संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः| अध्यायः ३७ पातालखण्डः वि्षयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ पातालखण्डः - अध्यायः ३७ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ३७ Translation - भाषांतर शेष उवाचते पृष्टा मुनिवर्येण रामचारित्रमद्भुतम्धन्यं सभाग्यं मन्वानाः प्रोचुरात्मानमादरात् ॥१॥जना ऊचुःपवित्रिता वयं सर्वे दर्शनेन तवाधुनायद्रामकथयास्मान्वै पावयस्यधुना जनान् ॥२॥शृणुष्व वचनं तथ्यं भवान्ब्रह्मर्षिसत्तमःत्वया पृष्टं यदस्मभ्यं सर्वं तत्कथयाम वै ॥३॥अगस्त्यवाक्याच्छ्रीरामो विप्रहत्यापनुत्तयेयागं करोति सुमहान्सर्वसंभारसंभृतम् ॥४॥तं पालयानाः सर्वे वै त्वदाश्रममुपागताःअश्वेन सहिता विप्र तज्जानीहि महामते ॥५॥इति वाक्यं समाकर्ण्य मनोहारि रसायनम्अत्यंतं हर्षमापेदे ब्राह्मणो रामभक्तिमान् ॥६॥अद्य मे फलितो वृक्षो मनोरथश्रियान्वितःअद्य मे जननी धन्या जातं मां सुषुवे तु या ॥७॥अद्य राज्यं मया प्राप्तं कंटकेन विवर्जितम्अद्य कोशाः सुसंपन्ना अद्य देवाः सुतोषिताः ॥८॥अग्निहोत्रफलं त्वद्य प्राप्तं मे हविषा हुतम्यद्द्रक्ष्ये रामचंद्रस्य चरणांभोरुहोर्युगम् ॥९॥यो नित्यं ध्यायते स्वांते अयोध्यायाः पतिः प्रभुःस मे दृग्गोचरो नूनं भविष्यति मनोहरः ॥१०॥हनूमान्मां समालिंग्य प्रक्ष्यते कुशलं ममभक्तिं मे महतीं दृष्ट्वा तोषं प्राप्स्यति सत्तमः ॥११॥इति वाक्यं समाकर्ण्य हनूमान्कपिसत्तमःजग्राह पादयुगलं मुनेरारण्यकस्य हि ॥१२॥स्वामिन्हनूमान्विप्रर्षे सेवकोऽहं पुरःस्थितःजानीहि रामदासस्य रेणुकल्पं मुनीश्वर ॥१३॥इत्युक्तवति तस्मिन्वै मुनिः परमहर्षितःआलिलिंग हनूमंतं रामभक्त्या सुशोभितम् ॥१४॥उभौ प्रेमविनिर्भिन्नावुभावपि सुधाप्लुतौस्थगितौ चित्रलिखिताविव तत्र बभूवतुः ॥१५॥उपविष्टौ कथास्तत्र चक्रतुः सुमनोहराःरघुनाथपदांभोजप्रीतिनिर्भरमानसौ ॥१६॥हनूमांस्तमुवाचेदं वचो विविधशोभनम्आरण्यकं मुनिवरं रामांघ्रिध्याननिर्भृतम् ॥१७॥स्वामिन्नयं दशरथकुलहीरांकुरो महान्रामभ्राता महाशूरः शत्रुघ्नः प्रणमत्यसौ ॥१८॥लवणो येन निहतः सर्वलोकभयंकरःकृताश्च सुखिनः सर्वे मुनयः सुतपोधनाः ॥१९॥एष पुष्कलनामा त्वां नमत्युद्भटसेवितःयेनाधुना महावीरा जिताः समरमंडले ॥२०॥जानीह्येनं बहुगुणं रामामात्यं महाबलम्प्राणप्रियं रघुपतेः सर्वज्ञं धर्मकोविदम् ॥२१॥सुबाहुरयमत्युग्रो वैरिवंशदवानलःरामपादाब्जरोलंबो नमति त्वां महायशाः ॥