप्त उज्जयिन्या महर्षिभिः ॥१९॥
माघासितचतुर्दश्यां महाकालं समर्च्य च
प्राप्य भूरिवरांस्तस्मादागमन्मातृसन्निधौ ॥२०॥
जानकीं विह्वलां दृष्ट्वा नेत्रोद्भूताश्रु विक्लवाम्
शोकविह्वलदीनांगीं बभाषे यावदुत्सुकः ॥२१॥
तदा स्वबाहुरवदत्स्फुरद्युद्धाभिशंसनः
हृदये चरणोत्साहो बभूवातिरथस्य हि ॥२२॥
स प्रत्युवाच जननीं दीनगद्गदभाषिणीम्
मातस्तव गतं दुःखं मयि पुत्र उपस्थिते ॥२३॥
मयि जीवति ते नेत्रादश्रूणि भुवि नो पतन्
प्रसूमुवाचाश्रुखिन्नां दीनगद्गदभाषिणीम् ॥२४॥
कुशो दुःखमितः सद्यो दुःखितां धीरमानसः
मम भ्राता लवः कुत्र वर्तते वैरिमर्दनः ॥२५॥
सदा मामागतं ज्ञात्वा प्रहर्षन्सन्निधावियात्
न दृश्यते कथं वीरः कुत्र रंतुं गतो बली ॥२६॥
केन वा सह बालत्वाद्गतो मां वै निरीक्षितुम्
किं त्वं रोदिषि मे मातर्लवः कुत्र स वर्तते ॥२७॥
तन्मे कथय सर्वं यत्तव दुःखस्य कारणम्
तच्छ्रुत्वा पुत्रवाक्यं सा दुःखिता कुशमब्रवीत् ॥२८॥
लवो धृतो नृपेणात्र केनचिद्धयरक्षिणा
बबंध बालको मेत्र हयं यागक्रियोचितम् ॥२९॥
तद्रक्षकान्बहूञ्जिग्ये एकोऽनेकान्रिपून्बली
राजा तं मूर्च्छितं कृत्वा बबंध रणमूर्धनि ॥३०॥
बालका इति मामूचुः सहगंतार एव हि
ततोऽहं दुःखिता जाता निशम्य लवमाधृतम् ॥३१॥
त्वं मोचय बलात्तस्मात्काले प्राप्तो नृपोत्तमात्
निशम्य मातुर्वचनं कुशः कोपसमन्वितः
जगाद तां दशन्नोष्ठं दंतैर्दंतान्विनिष्पिषन् ॥३२॥
कुश उवाच
मातर्जानीहि तं मुक्तं लवं पाशस्य बंधनात्
इदानीं हन्मि तं बाणैः समग्रबलवाहनम् ॥३३॥
यदि देवोऽमरो वापि यदि शर्वः समागतः
तथापि मोचये तस्माद्बाणैर्निशितपर्वभिः ॥३४॥
मा रोदिषि मातरिह वीराणां रणमूर्छितम्
कीर्तयेऽत्र भवत्येव पलायनमकीर्तये ॥३५॥
देहि मे कवचं दिव्यं धनुर्गुणसमन्वितम्
शिरस्त्राणं च मे मातः करवालं तथाशितम् ॥३६॥
इदानीं यामि समरे पातयामि बलं महत्
मोचयामि भ्रातरं स्वं रणमध्याद्विमूर्छितम् ॥३७॥
न मोचयाम्यद्य पुत्रं तव मातर्महारणात्
तदा तौ मे भवत्पादौ संरुष्टौ भवतां क्षितौ ॥३८॥
शेष उवाच
इति वाक्येन संतुष्टा जानकी शुभलक्षणा
सर्वं प्रादादस्त्रवृंदं जयाशीर्भिर्नियुज्यतम् ॥३९॥
प्रयाहि पुत्र संग्रामं लवं मोचय मूर्च्छितम्
इत्याज्ञप्तः कुशः संख्ये कवची कुंडली बली ॥४०॥
मुकुटी करवाली च चर्मधारी धनुर्धरः
अक्षयाविषुधी कृत्वा स्कंधयोः सिंहवीर्ययोः ॥४१॥
जगाम तरसा नत्वा मातृपादौ रथाग्रणीः
वेगेन यावद्युद्धाय गच्छति क्षिप्रमाहवे ॥४२॥
तावद्ददर्श स्वलवं वैरिवृंदनिपातकम्
आयांतं तं कुशं वीरा ददृशुः सुमहाभटाः ॥४३॥
कृतांतमिव संहर्तुं सर्वं विश्वमुपस्थितम्
लवो महाबलं दृष्ट्वा कुशं भ्रातरमागतम् ॥४४॥
अत्यंतं वह्निवद्युद्धे दिदीपे वायुना समम्
रथादुन्मुच्य चात्मानं युद्धाय स विनिर्गतः ॥४५॥
कुशः सर्वान्रणस्थान्वै वीरान्पूर्वदिशि क्षिपत्
पश्चिमायां दिशि लवः कोपात्सर्वान्समैरयत् ॥४६॥
कुशबाणव्यथाव्याप्ता लवसायकपीडिताः
सैन्ये जना मुने सर्वे उत्कल्लोलांबुधिभ्रमाः ॥४७॥ उत्कल
कुशेन च लवेनाथ शरव्रातैः प्रपीडितम्
न शर्म लेभे सकलं सैन्यं वीरप्रपूरितम् ॥४८॥
इतस्ततः प्रभग्नं तद्बलं त्रस्तं पुनः पुनः
न कुत्रचिद्रणे स्थित्वा युद्धमैच्छद्बलान्वितः ॥४९॥
एतस्मिन्समये राजा शत्रुघ्नः परतापनः
कुशं वीरं ययौ योद्धुं तादृशं लवसन्निभम् ॥५०॥
कुशं दृष्ट्वा बलाक्रांतं राममूर्तिसमप्रभम्
रथे तिष्ठन्हेममये जगाद परवीरहा ॥५१॥
शत्रुघ्न उवाच
कोऽसि त्वं सन्निभो भ्रात्रा लवेन सुमहाबलः
किं नामासि महावीर कस्ते तातः क्व ते प्रसूः ॥५२॥
कथं वने द्विजैर्जुष्टे तिष्ठसि त्वं नरर्षभ
सर्वं शंस यथायुध्ये त्वया सह महाबल ॥५३॥
इति वाक्यं समाकर्ण्य कुशः प्रोवाच भूमिपम्
मेघगंभीरया वाचा नादयन्रणमंडलम् ॥५४॥
केवलं सुषुवे सीता पतिव्रतपरायणा
वने वसावो वाल्मीकेश्चरणार्चनतत्परौ ॥५५॥
मातृसेवासमुद्युक्तौ सर्वविद्याविशारदौ
कुशो लव इति प्रख्यामागतौ भूपतेऽनघ ॥५६॥
कस्त्वं वीरो रणश्लाघी किमर्थं हयसत्तमः
मुक्तोऽस्ति समरे त्वद्य जेतासि बलसंयुतः ॥५७॥
युध्यस्व त्वं मया सार्द्धं यदि वीरोऽसि भूमिप
इदानीं पातयिष्यामि भवंतं रणमूर्धनि ॥५८॥
शत्रुघ्नस्तं सुतं ज्ञात्वा सीताया रामसंभवम्
विसिष्माय स्वयं चित्ते कोपाद्धनुरुपाददत् ॥५९॥
तमात्तधनुषं दृष्ट्वा कुशः कोपसमन्वितः
विस्फारयामास धनुः स्वीयं सुदृढमुत्तमम् ॥६०॥
मुमोच बाणान्निशिताञ्छत्रुघ्नः सर्वशस्त्रवित्
तांश्चिच्छेद कुशः सर्वांल्लीलया प्रहसन्रणे ॥६१॥
बाणाश्च शतसाहस्राः कुशस्य च नृपस्य च
भुवनं व्याप्नुवन्सर्वं तच्चित्रमभवन्मुने ॥६२॥
अग्न्यस्त्रेण कुशः सर्वान्ददाह तरसा बली
शमयामास तं भूपः पर्जन्यास्त्रेण वीर्यवान् ॥६३॥
शमयामास तं भूपो वायव्येनातिविक्रमः
तदा वायुरभूत्तीव्रः सर्वतो रणमंडले
पर्वतास्त्रेण तं वायुं क्षोभयंतं समावृणोत् ॥६४॥
वज्रास्त्रेण नृपः संख्ये चिच्छेद सनगोपलान्
तदा नारायणास्त्रं स मुमोच कुश उद्भटः
नारायणं तदा भूपं नाशकत्परिबाधितुम् ॥६५॥
तदा प्रकुपितोऽत्यतं कुशः कोपपरायणः
उवाच भूपं शत्रुघ्नं महाबलपराक्रमम् ॥६६॥
जानामि त्वां महावीरं संग्रामे जयकारिणम्
यत्त्वां नारायणास्त्रं मे न बबाधे भयानकम् ॥६७॥
इदानीं पातयाम्यद्य भूमौ त्वां नृपते शरैः
त्रिभिश्चेन्नकरोम्येतत्प्रतिज्ञां तर्हि मे शृणु ॥६८॥
यो मनुष्यवपुः प्राप्य दुर्लभं पुण्यकोटिभिः
तन्नाद्रियेत संमोहात्तस्य मेस्त्वत्र पातकम् ॥६९॥
सावधानो भवानत्र भवतु प्रधनांगणे
पातयामि क्षितौ सद्य इत्युक्त्वा स्वशरासने ॥७०॥
शरं संरोपयामास घोरं कालानलप्रभम्
लक्षीकृत्य रिपोर्वक्षो विपुलं कठिनं महत् ॥७१॥
तं संधितं शरं दृष्ट्वा शत्रुघ्नः कोपमूर्च्छितः
मुमोच बाणान्निशितान्कुशत्वग्भेदकारकान् ॥७२॥
स बाणो हृदयं तस्य भेत्तुं तत्प्रचचाल वै
घोररूपो वह्निसमआशीविषवदुच्छ्वसन् ॥७३॥
स बाणो नृपवर्येण रामं स्मृत्वाशुलक्षितः
चिच्छेद कुशमुक्तं स सायकं शितपर्वकम् ॥७४॥
तदात्यंतं प्रकुपितः कुशो बाणस्य कृंतनात्
अपरं सायकं चापे दधार शितपर्वकम् ॥७५॥
स यावत्तदुरो भेत्तुं करोति च बलोद्धुरः
तं तावदच्छिनत्तस्य शरं कालानलप्रभम् ॥७६॥
तदा कुशो मातृपादौ स्मृत्वा रोषसमन्वितः
तृतीयं चापके स्वीये दधार शरमद्भुतम् ॥७७॥
शत्रुघ्नस्तमपि क्षिप्रं च्छेत्तुं बाणं समाददे
तावद्विद्धः शरेणासौ पपात धरणीतले ॥७८॥
हाहाकारो महानासीच्छत्रुघ्ने विनिपातिते
जयमापकुशस्तत्र स्वबाहुबलदर्पितः ॥७९
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
शत्रुघ्नमूर्च्छने कुशजयोनाम त्रिषष्टितमोऽध्यायः ॥६३॥
N/A
References : N/A
Last Updated : November 06, 2020
TOP