२२॥सुमदोऽप्येष पार्वत्या दत्तरामांघ्रिसेवयाप्राप्तोऽधुनासौ संसारवार्धिनिस्तरणं महत् ॥२३॥सत्यवानयमश्वं यः प्राप्तमाश्रुत्य सेवकात्राज्यं निवेदयामास स त्वां प्रणमति क्षितौ ॥२४॥इति वाक्यं समाकर्ण्य समालिंग्य समादरात्चकारारण्यक ऋषिः स्वागतं फलकादिना ॥२५॥ते हृष्टास्तत्र वसतिं चक्रुर्मुनिवराश्रमेप्रातर्नित्यक्रियां कृत्वा रेवायां ते महोद्यमाः ॥२६॥नरयानमथारोप्य सेवकैः सहितं मुनिम्शत्रुघ्नः प्रापयामासायोध्यां रामकृतालयाम् ॥२७॥स दूरान्नगरीं दृष्ट्वा सूर्यवंशनृपोषिताम्पदातिरभवद्वेगाद्रघुनाथदिदृक्षया ॥२८॥संप्राप्य नगरीं रम्यामयोध्यां जनशोभिताम्मनोरथसहस्रेण संरूढो रामदर्शने ॥२९॥ददर्श तत्र सरयूतीरे मंडपशोभितेरामं दूर्वादलश्यामं कंजकांतिविलोचनम् ॥३०॥मृगशृंगं कटौ रम्यं धारयंतं श्रियान्वितम्ऋषिवृंदैर्व्यासमुख्यैर्वृतं शूरैः सुसेवितम् ॥३१॥भरतेन सुमित्रायास्तनूजेन परीवृतम्ददतं दीनसंधेभ्यो दानानि प्रार्थितानि तम् ॥३२॥विलोक्यारण्यकाख्योऽसौ कृतार्थ इत्यमन्यतमल्लोचने पद्मदलसमाने रामलोकके ॥३३॥अद्य मे सर्वशास्त्रस्य ज्ञातृत्वं बहुसार्थकम्येन श्रीराममाज्ञाय प्राप्तोऽयोध्यापुरीमिमाम् ॥३४॥इत्येवमादिवचनानि बहूनि हृष्टोरामांघ्रिदर्शनसुहर्षित गात्रशोभीप्रायाद्रमेश्वरसमीपमगम्यमन्यै-र्योगेश्वरैरपि विचारपरैः सुदूरम् ॥३५॥धन्योऽहमद्य रामस्य चरणावक्षिगोचरौकरिष्यामि वचो रम्यं वदन्राममवेक्षयन् ॥३६॥रामोऽपि वाडवश्रेष्ठं ज्वलंतं स्वेन तेजसातपोमूर्तिधरं वीक्ष्य प्रत्युत्थानमथाकरोत् ॥३७॥रामचंद्रस्तस्य पादौ सुचिरं नतवान्महान्ब्रह्मण्यदेवपावित्र्यं कृतमद्यतनोर्मम ॥३८॥इति वाक्यं वदंस्तस्य पादयोः पतितः प्रभुःसुरासुरनमन्मौलिमणिनीराजितांघ्रिकः ॥३९॥प्रणतं तं नृपश्रेष्ठं वाडवेंद्रो महातपाःगृहीत्वा भुजयोर्मध्यमालिलिंग प्रियं प्रभुम् ॥४०॥कौसल्यातनयस्तं वा उच्चैर्मणिमयासनेसंस्थाप्य च पदोर्युग्मं जलेनाक्षालयत्प्रभुः ॥४१॥पादावनेजनोदं तु मस्तकेऽधाद्धरिः स्वयम्पवित्रितोऽद्य सगणः सकुटुंब इति ब्रुवन् ॥४२॥चंदनेन विलिप्याथ गां च प्रादात्पयस्विनीम्उवाच च वचो रम्यं देवदेवेंद्र सेवितः ॥४३स्वामिन्मखो मया वाजिमेधसंज्ञः क्रियेत हसोयं त्वच्चरणा यातादद्यपूर्णो भविष्यति ॥४४॥अद्य मे ब्रह्महत्योत्थ पापहानिं करिष्यतिअश्वमेधः क्रतुर्युष्मच्चरणेन पवित्रितः ॥४५॥इति वाक्यं ब्रुवाणं तं राजराजेंद्रसेवितम्आरण्यक उवाचेदं हसन्माध्व्या गिरा मुनिः ॥४६॥स्वामिंस्तव तु युक्तं हि वचो ब्रह्मण्यभूमिपत्वन्मूर्तयो महाराज ब्राह्मणा वेदपारगाः ॥४७॥त्वं यदा ब्रह्मपूजादि शुभं कर्म करिष्यसिततोऽखिला नृपा विप्रं पूजयिष्यंति भूमिप ॥४८॥त्वयोक्तं यन्महाराज विप्रहत्यापनुत्तयेयागं करोमि विमलं तत्तु हास्यकरं वचः ॥४९॥त्वन्नामस्मरणान्मूढः सर्वशास्त्रविवर्जितःसर्वपापाब्धिमुत्तीर्य स गच्छेत्परमं पदम् ॥५०॥सर्ववेदेतिहासानां सारार्थोऽयमिति स्फुटम्यद्रामनामस्मरणं क्रियते पापतारकम् ॥५१॥तावद्गर्जंति पापानि ब्रह्महत्यासमानि चन यावत्प्रोच्यते नाम रामचंद्र तव स्फुटम् ॥५२॥त्वन्नामगर्जनं श्रुत्वा महापातककुंजराःपलायंते महाराज कुत्रचित्स्थानलिप्सया ॥५३॥तस्मात्तव कथं हत्या महापुण्यददर्शनराम त्वत्सुकथां श्रुत्वा पूतः सद्यो भविष्यति ॥५४॥मया पूर्वं कृतयुगे गंगायास्तीरवासिनाम्ऋषीणां मुखतो वाक्यं श्रुतमेतत्पुराविदाम् ॥५५॥तावत्पापभियः पुंसां कातराणां सुपापिनाम्यावन्न वदते वाचा रामनाममनोहरम् ॥५६॥तस्माद्धन्योऽहमधुना मम संसृतिनाशनम्सांप्रतं सुलभं रामचंद्र त्वद्दर्शनादभूत् ॥५७॥इत्युक्तवंतं स मुनिं पूजयामास तत्र वैसर्वे मुनिजनाः साधु साधु वाक्यमिति ब्रुवन् ॥५८॥शेष उवाचअत्याश्चर्यमभूत्तत्र तन्मे निगदतः शृणुवात्स्यायनमुनिश्रेष्ठ रामभक्तिपरायण ॥५९॥रामं दृष्ट्वा महाराजं यादृशं ध्यानगोचरम्अत्यंतं हर्षमापन्नो जगाद स मुनीश्वरान् ॥६०॥मुनीश्वराः संशृणुत मद्वाक्यं सुमनोहरम्मादृशः को न भूलोके भविष्यति सुभाग्यवान् ॥६१॥नास्ति मत्सदृशः कोपि न जातो न भविष्यतियद्रामभद्रो मां नत्वा स्वागतं परिपृष्टवान् ॥६२॥यत्पादपंकजरजः श्रुतिमृग्यं सदैव हिसोऽद्य मत्पादयोः पाथः पीत्वा पूतममन्यत ॥६३॥एवं प्रवदतस्तस्य ब्रह्मस्फोटोऽभवत्तदानिर्गतं तद्भवं तेजो विवेश रघुनायके ॥६४॥पश्यतां सर्वलोकानां सरयूतीरमंडपेसायुज्यमुक्तिं संप्राप दुर्ल्लभां योगिभिर्जनैः ॥६५॥दिवि तूर्यनिनादोऽभूद्वीणानादोऽभवत्तदापुष्पवृष्टिः पपाताग्रे पश्यतां चित्रमद्भुतम् ॥६६॥मुनयोऽप्येतदीक्षित्वा प्रशंसंतो मुनीश्वरम्कृतार्थोयं मुनिश्रेष्ठो यद्रामवपुषीक्षितः ॥६७॥इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे आरण्य-कमुनेर्विष्णुलोकगमनंनाम सप्तत्रिंशत्तमोऽध्यायः ॥३७॥ N/A References : N/A Last Updated : November 04, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP